वाराणसीमाहात्म्यम्।
सूत उवाच।
अविमुक्ते महापुण्ये आस्तिकाः शुभदर्शनाः।
विश्मयं परमं जग्मुर्हर्ष गद्गद निस्वनाः ॥ १८५.१ ॥
उचुस्ते हृष्टमनसः स्कन्दं धर्म्म विदां वरम्।
ब्रह्मणो देव! पौत्रस्त्वं ब्रह्मण्यो ब्रह्मणः प्रियः ॥ १८५.२ ॥
ब्राह्मणो ब्रह्म विद् ब्रह्मा ब्रह्मेन्द्रो ब्रह्मलोककृत्।
ब्रह्मकृद्ब्रह्मचारी त्वं ब्रह्मादिर्ब्रह्मवत्सलः ॥ १८५.३ ॥
ब्रह्मतुल्योद्भवकरो ब्रह्मतुल्य नमोऽस्तु ते।
ऋषयो भावितात्मानः श्रुत्वेदं पावनं महत् ॥ १८५.४ ॥
तत्वन्तु परमं ज्ञातं यज्ज्ञात्वाऽमृतमश्नुते।
स्वस्तितेऽस्तु गमिष्यामो भूर्लोकं शङ्करालयम् ॥ १८५.५ ॥
यत्रासौ सर्वभूतात्मा स्थाणुभूतः स्थितः प्रभुः।
सर्वलोक हितार्थाय तपस्युग्रे व्यवस्थितः ॥ १८५.६ ॥
संयोज्य योगेनात्मानं रौद्रीं तनुमुपाश्रितः।
गुह्यकैरात्मभूतस्तु आत्मतुल्य गुणैर्वृतः ॥ १८५.७ ॥
ततो ब्रह्मादिभिर्देवैः सिद्धैश्च परमर्षिभिः।
विज्ञप्तः परया भक्त्या त्वत्प्रसादाद् गणेश्वर! ॥ १८५.८ ॥
वक्तुमिच्छाम नियतमविमुक्ते सुनिश्चिताः।
एवं गुणे तथा मर्त्या ह्यविमुक्ते वसन्ति ये ॥ १८५.९ ॥
धर्मशीला जितक्रोधा निर्ममा नियतेन्द्रियाः।
ध्यान योगपराः सिद्धिं गच्छन्ति परमाव्ययाम् ॥ १८५.१० ॥
योगिनो योगसिद्धाश्च योगमोक्षप्रदं विभुम्।
उपासन्ते भक्तियुक्ताः शान्ता योगगतिङ्गताः ॥ १८५.११ ॥
स्थानं गुह्यं श्मशानानां सर्वेषामेतदुच्यते।
न हि योगादृते मोक्षः प्राप्यते भुवि मानवैः ॥ १८५.१२ ॥
अविमुक्ते तु वसतां योगो मोक्षश्च सिध्यति।
अनेन जन्मनैवेह प्राप्यते गतिरुत्तमा ॥ १८५.१३ ॥
एक एव प्रभावोऽस्ति क्षेत्रस्य परमेश्वरि!।
एकेन जन्मना देवि! मोक्षं पश्यन्त्यनुत्तमम् ॥ १८५.१४ ॥
अविमुक्ते निवसता व्यासेनामिततेजसा।
नैव लब्धा क्वचिद्भिक्षा भ्रममाणेन यत्नतः ॥ १८५.१५ ॥
क्षुधाविष्टस्ततः क्रुद्धोऽचिन्तयत् छापमुत्तमम्।
दिनं दिनं प्रति व्यासः षण्मासं योऽवतिष्ठति ॥ १८५.१६ ॥
कथं ममेदं नगरं भिक्षादोषाद्धतन्त्विदम्।
विप्रो वा क्षत्रियो वापि विधवा ब्राह्मणी पिवा ॥ १८५.१७ ॥
संस्कृतासंस्कृता वापि परिपक्वाः कथन्नु मे।
न प्रयच्छन्ति वै लोका ब्राह्मणाश्चर्य कारकम् ॥ १८५.१८ ॥
एषां शापं प्रदास्यामि तीर्थस्य नगरस्य तु।
तीर्थञ्चातीर्थतां यातु नगरं शापयाम्यहम् ॥ १८५.१९ ॥
मा भूत्त्रिपुरुषी विद्या मा भूत्त्रिपुरुषं धनम्।
मा भूत् त्रिपुरुषं सव्यं व्यासो वाराणसीं शपन् ॥ १८५.२० ॥
अविमुक्ते निवसतां जनानां पुण्यकर्मणाम्।
विघ्नं सृजामि सर्वेषां येन सिद्धिर्न विद्यते ॥ १८५.२१ ॥
व्यासचित्तं तदा ज्ञात्वा देवदेव उमापतिः।
भीतभीतस्तदा गौरीं तां प्रियां पर्य्यभाषत ॥ १८५.२२ ॥
श्रृणु देवि! वचो मह्यं यादृशं प्रत्युपस्थितम्।
