वाराणसीमाहात्म्यम्।
देव्युवाच।
हिमवन्तं गिरिं त्यक्त्वा मन्दरं गन्धमादनम्।
कैलासं निषधञ्चैव मेरुपृष्टं महाद्युतिम् ॥ १८३.१ ॥
रम्यं त्रिशिखरञ्चैव मानसं सुमहागिरिम्।
देवोद्यानानि रम्याणि नन्दनं वनमेव च ॥ १८३.२ ॥
सुरस्थानानि मुख्यानि तीर्थान्यायतनानि च।
तानि सर्वाणि सन्त्यज्य अविमुक्ते रतिः कथम् ॥ १८३.३ ॥
किमत्र सुमहत् पुण्यं परं गुह्यं वदस्व मे।
येन त्वं रमसे नित्यं भूतसम्पद् गुणैर्युतः ॥ १८३.४ ॥
क्षेत्रस्य प्रवरत्वञ्च ये च यत्र निवासिनः।
तेषामनुग्रहः कश्चित्तत् सर्वं ब्रूहि शङ्कर!॥ १८३.५ ॥
शङ्कर उवाच।
अत्यद्भुतमिमं प्रश्नं यत्त्वं पृच्छसि भामिनि।
तत् सर्वं सम्प्रवक्ष्यामि तन्मे निगदतः श्रृणु ॥ १८३.६ ॥
वाराणस्यां नदीपुण्या सिद्धगन्धर्वसेविता।
प्रविष्टा त्रिपथा गङ्गा तस्मिन्क्षेत्रे मम प्रिये! ॥ १८३.७ ॥
मामेव प्रीतिसन्तुष्टा कृत्तिवासाश्च सुन्दरि! ।
सर्वेषां चैवस्थानानां स्थानन्तत्तु यथाधिकम् ॥ १८३.८ ॥
तेन कार्येण सुश्रोणि! तस्मिन् स्थाने रतिर्मम।
तस्मिन् लिङ्गे च सान्निध्यं मम देवि! सुरेश्वरि! ॥ १८३.९ ॥
क्षेत्रस्य च प्रवक्ष्यामि गुणान् गुणवताम्वरे।
यान् श्रुत्वा सर्वपापेभ्यो मुच्यते नात्रसंशयः ॥ १८३.१० ॥
यदि पापो यदि शठो यदि वा धार्मिको नरः।
मुच्यते सर्वपापेभ्यो ह्यविमुक्तं व्रजेद्यदि ॥ १८३.११ ॥
प्रलये सर्वभूतानां लोके स्थावरजङ्गमे।
न हि त्यक्ष्यामि तत् स्थानं महागणशतैर्वृतः ॥ १८३.१२ ॥
यत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः।
वक्त्रं मम महाभागे! प्रविशन्ति युगक्षये॥ १८३.१३ ॥
तेषां साक्षादहं पूजां प्रतिगृह्णामि पार्वति!
सर्वगुह्योत्तमं स्थानं मम प्रियतमं शुभम् ॥ १८३.१४ ॥
धन्याः प्रविष्टाः सुश्रोणि! मम भक्ता द्विजातयः।
मद्भक्तिपरमा नित्यं ये मद्भक्तास्तु ते नराः ॥ १८३.१५ ॥
तस्मिन् प्राणान् परित्यज्य गच्छन्ति परमाङ्गतिम्।
सदा जयति रुद्रेण सदा दानं प्रयच्छति ॥ १८३.१६ ॥
सदा तपस्वी भवति अविमुक्त स्थितो नरः।
यो मां पूजयते नित्यं तस्य तुष्याम्यहं प्रिये!॥ १८३.१७ ॥
सर्वदानानि यो दद्यात् सर्वयज्ञेषु दीक्षितः।
सर्वतीर्थाभिषिक्तस्य सप्रपद्येत मामिह ॥ १८३.१८ ॥
अविमुक्तं सदा देवि! ये व्रजन्ति सुनिश्चिताः।
ते तिष्ठन्तीह सुश्रोणि! त्वद्भक्ताश्च त्रिविष्टपे ॥ १८३.१९ ॥
मत्प्रसादात्तु ते देवि! दीव्यन्ति शुभलोचने!
