१८४

वारणसीक्षेत्रमाहात्म्यम्।
महेश्वर उवाच।
सेवितं बहुभिः सिद्धैरपुनर्भवकाङ्क्षिभिः।
विदित्वा तु परं क्षेत्रमविमुक्तनिवासिनाम् ॥ १८४.१ ॥

तद्गुह्यं देवदेवस्य तत्तीर्थं तत्तपोवनम्।
परं स्थानं तु ते यान्ति सम्भवन्ति न ते पुनः ॥ १८४.२ ॥

ज्ञाने विहितनिष्ठानां परमानन्दमिच्छताम्।
या गतिर्विहिता सद्भिः साविमुक्ते मृतस्य तु ॥ १८४.३ ॥

भवस्य प्रीतिरतुला ह्यविमुक्ते ह्यनुत्तमा।
असङ्ख्येयं फलं तत्र ह्यक्षया च गतिर्भवेत् ॥ १८४.४ ॥

परं गुह्यं समाख्यातं श्मशानमिति सञ्ज्ञितम्।
अविमुक्तं न सेवन्ते वञ्चितास्ते नरा भुवि ॥ १८४.५ ॥

अविमुक्ते स्थितैः पुण्यैः पांसुभिर्वायुनेरितैः।
अपि दुष्कृतकर्म्माणो यास्यन्ति परमाङ्गतिम् ॥ १८४.६ ॥

मेरुमन्दरमात्रोऽपि राशिः पापस्य कर्म्मणः।
अविमुक्तं समासाद्य तत् सर्वं व्रजति क्षयम् ॥ १८४.७ ॥

श्मशानमिति विख्यातमविमुक्तं शिवालयम्।
तद्गुह्यं देवदेवस्य तत्तीर्थं तत्तपोवनम् ॥ १८४.८ ॥

तत्र ब्रह्मादयो देवा नारायणपुरोगमाः।
योगिनश्च तथा साध्या भगवन्तं सनातनम् ॥ १८४.९ ॥

उपासन्ते शिवं मुक्ता मद्भक्ता मत्परायणाः।
या गतिर्ज्ञानतपसां या गतिर्यज्ञ याजिनाम् ॥ १८४.१० ॥

अविमुक्ते मृतानान्तु सा गतिर्विहिता शुभा।
संहर्तारश्च कर्त्तारस्तस्मिन् ब्रह्मादयः सुराः ॥ १८४.११ ॥

सम्राङ्विराण्मया लोका जायन्ते ह्यपुनर्भवाः।
महर्जनस्तपश्चैव सत्यलोकस्तथैव च ॥ १८४.१२ ॥

मनसः परमो योगो भूतभव्यभवस्य च।
ब्रह्मादि स्थावरान्तस्य योनौ साङ्क्यादिमोक्षयोः ॥ १८४.१३ ॥

येऽविमुक्तं न मुञ्चन्ति नरास्ते नैव चिन्तिताः।
उत्तमं सर्वतीर्थानां स्थानानामुत्तमञ्च यत् ॥ १८४.१४ ॥

क्षेत्राणामुत्तमञ्चैव श्मशानानां तथैव च।
तटाङ्कानाञ्च सर्वेषां कूपानां स्रोतसां तथा ॥ १८४.१५ ॥

शैलानामुत्तमञ्चैव तडागानां तथोत्तमम्।
पुण्यकृद् भवभक्तैश्च ह्यविमुक्तन्तु सेव्यते ॥ १८४.१६ ॥

ब्रह्मणः परमं स्थानं ब्रह्मणाध्यासितञ्च यत्।
ब्रह्मणा सेवितं नित्यं ब्रह्मणा चैव रक्षितम् ॥ १८४.१७ ॥

अत्रैव सप्तभुवनं काञ्चनो मेरुपर्वतः।
मनसः परमो योगः प्रीत्यर्थ ब्रह्मणः स तु ॥ १८४.१८ ॥

ब्रह्मा तु तत्र भगवांस्त्रिसन्ध्यं चेश्वरे स्थितः।
पुण्यात् पुण्यतमं क्षेत्रं पुण्यकृद्भिर्निषेवितम् ॥ १८४.१९ ॥

आदित्योपासनं कृत्वा विप्राश्चामरताङ्गताः।
अन्येऽपि ये त्रयोवर्णा भवभक्त्या समाहिताः ॥ १८४.२० ॥

