१९०

नर्मदामाहात्म्ये नानाविधतीर्थमाहात्म्यवर्णनम्।
मार्कण्डेय उवाच।
नर्मदे चोत्तरे कूले तीर्थं योजनविस्तृतम्।
मन्त्रेश्वरेति विख्यातं सर्वपापहरं परम् ॥ १९०.१ ॥

तत्र स्नात्वा नरो राजन्! दैवतैः सह मोदते।
पञ्चवर्षसहस्राणि क्रीडते कामरूप धृक्॥ १९०.२ ॥

गर्जनञ्च ततो गच्छेद्यत्र मेघस्ततोत्थितः।
इन्द्रजिन्नाम सम्प्राप्तस्तस्य तीर्थ प्रभावतः ॥ १९०.३ ॥

मेघनादं ततो गच्छेद्यत्र मेघानुगर्जितम्।
मेघनादो गणस्तत्र परमां गणताङ्गतः ॥ १९०.४ ॥

ततो गच्छेत्तु राजेन्द्र! तीर्थमाम्रातकेश्वरम्।
तत्र स्नात्वा नरो राजन्! गो सहस्रफलं लभेत् ॥ १९०.५ ॥

नर्मदोत्तरतीरेतु तीर्थन्तु विश्रुतं भवेत्।
तस्मिंस्तीर्थे नरः स्नात्वा तर्पयेत् पितृदेवताः ॥ १९०.६ ॥

सर्वान् कामानवाप्नोति मनसा ये विचिन्तिताः।
ततो गच्छेत्तु राजेन्द्र! ब्रह्मावर्तमिति स्मृतम् ॥ १८९.७ ॥

तत्र सन्निहितो ब्रह्मा नित्यमेव युधिष्ठिर!।
तत्र स्नात्वा तु राजेन्द्र! ब्रह्मलोके महीयते ॥ १९०.८ ॥

ततोऽगारेश्वरं गच्छेन्नियतो नियताशनः।
सर्वपापविनिर्मुक्तो रुद्रलोकं स गच्छति ॥ १९०.९ ॥

ततो गच्छेच्च राजेन्द्र! कपिला तीर्थमुत्तमम्।
तत्र स्नात्वा नरो राजन्! कपिला दानमाप्नुयात् ॥ १९०.१० ॥

गच्छेत् करजतीर्थन्तु देवर्षिगणसेवितम्।
तत्र स्नात्वा नरो राजन्! गोलोकं समवाप्नुयात् ॥ १९०.११ ॥

ततो गच्छेत्तु राजेन्द्र! कुण्डलेश्वरमुत्तमम्।
तत्र सन्निहितो रुद्रस्तिष्ठते ह्युमया सह॥ १९०.१२ ॥

तत्र स्नात्वा तु राजेन्द्र! ह्यवध्यस्त्रिदशैरपि।
पिप्पलेशन्ततो गच्छेत् सर्वपापप्रणाशनम् ॥ १९०.१३ ॥

तत्र स्नात्वा तु राजेन्द्र! रुद्रलोके महीयते।
ततो गच्छेत्तु राजेन्द्र! विमलेश्वरमुत्तमम् ॥ १९०.१४ ॥

तत्र देवशिला रम्या चेश्वरेण विनिर्मिता।
तत्र प्राणपरित्यागाद् रुद्रलोकमवाप्नुयात् ॥ १९०.१५ ॥

ततः पुष्करिणीं गच्छेत् तत्र स्नानं समाचरेत्।
स्नातमात्रो नरस्तत्र हीन्द्रस्यार्द्धासनं लभेत् ॥ १९०.१६ ॥

नर्म्मदा सरितां श्रेष्ठा रुद्रदेहाद्विनिः सृता।
तारयेत् सर्वभूतानि स्थावराणि चराणि च ॥ १९०.१७ ॥

सर्वदेवाधिदेवेन त्वीश्वरेण महात्मना।
कथिता ऋषिसङ्घेभ्यो ह्यस्माकञ्च विशेषतः ॥ १९०.१८ ॥

मुनिभिः संस्तुता ह्येषा नर्म्मदा प्रवरा नदी।
रुद्रदेहाद्विनिष्क्रान्ता लोकानां हित काम्यया ॥ १९०.१९ ॥

सर्वपापहरा नित्यं सर्वदेवनमस्कृता।
संस्तुता देवगन्धर्वैरप्सरोभि स्तथैव च ॥ १९०.२० ॥

नमः पुण्यजले ह्याद्ये नमः सागरगामिनी!।
नमस्ते पापशमनि! नमो देवि! वरानने ! ॥ १९०.२१ ॥

नमोऽस्तु ते ऋषिगणसिद्धसेविते! नमोऽस्तु ते शङ्करदेहनिःसृते!।
नमोऽस्तु ते धर्म्मभृतां वरप्रदे! नमोऽस्तु ते सर्वपवित्रपावने! ॥ १९०.२२ ॥

यस्त्विदं पठते स्तोत्रं नित्यं श्रद्धासमन्वितः।
ब्राह्मणो वेदमाप्नोति क्षत्रियो विजयी भवेत् ॥ १९०.२३ ॥

वैश्यस्तु लभते लाभं शूद्रश्चैव शूभाङ्गतिम्।
अर्थार्थी लभते ह्यर्थं स्मरणादेव नित्यशः ॥ १९०.२४ ॥

नर्मदां सेवते नित्यं स्वयं देवो महेश्वरः।
तेन पुण्या नदी ज्ञेया ब्रह्महत्यापहारिणा ॥ १९०.२५ ॥