१८७

नर्मदामाहात्म्ये ज्वालेश्वरतीर्थमाहात्म्यवर्णनम्।

मार्कण्डेय उवाच।
नर्मदा तु नदी श्रेष्ठा पुण्यात् पुण्यतमाहिता।
मुनिभिस्तु महाभागैर्विभक्ता मोक्षकाङ्क्षिभिः ॥ १८७.१

यज्ञोपवीतमात्राणि प्रविभक्तानि पाण्डव।
तेषु स्नात्वा तु राजेन्द्र! सर्वपापैः प्रमुच्यते ॥ १८७.२

ज(ज्वा)लेश्वरं परन्तीर्थं त्रिषु लोकेषु विश्रुतम्।
तस्योत्पत्तिं कथयतः श्रुणु त्वं पाण्डुनन्दन! ॥ १८७.३

पुरा मुनिगणाः सर्वे सेन्द्राश्चैव मरुद्गणाः।
भयोद्विग्ना विरूपाक्षं परित्रायस्व न प्रभो! ॥ १८७.४

श्रीभगवानुवाच।
स्वागतं तु सुरश्रेष्ठाः! किमर्थमिह चागताः।
किं दुःखं को नु सन्तापः कुतो वा भयमागतम् ॥ १८७.५

कथयध्वं महाभागाः एवमिच्छामि वेदितुम्।
एवमुक्तास्तु रुद्रेण कथयन् संशितव्रताः ॥ १८७.६

ऋषय ऊचुः।
अतिवीर्य्यो महाघोरो दानवो बलदर्पितः।
बाणो नामेति विख्यातो यस्य वै त्रिपुरं पुरम् ॥ १८७.७

गगने सततं दिव्यं भ्रमते तस्य तेजसा!
ततो भीता विरूपाक्ष! त्वामेव शरणं गताः ॥ १८७.८

त्रायस्व महतो दुःखात् त्वं हि नः परमा गतिः।
एवं प्रसादं देवेश! सर्वेषां कर्तुमर्हसि ॥ १८७.९

येन देवाः सगन्धर्वाः सुखमेधन्ति शङ्कर!।
परां निर्वृतिमायान्ति तत्प्रभो! कर्तुमर्हसि ॥ १८७.१0

श्रीभगवानुवाच।
एतत् सर्वं करिष्यामि मा विषादं गमिष्यथ।
अचिरेणैव कालेन कुर्य्यां युष्मत् सुखावहम् ॥ १८७.११

आश्वास्य स तु तान् सर्व्वान्नर्मदा तटमाश्रितः।
चिन्तयामास देवेशस्तद्वधं प्रतिमानद! ॥ १८७.१२

अथ केन प्रकारेण हन्तव्यं त्रिपुरं मया।
परं सञ्चिन्त्य भगवान् नारदं चास्मरत्तदा।
स्मरणादेव! सम्प्राप्तो नारदः समुपस्थितः ॥ १८७.१३

नारद उवाच।
आज्ञापय महादेव! किमर्थञ्च स्मृतो ह्यहम्।
किं कार्य्यन्तु मया देव! कर्तव्यं कथयस्व मे ॥ १८७.१४

श्रीभगवानुवाच।
गच्छ नारद! तत्रैव यत्र तत्त्रिपुरं महत्।
बाणस्य दानवेन्द्रस्य शीघ्रं गत्वा च तत्कुरु ॥ १८७.१५

या भर्तृदेवतास्तत्र स्त्रियश्चाप्सरसां समाः।
तासां वै तेजसा विप्र! भ्रमते त्रिपुरन्दिवि ॥ १८७.१६

तत्र गत्वा तु विप्रेन्द्र! मतिमन्यां प्रबोधय।
देवस्य वचनं श्रुत्वा मुनिस्त्वरितविक्रमः ॥ १८७.१७

स्त्रीणां हृदयनाशाय प्रविष्टस्तत् पुरं प्रति।
शोभते तत्पुरं दिव्यं नानारत्नोपशोभितम् ॥ १८७.१८

शतयोजनविस्तीर्णं ततो द्विगुणमायतम्।
ततोऽपश्यद्धि तत्रैव बाणन्तु बलदर्पितम् ॥ १८७.१९

