१८९

नर्मदामाहात्म्ये कावेरीसङ्गममाहात्म्यवर्णनम्।
सूत उवाच।
पृच्छन्ति ते महात्मानो मार्कण्डेयं महामुनिम्।
युधिष्ठिर-पुरोगास्ते ऋषयश्च तपोधनाः ॥ १८९.१ ॥

आख्याहि भगवन्। तथ्यं कावेरी सङ्गमो महान्।
लोकानाञ्च हितार्थाय अस्माकञ्च विवृद्धये ॥ १८९.२ ॥

सदा पापरता ये च नरा दुष्कृतकारिणः।
मुच्यन्ते सर्वपापेभ्यो गच्छन्ति परमं पदम् ॥ १८९.३ ॥

मार्कण्डेय उवाच।
श्रृण्वन्त्ववहिताः सर्वे युधिष्ठरपुरोगमाः।
अस्ति वीरो महायक्षः कुबेरः सत्यविक्रमः ॥ १८९.४ ॥

इदं तीर्थमनुप्राप्य राजा यक्षाधिपोऽभवत्।
सिद्धं प्राप्तो महाराज! तन्मे निगदतः श्रृणु ॥ १८९.५ ॥

कावेरी नर्मदा यत्र सङ्गमो लोकविश्रुतः।
तत्र स्नात्वा शुचिर्भूत्वा कुबेरः सत्यविक्रमः ॥ १८९.६ ॥

तपोऽतप्यत यक्षेन्द्रो दिव्यं वर्षशतं महत्।
तस्य तुष्टो महादेवः प्रदातुं वरमुत्तमम् ॥ १८९.७ ॥

भो भो यक्ष! महासत्व! वरं ब्रूहि यथेप्सितम्।
ब्रूहि कार्यं यथेष्टन्तु यद्वा मनसि वर्तते ॥ १८९.८ ॥

कुबेर उवाच।
यदि तुष्टोऽसि मे देव! यदि देयो वरो मम।
अद्य प्रभृति सर्वेषां यक्षाणामधिपो भवेत् ॥ १८९.९ ॥

कुबेरस्य वचः श्रुत्वा परितुष्टो महोश्वरः।
एवमस्तु ततो देवस्तत्रैवान्तर धीयत ॥ १८९.१० ॥

सोऽपि लब्धवरो यक्षः शीघ्रं लब्धफलोदयः।
पूजितः स तु यक्षैश्च ह्यभिषिक्तस्तु पार्थिव! ॥ १८९.११ ॥

कावेरीसङ्गमं तत्र सर्वपापप्रणाशनम्।
ये नरा नाभिजानन्ति वञ्चितास्ते न संशयः ॥ १८९.१२ ॥

तस्मात् सर्व प्रयत्नेन तत्र स्नायीत मानवः।
कावेरी च महापुण्या नर्मदा च महानदी ॥ १८९.१३ ॥

तत्र स्नात्वा तु राजेन्द्र! ह्यर्चयेद् वृषभध्वजम्।
अश्वमेधफलं प्राप्य रुद्रलोके महीयते ॥ १८९.१४ ॥

अग्निप्रवेशं यः कुर्य्याद्यश्च कुर्य्यादनाशकम्।
अनिवर्त्या गतिस्तस्य यथा मे शङ्करोऽब्रवीत् ॥ १८९.१५ ॥

सेव्यमानो वरस्त्रीमिः क्रीडते दिवि रुद्रवत्।
षष्टिवर्षसहस्राणि षष्टिकोट्यस्तथापराः ॥ १८९.१६ ॥

मोदते रुद्रलोकस्थो यत्र तत्रैव गच्छति।
पुण्यक्षयात् परिभ्रष्टो राजा भवति धार्मिकः ॥ १८९.१७ ॥

भोगवान् दानशीलश्च महाकुल समुद्भवः।
तत्र पीत्वा जलं सम्यक् चान्द्रायणफलं लभेत् ॥ १८९.१८ ॥

स्वर्गं गच्छन्ति ते मर्त्या ये पिबन्ति शुभं जलम्।
गङ्गायमुनयोर्मध्ये यत् फलं प्राप्नुयान्नरः
कावेरी सङ्गमे स्नात्वा तत् फलं तस्य जायते ॥ १८९.१९ ॥

एवमादि तु राजेन्द्र! कावेरी सङ्गमे महत्।
पुण्यं महत्फलं तत्र सर्वपापप्रणाशनम् ॥ १८९.२० ॥