अविमुक्ते तनुन्त्यक्त्वा गच्छन्ति परमाङ्गतिम्।
अष्टौ मासान् विहारस्य यतीनां संयतात्मनाम् ॥ १८४.२१ ॥

एकत्र चतुरो मासान् मासौ वा निवसेत् पुनः।
अविमुक्ते प्रविष्टानां विहारस्तु न विद्यते ॥ १८४.२२ ॥

न देहो भविता तत्र दृष्टं शास्त्रे पुरातने।
मोक्षो ह्यसंशयस्तत्र पञ्चत्वन्तु गतस्य वै ॥ १८४.२३ ॥

स्त्रियः पतिव्रता याश्च भवभक्ताः समाहिताः।
अविमुक्ते विमुक्तास्ता यास्यन्ति परमाङ्गतिम् ॥ १८४.२४ ॥

अन्या याः कामचारिण्यः स्त्रियो भोगपरायणाः।
कालेन निधनं प्राप्ता गच्छन्ति परमाङ्गतिम् ॥ १८४.२५ ॥

यत्र योगश्च मोक्षश्च प्राप्यते दुर्लभो नरैः।
अविमुक्तं समासाद्य नान्यद् गच्छेत् तपोवनम् ॥ १८४.२६ ॥

सर्वात्मना तपः सेव्यं ब्राह्मणैर्नात्र संशयः।
अविमुक्ते वसेद्यस्तु मम तुल्यो भवेन्नरः ॥ १८४.२७ ॥

यतो मया न मुक्तं हि त्वविमुक्तं ततः स्मृतम्।
अविमुक्तं न सेवन्ते मूढा ये तमसावृताः ॥ १८४.२८ ॥

विण्मूत्ररेतसां मध्ये ते वसन्ति पुनः पुनः।
कामः क्रोधश्च लोभश्च दम्भस्तम्भोऽति मत्सरः ॥ १८४.२९ ॥

निद्रा तन्द्रा तथाऽऽलस्यं पैशून्यमिति ते दश।
अविमुक्ते स्थिता विघ्नाः शक्रेण विहिताः स्वयम् ॥ १८४.३० ॥

विनायकोपसर्गाश्च सततं मूर्ध्नि तिष्ठति।
पुण्यमेतद् भवेत् सर्वं भक्तानामनुकम्पया ॥ १८४.३१ ॥

परं गुह्यमिति ज्ञात्वा ततः शास्त्रानुदर्शनात्।
व्याहृतं देवदेवैस्तु मुनिभिस्तत्वदर्शिभिः ॥ १८४.३२ ॥

मेदसा विप्लुता भूमिरविमुक्ते तु वर्जिता।
पूता समभवत् सर्वा महादेवेन रक्षिता॥ १८४.३३ ॥

संस्करस्तेन क्रियते भूमेरन्यत्र सूरिभिः।
ये भक्ता वरदं देवमक्षरं परमं पदम् ॥ १८४.३४ ॥

देवदानवगन्धर्व यक्षरक्षोमहोरगाः।
अविमुक्तमुपासन्ते तन्निष्ठस्तत्परायणाः ॥ १८४.३५ ॥

ते विशन्ति महादेवमाज्याहुतिरिवानलम्।
तं वै प्राप्य महादेवीमीश्वराध्युषितं शुभम् ॥ १८४.३६ ॥

अविमुक्तं कृतार्थोऽस्मीत्यात्मानमुपलभ्यते।
ऋषिदेवासुरगणैर्जपहोमपरायणैः ॥ १८४.३७ ॥

यतिभिर्मोक्षकामैश्च ह्यविमुक्तं निषेव्यते।
नाविमुक्ते मृतः कश्चिन्नरकं याति किल्बिषी ॥ १८४.३८ ॥

ईश्वरानुगृहीता हि सर्वे यान्ति पराङ्गतिम्।
द्वियोजनमयार्द्धञ्च तत् क्षेत्रं पूर्वपश्चिमम् ॥ १८४.३९ ॥

अर्द्धयोजनविस्तीर्णं दक्षिणोत्तरतः स्मृतम्।
वाराणसी तदीया च यावच्छुक्लनदी तु वै ॥ १८४.४० ॥

एतत् क्षेत्रस्य विस्तारः प्रोक्तो देवेन धीमता।
लब्ध्वा योगञ्च मोक्षञ्च काङ्क्षन्तो ज्ञानमुत्तमम् ॥ १८४.४१ ॥

अविमुक्तं न मुञ्चन्ति तन्निष्ठास्तत्परायणाः।
तस्मिन् वसन्ति ये मर्त्या न ते शोच्याः कदाचन ॥ १८४.४२ ॥

