त्रिपुरविनाशार्थं रुद्रस्य बाणपुरे गमनम्।
मार्कण्डेय उवाच।
यन्मां पृच्छसि कौन्तेय! तन्मे कथयतः श्रुणु।
एतस्मिन्नन्तरे रुद्रो नर्मदा तटमाश्रितः ॥ १८८.१ ॥
नाम्ना महेश्वरं स्थानं त्रिषु लोकेषु विश्रुतम्।
तस्मिन्स्थाने महादेवो चिन्तयत्त्रिपुरे वधम् ॥ १८८.२ ॥
गाण्डीवं मन्दरं कृत्वा गुणं कृत्वा च वासुकिम्।
स्थानं कृत्वा तु वैशाखं विष्णुं कृत्वा शरोत्तमम् ॥ १८८.३ ॥
शल्येचाग्निं प्रतिष्ठाप्य मुखे वायुं समर्पयन्।
हयांश्च चतुरो वेदान् सर्वदेवमयं रथम् ॥ १८८.४ ॥
अभीषवोऽश्विनौ देवावक्षोवज्रधरः स्वयम्।
स तस्याज्ञां समादाय तोरणे धनदः स्थितः ॥ १८८.५ ॥
यमस्तु दक्षिणे हस्ते वामे कालस्तु दारुणः।
चक्रे त्वमरकोट्यस्तु गन्धर्वा लोक विश्रुताः ॥ १८८.६ ॥
प्रजापती रथश्रेष्ठे ब्रह्मा चैव तु सारथिः।
एवं कृत्वा तु देवेशः सर्वदेवमयं रथम् ॥ १८८.७ ॥
सोऽतिष्ठत् स्थाणुभूतस्तु सहस्र परिवत्सरान्।
यदा त्रीणि समेतानि अन्तरिक्षे स्थितानि वै ॥ १८८.८ ॥
त्रिपर्वाणि त्रिशल्येन तदा तानि व्यभेदयत्।
शरः प्रवोदितस्तेन रुद्रेण त्रिपुरं प्रति ॥ १८८.९ ॥
भ्रष्टतेजा स्त्रियो जाता बलन्तासां व्यशीर्यत।
उत्पाताश्च पुरे तस्मिन् प्रादुर्भूताः सहस्रशः ॥ १८८.१० ॥
त्रिपुरस्य विनाशाय कालरूपा भवंस्तदा।
अट्टहासं प्रमुञ्चन्ति हयाः काष्ठमयास्तदा ॥ १८८.११ ॥
निमेषोन्मेषणञ्चैव कुर्वन्ते चित्ररूपिणः।
स्वप्ने पश्यन्ति चात्मानं रक्ताम्बर विभूषितम् ॥ १८८.१२ ॥
स्वप्ने तु सर्वे पश्यन्ति विपरीतानि यानि तु।
एतान् पश्यन्ति उत्पातास्तत्र स्थाने तु ये जनाः ॥ १८८.१३ ॥
तेषां बलञ्च बुद्धिश्च हर कोपेन नाशिते।
ततः सांवर्तको वायुर्युगान्त प्रतिमो महान् ॥ १८८.१४ ॥
समीरितोऽनलस्तेन उत्तमाङ्गेन धावति।
ज्वलन्ति पादपास्तत्र पतन्ति शिखराणि च॥ १८८.१५ ॥
सर्वतो व्याकुलीभूतं हाहाकारमचेतनम्।
भग्नोद्यानानि सर्वाणि क्षिप्रं तत् प्रत्यभज्यत ॥ १८८.१६ ॥
तेनैव पीडितं सर्वं ज्वलितं त्रिखिखैः खरैः।
द्रुमाश्चाराम खण्डानि गृहाणि विविधानि च ॥ १८८.१७ ॥
दश दिक्षु प्रवृत्तोऽयं समृद्धो हव्यवाहनः।
मनः शिलानां पुञ्जानि दिशो दश विभागशः ॥ १८८.१८ ॥
शिखाशतैरनेकैस्तु प्रजज्वाल हुताशनः।