कृष्णद्वैपायनः कोपाच्छापं दातुं समुद्यतः ॥ १८५.२३ ॥
देव्युवाच।
क्रिमर्थं शपते क्रुद्धो व्यासः केन प्रकोपितः।
किं कृतं भगवंस्तस्य येन शापं प्रयच्छति ॥ १८५.२४ ॥
देवदेव उवाच।
अनेन सुतपस्तप्तं बहून् वर्षगणान् प्रिये!।
मौनिना ध्यानयुक्तेन द्वादशाब्दान् वरानने ॥ १८५.२५ ॥
ततः क्षुधा सुसञ्जाता भिक्षामटितुमागतः।
नैवास्य केनचिद्भिक्षा ग्रासार्द्धमपि भामिनि ॥ १८५.२६ ॥
एवं भगवतः काल आसीत् षाण्मासिको मुनेः।
ततः क्रोधपरीतात्मा शापं दास्यति सोऽधुना ॥ १८५.२७ ॥
यावन्नेष शपेत्तावदुपायस्तत्र चिन्त्यताम्।
कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रिये ॥ १८५.२८ ॥
कोऽस्य शापान्न बिभेति ह्यपि साक्षात् पितामहः।
अदैवं दैवतं कुर्य्याद् दैवं चाप्यपदैवतम् ॥ १८५.२९ ॥
आवान्तु मानुषौ भूत्वा गृहस्थाविहवासिनौ।
तस्य तृप्तिकरीं भिक्षां प्रयच्छावो वरानने ॥ १८५.३० ॥
एवमुक्त्वा ततो देवी देवेन शम्भुना तदा।
व्यासस्य दर्शनं दत्त्वा कृत्वा वेषन्तु मानुषम् ॥ १८५.३१ ॥
एह्येहि भगवन्! सद्यो भिक्षां ग्राहय सत्तम!।
अस्मद् गृहे कदाचित्त्वं नागतोऽसि महामुने! ॥ १८५.३२ ॥
एतच्छ्रुत्वा प्रीतमना भिक्षां ग्रहीतुमागतः।
भिक्षां दत्त्वा तु व्यासाय षड्रसाममृतोपमाम् ॥ १८५.३३ ॥
अनास्वादितपूर्वा सा भक्षिता मुनिना तदा।
भिक्षां व्यासस्ततो भुक्त्वा चिन्तयन्हृष्टमानसः ॥ १८५.३४ ॥
ववन्दे वरदं देवं देवीञ्च गिरिजां तदा।
व्यासः कमलपत्राक्ष इदं वचनमब्रवीत् ॥ १८५.३५ ॥
देवो देवी नदी गङ्गामिष्टमन्नं शुभा गतिः।
वाराणस्यां विशालाक्षि! वासः कस्य न रोचते ॥ १८५.३६ ॥
एवमुक्त्वा ततो व्यासो नगरीमवलोकयन्।
चिन्तयानस्ततो भिक्षां हृदयानन्दकारिणीम् ॥ १८५.३७ ॥
अपश्यत् पुरतो देवं देवीञ्च गिरिजां तदा।
गृहाङ्गणस्थितं व्यासं देवदेवोऽब्रवीदिदम् ॥ १८५.३८ ॥
इह क्षेत्रे न वस्तव्यं क्रोधनस्त्वं महामुने!।
एवं विस्मयमापन्नो देवं व्यासोऽब्रवीद्वचः ॥ १८५.३९ ॥
व्यास उवाच।
चतुर्दश्यामथाष्टम्यां प्रवेशं दातुमर्हसि।
एवमस्त्वित्यनुज्ञाय तत्रैवान्तरधीयत ॥ १८५.४० ॥
न तद् गृहं न सा देवी न देवो ज्ञायते क्वचित्।
एवं त्रैलोक्यविख्यातः पुरा व्यासो महातपाः ॥ १८५.४१ ॥
ज्ञात्वा क्षेत्रगुणान् सर्वान् स्थितस्तस्यैव पार्श्वतः।
एवं व्यासं स्थितं ज्ञात्वा क्षेत्रं शंसन्ति पण्डिताः ॥ १८५.४२ ॥
अविमुक्तगुणानान्तु कः समर्थो वदिष्यति।
देवब्राह्मण-विद्विष्टा देवभक्तिविडम्बकाः ॥ १८५.४३ ॥
ब्रह्मघ्नाश्च कृतघ्नाश्च तथा नैष्कृतिकाश्च ये।
लोकद्विषो गुरुद्विषस्तीर्थायतन दूषकाः ॥ १८५.४४ ॥
सदा पापरताश्चैव ये चान्ये कुत्सिता भुवि।
तेषां नास्तीति वासो वै स्थितोऽसौ दण्डनायकः ॥ १८५.४५ ॥