योगक्षेत्रं तपः क्षेत्रं सिद्धगन्धर्व सेवितम्।
सरितः सागराः शैला नाविमुक्त-समाभुवि ॥ १८४.४३ ॥

भूर्लोके चान्तरिक्षे च दिवि तीर्थानि यानि च।
अतीत्य वर्तते चान्यदविमुक्तं प्रभावतः ॥ १८४.४४ ॥

ये तु ध्यानं समासाद्य मुक्तात्मानः समाहिताः।
सन्नियम्येन्द्रियग्रामं जपन्ति शतरुद्रियम् ॥ १८४.४५ ॥

अविमुक्ते स्थिता नित्यं कृतार्थास्ते द्विजातयः।
भवभक्तिं समासाद्य रमन्ते तु सुनिश्चिताः ॥ १८४.४६ ॥

संहृत्य शक्तितः कामान् विषयेभ्यो बहिः स्थिताः।
शक्तितः सर्वतो मुक्ताः शक्तितस्तपसि स्थिताः ॥ १८४.४७ ॥

कारणानीह चात्मानमपुनर्भवभाविताः।
तं वै प्राप्य महात्मानमीश्वरन्निर्भयाः स्थिताः ॥ १८४.४८ ॥

न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि।
अविमुक्ते तु गृह्यन्ते भवेन विभुना स्वयम् ॥ १८४.४९ ॥

उत्पादितं महाक्षेत्रं सिध्यन्ते यत्र मानवाः।
उद्देशमात्रं कथिता अविमुक्तगुणास्तथा ॥ १८४.५० ॥

समुद्रस्येव रत्नानामविमुक्तस्य विस्तरम्।
मोहनं तदभक्तानां भक्तानां भक्तिवर्धनम् ॥ १८४.५१ ॥

मूढास्ते तु न पश्यन्ति श्मशानमिति मोहिताः।
हन्यमानोऽपि यो विद्वान् वसेद्विघ्नशतैरपि ॥ १८४.५२ ॥

स याति परमं स्थानं यत्र गत्वा न शोचति।
जन्म मृत्यु जरा मुक्तः परं याति शिवालयाम् ॥ १८४.५३ ॥

अपुनर्मरणानां हि सा गतिर्मोक्ष काङ्क्षिणाम्।
यां प्राप्य कृतकृत्यः स्यादिति मन्येत पण्डितः ॥ १८४.५४ ॥

न दानैर्न तपोभिर्वा न यज्ञैर्नापि विद्यया।
प्राप्यते गतिरिष्टा या ह्यविमुक्तेतु लभ्यते ॥ १८४.५५ ॥

नानावर्णा विवर्णाश्च चण्डाला ये जुगुप्सिताः।
किल्बिषैः पूर्णदेहाश्च प्रकृष्टैः पातकैस्तथा ॥ १८४.५६ ॥

भेषजं परमं तेषामविमुक्तं विदुर्बुधाः।
जात्यन्तरसहस्रेषु ह्यविमुक्ते म्रियेत यः ॥ १८४.५७ ॥

भक्तो विश्वेश्वरे देवे न स भूयोऽभिजायते।
यत्र चेष्टं हुतं दत्तं तपस्तप्तं कृतं च यत् ॥ १८४.५८ ॥

सर्वमक्षयमेतस्मिन्नविमुक्ते न संशयः।
कालेनोपरता यान्ति भवे सायुज्यमक्षयम् ॥ १८४.५९ ॥

कृत्वा पापसहस्राणि पश्चात् सन्तापमेत्य वै।
यो विमुक्ते वियुज्येत स याति परमाङ्गतिम् ॥ १८४.६० ॥

उत्तरं दक्षिणं चापि अयनं न विकल्पयेत्।
सर्वस्तेषां शुभः कालो ह्यविमुक्ते म्रियन्ति ये ॥ १८४.६१ ॥

न यत्र कालो मीमांस्यो शुभो वा यदि वा शुभः।
तस्य देवस्य माहात्म्य-स्थानमद्भुत कर्मणः ॥ १८४.६२ ॥

सर्वेषामेव नाथस्य सर्वेषां विभुना स्वयम्।
श्रुत्वेदं ऋषयः सर्वे स्कन्देन कथितं पुरा
अविमुक्ताश्रमं पुण्यं भावयेत् करणैः शुभैः ॥ १८४.६३ ॥