सर्वं किंशुकवर्णाभं ज्वलितं दृश्यते पुरम् ॥ १८८.१९ ॥
गृहाद् गृहान्तरं नैव गन्तुं धूमेन शक्यते।
हरकोपानलैर्दग्धं क्रन्दमानं सुदुःखितम् ॥ १८८.२० ॥
प्रदीप्तं सर्वतो दिक्षु दह्यते त्रिपुरं पुरम्।
प्रासाद शिखराग्राणि व्यशोर्यन्त सहस्रशः ॥ १८८.२१ ॥
नानामणिविचित्राणि विमानान्यप्यनेकधा।
गृहाणि चैव रम्याणि दह्यन्ते दीप्तवह्निना ॥ १८८..२२ ॥
धावन्ति द्रुमखण्डेषु वलभीषु तता जनाः।
देवागारेषु सर्वेषु प्रज्वलन्तः प्रधाविताः ॥ १८८.२३ ॥
क्रन्दन्ति चानलस्पृष्टा रुदन्ति विविधैः स्वरैः।
दह्यन्ते दानवास्तत्र शतशोऽथ सहस्रशः ॥ १८८.२४ ॥
हंसकारण्डवाकीर्णा नलिन्यः सह पङ्कजाः।
दृश्यन्तेऽनलदग्धानि पुरोद्यानानि दीर्घिकाः ॥ १८९.२५ ॥
अम्लान-पङ्कजच्छन्ना विस्तीर्णां योजनायताः।
गिरिकूटनिभास्तत्र प्रासादा रत्नभूषिताः ॥ १८८..२६ ॥
पतन्त्यनलनिर्दग्धा निस्तोया जलदा इव।
वरस्त्री बालवृद्धेषु गोषु पक्षिषु वाजिषु ॥ १८८.२७ ॥
निर्दयो व्यदहद्वह्निर्हरक्रोधेन प्रेरितः।
सहस्रशः प्रबुद्धाश्च सुप्ताश्च बहवो जनाः ॥ १८८.२८ ॥
पुत्रमालिङ्ग्य ते गाढं दह्यन्ते त्रिपुराग्निना।
अथ तस्मिन् पुरे दीप्ते स्त्रियश्चाप्सरसोपमाः ॥ १८८.२९ ॥
अग्निज्वालाहतास्तत्र ह्यपतन् धरणीतले।
काचिच्छ्यामा विशालाक्षी मुक्तावलिविभूषिता ॥ १८८.३० ॥
धूमेनाकुलिता सा तु पतिता धरणीतले।
काचित् कनकवर्णाभा इन्द्रनीलविभूषिता ॥ १८८.३१ ॥
भर्तारं पतितं दृष्ट्वा पतिता तस्य चोपरि।
काचिदादित्यसङ्काशा प्रमुक्ता च गृहे स्थिता ॥ १८८..३२ ॥
अग्निज्वालाहता सा तु पतिता गतचेतना।
उत्थितो दानवस्तत्र खड्गहस्तो महाबलः ॥ १८८.३३ ॥
वैश्वानरहतः सोऽपि पतितो धरणीतले।
मेघवर्णापरा नारी हारकेयूर भूषिता ॥ १८८.३४ ॥
श्वेतरूपधरा नारी बालं स्तन्यं न्यधापयत्।
दह्यन्तं बालकं दृष्ट्वा रुदते मेघशब्दवत् ॥ १८८.३५ ॥
एवं स तु दहन्तग्निर्हरक्रोधेन प्रेरितः।
काचिच्चन्द्रप्रभा सौम्या वज्रवैढूर्यभूषिता ॥ १८८.३६ ॥
सुतमालिङ्ग्य वेपन्ती दग्धा पतति भूतले।
काचित् कुन्देन्दुवर्णाभा या शयाना गृहे स्थिता ॥ १८८.३७ ॥
गृहे प्रज्वलिते सा तु प्रतिबुद्धा सुदुःखिता।