रक्षणार्थं नियुक्तं वै दण्डनायकमुत्तमम्।
पूजयित्वा यथा शक्त्या गन्धपुष्पादि धूपकैः ॥ १८५.४६ ॥
नमस्कारं ततः कृत्वा नायकस्य तु मन्त्रवित्।
सर्ववर्णावृते क्षेत्रे नानाविध-सरीसृपे ॥ १८५.४७ ॥
ईश्वरानुगृहीता हि गतिं गाणेश्वरीं गताः।
नानारूपधरा दिव्या नानावेषधरास्तथा ॥ १८५.४८ ॥
सुरा वै ये तु सर्वे च तन्निष्ठास्तत्परायणाः।
यदिच्छन्ति परं स्थानमक्षयन्तदवाप्नुयुः ॥ १८५.४९ ॥
परं पुरं दैवपुराद्विशिष्यते तदुत्तरं ब्रह्मपुरात् पुरस्थितम्।
तपोबलादीश्वरयोगनिर्मितं न तत् समं ब्रह्मदिवौकसालयम्।
मनोरमं कामगमं ह्यनामयमतीत्य तेजांसि तपांसि योगवत् ॥ १८५.५० ॥
अधिष्ठितस्तु तत्स्थाने देवदेवो विराजते।
तपांसि यानि तप्यन्ते व्रतानि नियमाश्च ये ॥ १८५.५१ ॥
सर्वतीर्थाभिषेकं तु सर्वदानफलानि च।
सर्वयज्ञेषु यत् पुण्यमविमुक्ते तदाप्नुयात्॥ १८५.५२ ॥
अतीतं वर्तमानञ्च ज्ञानादज्ञानतोऽपि वा।
सर्वं तस्य च यत् पापं क्षेत्रं दृष्ट्वा विनश्यति ॥ १८५.५३ ॥
शान्तैर्दान्तैस्तपस्तप्तं यत् किञ्चित् धर्मसञ्ज्ञितम्।
सर्वं च तदवाप्नोति अविमुक्ते जितेन्द्रियः ॥ १८५.५४ ॥
अविमुक्तं समासाद्य लिङ्गमर्चयते नरः।
कल्पकोटिशतैश्चापि नास्ति तस्य पुनर्भवः ॥ १८५.५५ ॥
अमरा ह्यक्षयाश्चैव क्रीडन्ति भवसन्निधौ।
क्षेत्रतीर्थोपनिषदमविमुक्तं न संशयः ॥ १८५.५६ ॥
अविमुक्ते महादेवमर्चयन्ति स्तुवन्ति वै।
सर्वपापविनिर्मुक्तास्ते तिष्ठन्त्यजरामराः ॥ १८५.५७ ॥
सर्वकामाश्च ये यज्ञाः पुनरावृत्तिकाः स्मृताः।
अविमुक्ते मृता ये च सर्वे ते ह्यनिवर्तकाः ॥ १८५.५८ ॥
ग्रहनक्षत्रताराणां कालेन पतनाद्भयम्।
अविमुक्ते मृतानान्तु पतनं नैव विद्यते ॥ १८५.५९ ॥
कल्पकोटिसहस्रैस्तु कल्पकोटिशतैरपि।
न तेषां पुनरावृत्तिर्मृता ये क्षेत्र उत्तमे ॥ १८५.६० ॥
संसारसागरे घोरे भ्रमन्तः कालपर्ययात्।
अविमुक्तं समासाद्य गच्छन्ति मणिकर्णिकाम् ॥ १८५.६१ ॥
ज्ञात्वा कलियुगं घोरं हाहा भूतमचेतनम्।
अविमुक्तं न मुञ्चन्ति कृतार्थास्ते नरा भुवि॥ १८५.६२ ॥
अविमुक्तं प्रविष्टस्तु यदि गच्छेत्ततः पुनः।
तदा हसन्ति भूतानि अन्योन्यं करताडनम् ॥ १८५.६३ ॥
कामक्रोधेन लोभेन ग्रस्ता ये भुवि मानवाः।
निष्क्रमन्ते नरा देवि! दण्डनायकमोहिताः ॥ १८५.६४ ॥
जपध्यानविहीनानां ज्ञानवर्जित चेतसाम्।
ततो दुःखहतानाञ्च गतिर्वाराणसी नृणाम्॥ १८५.६५ ॥
तीर्थानां पञ्चकं सारं विश्वेशानन्दकानने।
दशाश्वमेधं लोलार्कः केशवो बिन्दुमाधवः ॥ १८५.६६ ॥
पञ्चमी न महाश्रेष्ठा प्रोच्यते मणिकर्णिका।
एभिस्तु तीर्थवर्यैश्च वर्ण्यते ह्यविमुक्तकम् ॥ १८५.६७ ॥
एतद्वै कथितं सर्वं देव्यै देवेन भाषितम्।
अविमुक्तस्य क्षेत्रस्य तत् सर्वं कथितं द्विजाः ॥ १८५.६८ ॥