मणिकुण्डलकेयूर मुकुटेन विराजितम्।
हारदोरसुवर्णैश्च चन्द्रकान्तविभूषितम् ॥ १८७.२0

रशना तस्य रत्नाढ्या बाहू कनकमण्डितौ।
चन्द्रकान्तमहावज्रमणिविद्रुमभूषिते ॥ १८७.२१

द्वादशार्कद्युतिनिभे निविष्टं परमात्मने।
उत्थितो नारदं दृष्ट्वा दानवेन्द्रो महाबलः ॥ १८७.२२

बाण उवाच।
देवर्षे! त्वं स्वयं प्राप्तो अर्घ्यं पाद्यं निवेदये।

सोऽभिवाद्य यथान्यायं क्रियतां किं द्विजोत्तम! ॥ १८७.२३

चिरात्त्वमागतो विप्र! स्थीयतामिदमासनम्।
एवं सम्भाषयित्वा तु नारदं ऋषिसत्तमम्
तस्य भार्या महादेवी ह्यनौपम्या तु नामतः ॥ १८७.२४

अनौपम्योवाच।
भगवन्। केन धर्मेण देवास्तुष्यन्ति नारद!।
व्रतेन नियमेनाथ दानेन तपसापि वा ॥ १८७.२५

नारदः उवाच।
तिलधेनुञ्च यो दद्याद् ब्राह्मणे वेदपारगे।
ससागरवनद्वीपा दत्ता भवति मेदिनी ॥ १८७.२६

सूर्यकोटिप्रतीकाशैः विमानैः सार्वकामिकैः।
मोदते सुचिरं कालमक्षयं कृतशासनम् ॥ १८७.२७

आम्रामल कपित्थानि बदराणि तथैव च।
कदम्बचम्पकाशोकाननेकविविधद्रुमान् ॥ १८७.२८

अश्वत्थपिप्पलां श्चैव कदलीवटदाडिमान्।
पिचुमन्दं मधूकं च उपोष्य स्त्री ददाति या ॥ १८७.२९

स्तनौ कपित्थसदृशावुरू च कदलीसमौ।
अश्वत्थे वन्दनीया च पिचुमन्दे सुगन्धिनी ॥ १८७.३0

चम्पके चम्पकाभा स्यादशोके शोकवर्जिता।
मधूके मधुरं वक्ति वटे च मृदुगात्रिका॥ १८७.३१

बदरी सर्वदा स्त्रीणां महासौभाग्यदायिनी।
कुक्कुटी कर्कटी चैव द्रव्यषष्ठी न शस्यते ॥ १८७.३२

कदम्बमिश्रकनक मञ्जरी पूजनं तथा।
अनग्निपक्वमन्नञ्च पक्वान्नानामभक्षणम्॥ १८७.३३

फलानाञ्च परित्यागः सन्ध्या मौनं तथैव च।
प्रथमं क्षेत्रपालस्य पूजा कार्या प्रयत्नतः ॥ १८७.३४

तस्या भवति वै भर्ता मुखप्रेक्षः सदानघे!।
अष्टमी च चतुर्थी च पञ्चमी द्वादशी तथा ॥ १८७.३५

सङ्क्रान्तिर्विषुवच्चैव दिनच्छिद्र मुखं तथा।
एतांस्तु दिवसान् दिव्यानुपवासन्ति याः स्त्रियः
तासान्तु धर्म्मयुक्तानां स्वर्गवासो न संशयः ॥ १८७.३६

कलिकालुष्यनिर्मुक्ताः सर्वपापविवर्जिताः।
उपवासरतां नारीं नोपसर्पति तां यमः ॥ १८७.३७

अनौपम्योवाच।
अस्मत्कृतेन पुण्येन पुराजन्मकृतेन वा।
भवदागमनं भूतं किञ्चित् पृच्छाम्यहं व्रतम्॥ १८७.३८

अस्ति विन्ध्यावलिर्नाम बलिपत्नी यशस्विनी।
श्वश्रूर्ममापि विप्रेन्द्र! न तुष्यति कदाचन ॥ १८७.३९

श्वशुरोऽपि सर्वकालं दृष्ट्वा चापि न पश्यति।
अस्तिकुम्भीनसी नाम ननान्दा पापकारिणी ॥ १८७.४0

दृष्ट्वा चैवाङ्गुलीभङ्गं सदा कालं करोति च।
दिव्येन तु पथा याति मम सौख्यं कथं वद ॥ १८७.४१

ऊषरेण प्ररोहन्ति बीजं कुर्यात् कथञ्चन।
येन व्रतेन चीर्णेन भवन्ति वशगा मम ॥
तद्व्रतं ब्रूहि विप्रेन्द्र! दासभावं व्रजामि ते ॥ १८७.४२