पश्यन्ती ज्वलितं सर्वं स्वसुतो मे दिवङ्गतः ॥ १८८.३८ ॥
सुतं सन्दग्धमालिङ्ग्य पतिता धरणीतले।
काचित् सुवर्णवर्णाभा नीलरत्नैर्विभूषिता ॥ १८८.३९ ॥
धूमेनाकुलिता सा तु प्रसुप्ता धरणीतले।
अन्या गृहीतहस्ता तु सखि! दह्यति बालिकाम् ॥ १८८.४० ॥
अनेकदिव्यरत्नाढ्या दृष्ट्वा दहनमोहिता।
शिरसि ह्यञ्जलिं कृत्वा विज्ञापयति पावकम् ॥ १८८.४१ ॥
भगवन्। यदि वैरन्ते पुरुषेष्वपकारिषु।
स्त्रियः किमपराधन्ते गृहपञ्जरकोकिलाः ॥ १८८.४२ ॥
पापनिर्दयनिर्लज्ज! कस्ते कोपः स्त्रियः प्रति।
न दाक्षिण्यं न ते लज्जा न सत्यं शौर्य्यवर्जितम् ॥ १८८.४३ ॥
अनेन ह्यपसर्गेण तूपालम्भं शिखिन्यदात्।
किं त्वया न श्रुतं लोके ह्यबध्याः शत्रुयोषितः ॥ १८८.४४ ॥
किन्तु तुभ्यं गुणा ह्येते दहनोत्सादनं प्रति।
न कारुण्यं दया वापि दाक्षिण्यं न स्त्रियः प्रति ॥ १८८.४५ ॥
दयां कुर्वन्ति म्लेच्छापि दहन्तीं वीक्ष्य योषितम्।
म्लेच्छानामपि कष्टोऽसि दुर्निवारो ह्यचेतनः ॥ १८८.४६ ॥
एते चैव गुणास्तुभ्यं दहनोत्सादनं प्रति।
असावपि दुराचारः स्त्रीणां किं ते निपातने ॥ १८८.४७ ॥
दुष्टनिर्घृण निर्लज्ज! हुताशिन्! मन्दभाग्यक!।
निराशत्वं दुरावास बलाद्दहसि निर्दय! ॥ १८८.४८ ॥
एवं विलप्यमानास्ता जल्पन्त्यश्च बहून्यपि।
अन्याः क्रोशन्ति सङ्क्रुद्धा बालशोकेन मोहिताः ॥ १८८.४९ ॥
दहते निर्दयो वह्निः सङ्क्रुद्धः पूर्वशत्रुवत्।
पुष्करिण्यां जलं दग्धं कूपेष्वपि तथैव च ॥ १८८.५० ॥
अस्मान् सन्दह्य म्लेच्छ! त्वं कां गतिं प्रापयिष्यसि।
एवं प्रलपतां तासां वह्निर्वचनमब्रवीत् ॥ १८८.५१ ॥
अग्निरुवाच।
स्ववशेनैव युष्माकं विनाशन्तु करोम्यहम्।
अहमादेशकर्ता वै नाहं कर्तास्म्यनुग्रहम् ॥ १८८.५२ ॥
रुद्रक्रोदसमाविष्टो विविशामि यथेच्छया।
ततो बाणो महातेजा स्त्रिपुरं वीक्ष्य दीपितम् ॥ १८८.५३ ॥
सिंहासनस्थः प्रोवाच ह्यहं देवैर्विनाशितः।
अल्पसत्वैर्दुराचारैरीश्वरस्य निवेदितम् ॥ १८८.५४ ॥
अपरीक्ष्य त्वहं दग्धः शङ्करेण महात्मना।
नान्यः शक्तस्तु मा हन्तुं वर्जयित्वा त्रिलोचनम् ॥ १८८.५५ ॥
उत्थितः शिरसा कृत्वा लिङ्गं त्रिभुवनेश्वरम्।
निर्गतः सपुरद्वारात् परित्यज्य सुहृत् सुतान् ॥ १८८.५६ ॥