नारद उवाच।
यदेतत्ते मया पूर्वं व्रतमुक्तं शुभानने!
अनेन पार्वती देवी चीर्णेन वरवर्णिनि! ॥ १८७.४३

शङ्करस्य शरीरस्था विष्णोर्लक्ष्मीस्तथैव च।
सावित्री ब्रह्मणश्चैव वसिष्ठस्याप्यरुन्धती ॥ १८७.४४

एतेनोपोषितेनेह भर्ता स्थास्यति ते वशे।
श्वश्रू श्वशुरयोश्चैव मुखबन्धो भविष्यति ॥ १८७.४५

एवं श्रुत्वा तु सुश्रोणि यथेष्टं कर्तुमर्हसि।
नारदस्य वचः श्रुत्वा राज्ञी वचनमब्रवीत् ॥ १८७.४६

प्रसादं कुरु विप्रेन्द्र! दानं ग्राह्यं यथेप्सितम्।
सुवर्णमणिरत्नानि वस्त्राण्याभरणानि च ॥ १८७.४७

तव दास्याम्यहं विप्र! यच्चान्यदपि दुर्लभम्।
प्रगृहाण द्विजश्रेष्ठ! प्रीयेतां हरिशङ्करौ ॥ १८७.४८

नारद उवाच।
अन्यस्मै दीयतां भद्रे! क्षीणवृत्तिस्तु यो द्विजः।
अहन्तु सर्वसम्पन्नो मद्भक्तिः क्रियतामिति ॥ १८७.४९

एवं तासां मनो हृत्वा सर्वासान्तु पतिव्रताः।
जगाम भरत श्रेष्ठ! स्वकीयं स्थानकं पुनः ॥ १८७.५0

ततो ह्यहृष्टदया अन्यतो गतमानसा।
पुरे छिद्रं समुत्पन्नं बाणस्य तु महात्मनः ॥ १८७.५१

नर्मदामाहात्म्ये ज्वालेश्वरतीर्थमाहात्म्यवर्णनम्।
मार्कण्डेय उवाच।
नर्मदा तु नदी श्रेष्ठा पुण्यात् पुण्यतमाहिता।
मुनिभिस्तु महाभागैर्विभक्ता मोक्षकाङ्क्षिभिः ॥ १८७.१ ॥

यज्ञोपवीतमात्राणि प्रविभक्तानि पाण्डव।
तेषु स्नात्वा तु राजेन्द्र! सर्वपापैः प्रमुच्यते ॥ १८७.२ ॥

ज(ज्वा)लेश्वरं परन्तीर्थं त्रिषु लोकेषु विश्रुतम्।
तस्योत्पत्तिं कथयतः श्रुणु त्वं पाण्डुनन्दन! ॥ १८७.३ ॥

पुरा मुनिगणाः सर्वे सेन्द्राश्चैव मरुद्गणाः।
भयोद्विग्ना विरूपाक्षं परित्रायस्व न प्रभो! ॥ १८७.४ ॥

श्रीभगवानुवाच।
स्वागतं तु सुरश्रेष्ठाः! किमर्थमिह चागताः।
किं दुःखं को नु सन्तापः कुतो वा भयमागतम् ॥ १८७.५ ॥

कथयध्वं महाभागाः एवमिच्छामि वेदितुम्।
एवमुक्तास्तु रुद्रेण कथयन् संशितव्रताः ॥ १८७.६ ॥

ऋषय ऊचुः।
अतिवीर्य्यो महाघोरो दानवो बलदर्पितः।
बाणो नामेति विख्यातो यस्य वै त्रिपुरं पुरम् ॥ १८७.७ ॥

गगने सततं दिव्यं भ्रमते तस्य तेजसा!
ततो भीता विरूपाक्ष! त्वामेव शरणं गताः ॥ १८७.८ ॥

त्रायस्व महतो दुःखात् त्वं हि नः परमा गतिः।
एवं प्रसादं देवेश! सर्वेषां कर्तुमर्हसि ॥ १८७.९ ॥

येन देवाः सगन्धर्वाः सुखमेधन्ति शङ्कर!।
परां निर्वृतिमायान्ति तत्प्रभो! कर्तुमर्हसि ॥ १८७.१० ॥

श्रीभगवानुवाच।
एतत् सर्वं करिष्यामि मा विषादं गमिष्यथ।
अचिरेणैव कालेन कुर्य्यां युष्मत् सुखावहम् ॥ १८७.११ ॥

आश्वास्य स तु तान् सर्व्वान्नर्मदा तटमाश्रितः।
चिन्तयामास देवेशस्तद्वधं प्रतिमानद! ॥ १८७.१२ ॥

अथ केन प्रकारेण हन्तव्यं त्रिपुरं मया।
परं सञ्चिन्त्य भगवान् नारदं चास्मरत्तदा।
स्मरणादेव! सम्प्राप्तो नारदः समुपस्थितः ॥ १८७.१३ ॥

नारद उवाच।
आज्ञापय महादेव! किमर्थञ्च स्मृतो ह्यहम्।
किं कार्य्यन्तु मया देव! कर्तव्यं कथयस्व मे ॥ १८७.१४ ॥

श्रीभगवानुवाच।
गच्छ नारद! तत्रैव यत्र तत्त्रिपुरं महत्।
बाणस्य दानवेन्द्रस्य शीघ्रं गत्वा च तत्कुरु ॥ १८७.१५ ॥

या भर्तृदेवतास्तत्र स्त्रियश्चाप्सरसां समाः।
तासां वै तेजसा विप्र! भ्रमते त्रिपुरन्दिवि ॥ १८७.१६ ॥

तत्र गत्वा तु विप्रेन्द्र! मतिमन्यां प्रबोधय।
देवस्य वचनं श्रुत्वा मुनिस्त्वरितविक्रमः ॥ १८७.१७ ॥

स्त्रीणां हृदयनाशाय प्रविष्टस्तत् पुरं प्रति।
शोभते तत्पुरं दिव्यं नानारत्नोपशोभितम् ॥ १८७.१८ ॥

शतयोजनविस्तीर्णं ततो द्विगुणमायतम्।
ततोऽपश्यद्धि तत्रैव बाणन्तु बलदर्पितम् ॥ १८७.१९ ॥

मणिकुण्डलकेयूर मुकुटेन विराजितम्।
हारदोरसुवर्णैश्च चन्द्रकान्तविभूषितम् ॥ १८७.२० ॥

रशना तस्य रत्नाढ्या बाहू कनकमण्डितौ।
चन्द्रकान्तमहावज्रमणिविद्रुमभूषिते ॥ १८७.२१ ॥

द्वादशार्कद्युतिनिभे निविष्टं परमात्मने।
उत्थितो नारदं दृष्ट्वा दानवेन्द्रो महाबलः ॥ १८७.२२ ॥

बाण उवाच।
देवर्षे! त्वं स्वयं प्राप्तो अर्घ्यं पाद्यं निवेदये।
सोऽभिवाद्य यथान्यायं क्रियतां किं द्विजोत्तम! ॥ १८७.२३ ॥

चिरात्त्वमागतो विप्र! स्थीयतामिदमासनम्।
एवं सम्भाषयित्वा तु नारदं ऋषिसत्तमम्
तस्य भार्या महादेवी ह्यनौपम्या तु नामतः ॥ १८७.२४ ॥

अनौपम्योवाच।
भगवन्। केन धर्मेण देवास्तुष्यन्ति नारद!।
व्रतेन नियमेनाथ दानेन तपसापि वा ॥ १८७.२५ ॥

नारदः उवाच।
तिलधेनुञ्च यो दद्याद् ब्राह्मणे वेदपारगे।
ससागरवनद्वीपा दत्ता भवति मेदिनी ॥ १८७.२६ ॥

सूर्यकोटिप्रतीकाशैः विमानैः सार्वकामिकैः।
मोदते सुचिरं कालमक्षयं कृतशासनम् ॥ १८७.२७ ॥

आम्रामल कपित्थानि बदराणि तथैव च।
कदम्बचम्पकाशोकाननेकविविधद्रुमान् ॥ १८७.२८ ॥

अश्वत्थपिप्पलां श्चैव कदलीवटदाडिमान्।
पिचुमन्दं मधूकं च उपोष्य स्त्री ददाति या ॥ १८७.२९ ॥

स्तनौ कपित्थसदृशावुरू च कदलीसमौ।
अश्वत्थे वन्दनीया च पिचुमन्दे सुगन्धिनी ॥ १८७.३० ॥

चम्पके चम्पकाभा स्यादशोके शोकवर्जिता।
मधूके मधुरं वक्ति वटे च मृदुगात्रिका॥ १८७.३१ ॥