रत्नानि यान्यनर्घाणि स्त्रियो नानाविधास्तथा।
गृहीत्वा शिरसा लिङ्गं गच्छन् गगनमण्डलम् ॥ १८८.५७ ॥
स्तुवंश्च देवदेवेशं त्रिलोकाधिपतिं शिवम्।
त्यक्त्वा पुरी मया देव! यदि बध्योऽस्मि शङ्कर ॥ १८८.५८ ॥
त्वत्प्रसादान् महादेव! मा मे लिङ्गं विनश्यतु।
अर्चितं हि मया देव!भक्त्या परमया सदा ॥ १८८.५९ ॥
त्वत्कोपाद्यदि बध्योऽहं तदिदं मा विनश्यतु।
श्लाध्यमेतन्महादेव! त्वत्कोपाद्दहनं मम ॥ १८८.६० ॥
प्रतिजन्म महादेव! त्वत्पादनिरतो ह्यहम्।
त्रो(तो)टकच्छन्दसा देवं स्तौमि त्वां परमेश्वर ॥ १८८.६१ ॥
शिवशङ्करशर्वहराय नमो भव भीम महेश्वर शर्व नमः।
कुसुमायुधदेहविनाशकर त्रिपुरान्तक अन्धक शूलधर ॥ १८८.६२ ॥
प्रमदाप्रिय कान्त विभक्त नमः ससुरासुरसिद्धगणैर्नमित।
हयवानरसिद्धगजेन्द्रमुखादतिभास्वरदीर्घविशालमुख ॥ १८८.६३ ॥
उपलब्धुमशक्यतरैरमरैरसुरैः प्रथितोऽस्मि च बाहुशतैः।
प्रणतोऽस्मि भवं भवभक्तिरतो चलचन्द्रकलाकुलदेव नमः ॥ १८८.६४ ॥
न च पुत्रकलत्रहयादि धनं मम तु त्वदनुस्मरणं शरणम्।
व्यथितोऽस्मि तु बाहुशतैर्बहुभिर्गमिता च महानरकस्य गतिः ॥ १८८.६५ ॥
न निवर्तति जन्म न पापमतिः शुचिकर्मनिबद्धमपि त्यजति।
अनुकम्पति विभ्रमति सति मम चैव कुकर्म निवारयति ॥ १८८.६६ ॥
यः पठेत्त्रोटकन्दिव्यं प्रायः शुचिमानसः।
बाणस्येव यथा रुद्रस्तस्यापि वरदो भवेत्॥ १८८.६७ ॥
इमं स्तवं महादिव्यं श्रुत्वा देवो महेश्वरः।
प्रसन्नस्तु तदा तस्य स्वयं देवो महेश्वरः ॥ १८८.६८ ॥
महेश्वर उवाच।
न भेतव्यं त्वया वत्स! सौवर्णे तिष्ठ दानव!।
पुत्रपौत्रसुहृद्बन्धु भार्याबन्धुजनैः सह ॥ १८८.६९ ॥
अद्य प्रभृति बाण! त्वमबध्यस्त्रिदशैरपि।
भूयस्तस्य वरो दत्तो देवदेवेन पाण्डव!॥ १८८.७० ॥
अक्षयश्चाव्ययो लोके विचरस्वाकुतोभयः।
ततो निवारयामास रुद्रः सप्तशिखं तदा ॥ १८८.७१ ॥
तृतीयं रक्षितं तस्य पुरं तेन महात्मना।
भ्रमत्तु गगने दिव्यं रुद्रतेजः प्रभावतः ॥ १८८.७२ ॥
एवं तु त्रिपुरं दग्धं शङ्करेण महात्मना।
ज्वालमालाप्रदीप्तं तत्पतितं धरणीतले ॥ १८८.७३ ॥
एकं निपतितं तत्र श्रीशैले त्रिपुरान्तके।
द्वितीयं पतितं तस्मिन् पर्वतेऽमरकण्टके ॥ १८८.७४ ॥
दग्धेषु तेषु राजेन्द्र! रुद्रकोटिः प्रतिष्ठिता।