बदरी सर्वदा स्त्रीणां महासौभाग्यदायिनी।
कुक्कुटी कर्कटी चैव द्रव्यषष्ठी न शस्यते ॥ १८७.३२ ॥

कदम्बमिश्रकनक मञ्जरी पूजनं तथा।
अनग्निपक्वमन्नञ्च पक्वान्नानामभक्षणम्॥ १८७.३३ ॥

फलानाञ्च परित्यागः सन्ध्या मौनं तथैव च।
प्रथमं क्षेत्रपालस्य पूजा कार्या प्रयत्नतः ॥ १८७.३४ ॥

तस्या भवति वै भर्ता मुखप्रेक्षः सदानघे!।
अष्टमी च चतुर्थी च पञ्चमी द्वादशी तथा ॥ १८७.३५ ॥

सङ्क्रान्तिर्विषुवच्चैव दिनच्छिद्र मुखं तथा।
एतांस्तु दिवसान् दिव्यानुपवासन्ति याः स्त्रियः
तासान्तु धर्म्मयुक्तानां स्वर्गवासो न संशयः ॥ १८७.३६ ॥

कलिकालुष्यनिर्मुक्ताः सर्वपापविवर्जिताः।
उपवासरतां नारीं नोपसर्पति तां यमः ॥ १८७.३७ ॥

अनौपम्योवाच।
अस्मत्कृतेन पुण्येन पुराजन्मकृतेन वा।
भवदागमनं भूतं किञ्चित् पृच्छाम्यहं व्रतम्॥ १८७.३८ ॥

अस्ति विन्ध्यावलिर्नाम बलिपत्नी यशस्विनी।
श्वश्रूर्ममापि विप्रेन्द्र! न तुष्यति कदाचन ॥ १८७.३९ ॥

श्वशुरोऽपि सर्वकालं दृष्ट्वा चापि न पश्यति।
अस्तिकुम्भीनसी नाम ननान्दा पापकारिणी ॥ १८७.४० ॥

दृष्ट्वा चैवाङ्गुलीभङ्गं सदा कालं करोति च।
दिव्येन तु पथा याति मम सौख्यं कथं वद ॥ १८७.४१ ॥

ऊषरेण प्ररोहन्ति बीजं कुर्यात् कथञ्चन।
येन व्रतेन चीर्णेन भवन्ति वशगा मम ॥
तद्व्रतं ब्रूहि विप्रेन्द्र! दासभावं व्रजामि ते ॥ १८७.४२ ॥

नारद उवाच।
यदेतत्ते मया पूर्वं व्रतमुक्तं शुभानने!
अनेन पार्वती देवी चीर्णेन वरवर्णिनि! ॥ १८७.४३ ॥

शङ्करस्य शरीरस्था विष्णोर्लक्ष्मीस्तथैव च।
सावित्री ब्रह्मणश्चैव वसिष्ठस्याप्यरुन्धती ॥ १८७.४४ ॥

एतेनोपोषितेनेह भर्ता स्थास्यति ते वशे।
श्वश्रू श्वशुरयोश्चैव मुखबन्धो भविष्यति ॥ १८७.४५ ॥

एवं श्रुत्वा तु सुश्रोणि यथेष्टं कर्तुमर्हसि।
नारदस्य वचः श्रुत्वा राज्ञी वचनमब्रवीत् ॥ १८७.४६ ॥

प्रसादं कुरु विप्रेन्द्र! दानं ग्राह्यं यथेप्सितम्।
सुवर्णमणिरत्नानि वस्त्राण्याभरणानि च ॥ १८७.४७ ॥

तव दास्याम्यहं विप्र! यच्चान्यदपि दुर्लभम्।
प्रगृहाण द्विजश्रेष्ठ! प्रीयेतां हरिशङ्करौ ॥ १८७.४८ ॥

नारद उवाच।
अन्यस्मै दीयतां भद्रे! क्षीणवृत्तिस्तु यो द्विजः।
अहन्तु सर्वसम्पन्नो मद्भक्तिः क्रियतामिति ॥ १८७.४९ ॥

एवं तासां मनो हृत्वा सर्वासान्तु पतिव्रताः।
जगाम भरत श्रेष्ठ! स्वकीयं स्थानकं पुनः ॥ १८७.५० ॥

ततो ह्यहृष्टदया अन्यतो गतमानसा।
पुरे छिद्रं समुत्पन्नं बाणस्य तु महात्मनः ॥ १८७.५१ ॥