ज्वलत्तदपत्तत्र तेन ज्वालेश्वरः स्मृतः ॥ १८८.७५ ॥
ऊर्ध्वेन प्रस्थितास्तस्य दिव्यज्वाला दिवङ्गताः।
हाहाकारस्तदा जातो देवासुरकृतो महान् ॥ १८८.७६ ॥
शरमस्तं भवद्रुद्रो माहेश्वरपुरोत्तमे।
एवं वृत्तं तदा तस्मिन् पर्वतेऽमरकण्टके ॥ १८८.७७ ॥
चतुर्दशाख्यं भुवनं भुक्त्वा पाण्डुनन्दन!।
वर्षकोटिसहस्रन्तु त्रिंशत्कोट्यस्तथापराः ॥ १८८.७८ ॥
ततो महीतलं प्राप्य राजा भवति धार्मिकः।
पृथिवीमेकच्छत्रेण भुङ्क्ते स तु न संशयः ॥ १८८.७९ ॥
एवं पुण्यो महाराज! पर्वतोऽमरकण्टके।
चन्द्रसूर्योपरागे तु गच्छेद् योऽमरकण्टकम् ॥ १८८.८० ॥
अश्वमेधाद्दशगुणं प्रवदन्ति मनीषिणः।
स्वर्गलोकमवाप्नोति दृष्ट्वा तत्र महेश्वरम् ॥ १८८.८१ ॥
ब्रह्महत्या गमिष्यन्ति राहुग्रस्ते दिवाकरे।
तदेवं निखिलं पुण्यं पर्वतेऽमरकण्टके ॥ १८८.८२ ॥
मनसापि स्मरेद्यस्तां गिरि त्वमरकण्टकम्।
चान्द्रायणशतं साग्रां लभते नात्र संशयः ॥ १८८.८३ ॥
त्रयाणामपिलोकानां विख्यातोऽमरकण्टकः।
एष पुण्यो गिरिश्रेष्ठः सिद्धगन्धर्वसेवितः ॥ १८८.८४ ॥
नानाद्रुमलताकीर्णो नानापुष्पोपशोभितः।
मृगव्याघ्रसहस्रैस्तु सेव्यमानो महागिरिः ॥ १८८.८५ ॥
यत्र सन्निहितो देवो देव्या सह महेश्वरः।
ब्रह्मा विष्णुस्तथा चेन्द्रो विद्याधरगणैः सह ॥ १८९.८६ ॥
ऋषिभिः किन्नरैर्यक्षैर्नित्यमेव निषेवितः।
वासुक्तिः सहितस्तत्र क्रीडते यन्नगोत्तमे ॥ १८८.८७ ॥
प्रदक्षिणन्तु यः कुर्यात् पर्वतेऽमरकण्टके ।
पौण्डरीकस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ १८८.८८ ॥
तत्र ज्वालेश्वरं नाम तीर्थं सिद्धनिषेवितम्।
तत्र स्नात्वा दिवं यान्ति ये मृतास्ते पुनर्भवाः ॥ १८८.८९ ॥
ज्वालेश्वरे महाराज! यस्तु प्राणान् परित्यजेत्।
चन्द्रसूर्य्योपरागेषु तस्यापि श्रृणु यत् फलम् ॥ १८९.९० ॥
सर्वकर्म्मविनिर्मुक्ते ज्ञानविज्ञानसंयुतः।
रुद्रलोकमवाप्नोति यावदाभूतसम्प्लवम् ॥ १८८.९१ ॥
अमरेश्वरदेवस्य पर्वतस्य उभे तटे।
तत्र ता ऋषिकोट्यस्तु तपस्तप्यन्ति सुव्रत! ॥ १८८.९२ ॥
समन्ताद्योजनक्षेत्रो गिरिश्चामरकण्टकः।
अकामो वा सकामो वा नर्मदायां शुभे जले
स्नात्वा मुच्यति तैः पापै रुद्रलोकं स गच्छति॥ १८८.९३ ॥