दुर्द्धराश्चैव दुर्द्धर्षा भवन्ति विगतज्वराः ॥ १८३.२० ॥
अविमुक्तं शुभं प्राप्य मद्भक्ताः कृतनिश्चयाः।
निर्धूतपापा विमला भवन्ति विगतज्वराः ॥ १८३.२१ ॥
पार्वत्युवाच।
दक्षयज्ञस्त्वया देव! मत् प्रियार्थे निषूदितः।
अविमुक्त गुणानान्तु न तृप्तिरिह जायते ॥ १८३.२२ ॥
ईश्वर उवाच।
क्रोधेन दक्षयज्ञस्तु त्वत् प्रियार्थे विनाशितः।
महाप्रिये! महाभागे! नाशितोऽयं वरानने ॥ १८३.२३ ॥
अविमुक्ते यजन्ते तु मद्भक्ताः कृतनिश्चयाः।
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥ १८३.२४ ॥
देव्युवाच।
दुर्लभास्तु गुणा देव! अविमुक्ते तु कीर्त्तिताः।
सर्वांस्तन्मम तत्वेन कथयस्व महेश्वर ॥ १८३.२५ ॥
कौतूहलं महादेव! हृदिस्थं मम वर्तते।
तत् सर्वं मम तत्वेन आश्याहि परमेश्वर! ॥ १८३.२६ ॥
ईश्वर उवाच।
अक्षया ह्यमराश्चैव ह्यदाहाश्च भवन्ति ते।
मत् प्रसादाद्वरारोहे! मामेव प्रविशन्ति वै ॥ १८३.२७ ॥
ब्रूहि ब्रूहि विशालाक्षि! किमन्यच्छ्रोतुमिच्छसि।
देव्युवाच।
अविमुक्ते महाक्षेत्रे अहो पुण्यमहो गुणाः ॥ १८३.२८ ॥
न तृप्तिमधिगच्छामि ब्रूहि देव! पुनर्गुणान्।
ईश्वर उवाच।
माहेश्वरि! वरारोहे! श्रृणु तांस्तु मम प्रिये! ॥ १८३.२९ ॥
अविमुक्ते गुणाये तु तथान्यानपि तच्छृणु।
शाकपर्णाशिनो दान्ताः सम्प्रक्षाल्या मरीचिपाः ॥ १८३.३० ॥
दन्तोलूखलिनश्चान्ये अश्मकुट्टास्तथापरे।
मासि मासि कुशाग्रेण जलमास्वादयन्ति वै ॥ १८३.३१ ॥
वृक्षमूलनिकेताश्च शिलाशय्यास्तथापरै।
आदित्यवपुषः सर्वे जितक्रोधा जितेन्द्रियाः ॥ १८३.३२ ॥
एवं बहुविधैर्धर्मैरन्यत्र चरितव्रताः।
त्रिकालमपि भुञ्जाना येऽविमुक्तनिवासिनः ॥ १८३.३३ ॥
तपश्चरन्ति वान्यत्र कलां नार्हन्ति षोडशीम्।
अविमुक्तसमं क्षेत्रं न भूतं न भविष्यति ॥ १८३.३४ ॥
मत्समः पुरुषो नास्ति त्वत्समा नास्ति योषिताम्।
अविमुक्तसमं क्षेत्रं न भूतं न भविष्यति ॥ १८३.३५ ॥
अविमुक्तं परो योगो ह्यविमुक्ते परा गतिः।
अविमुक्ते परो मोक्षः क्षेत्रं नैवास्ति तादृशम् ॥ १८३.३६ ॥
परं गुह्यं प्रवक्ष्यामि तत्वेन वरवर्णिनि!।
अविमुक्ते महाक्षेत्रे यदुक्तं हि मया पुरा ॥ १८३.३७ ॥
जन्मान्तरशतैर्देवि! योगोऽयं यदि लभ्यते।
मोक्षः शतसहस्रेण जन्मना लभ्यते न वा ॥ १८३.३८ ॥
अविमुक्तेन सन्देहो मद्भक्तः कृतनिश्चयः।
एकेन जन्मना सोऽपि योगं मोक्षं च विन्दति ॥ १८३.३९ ॥
अविमुक्ते नरा देवि! ये व्रजन्ति सुनिश्चिताः।
ते विशन्ति परं स्थानं मोक्षं परमदुर्लभम् ॥ १८३.४० ॥
पृथिव्यामीदृशं क्षेत्रं न भूतं न भविष्यति।
चतुर्मूर्तिः सदा धर्मो तस्मिन् सन्निहितः प्रिये! ॥ १८३.४१ ॥
चतुर्णामपि वर्णानां गतिस्तु परमा स्मृता।
देव्युवाच।
श्रुता गुणास्ते क्षेत्रस्य इह चान्यत्र ये प्रभो! ॥ १८३.४२ ॥
वदस्व भुवि विप्रेन्द्राः कं वा यज्ञैर्यजन्ति ते।
ईश्वर उवाच।
दृष्ट्या चैव तु मन्त्रेण मामेव हि यजन्ति ते ॥ १८३.४३ ॥
न तेषां भयमस्तीति भवं रुद्रं यजन्ति यत्।
अमन्त्रो मन्त्रको देवि! द्विविधो विधिरुच्यते ॥ १८३.४४ ॥
साङ्ख्यं चैवाथ योगश्च द्विविधो योग उच्यते।
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ॥ १८३.४५ ॥
सर्वथा वर्तमानोऽपि स योगी मयि वर्त्तते।
आत्मौपम्येन सर्वत्र सर्वं च मयि पश्यति ॥ १८३.४६ ॥
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति।
निर्गुणः सगुणो वापि योगश्च कथितो भुवि ॥ १८३.४७ ॥
सगुणश्चैव विज्ञेयो निर्गुणो मनसः परः।
एतत्ते कथितं देवि! यन्मान्त्वं परिपृच्छसि ॥ १८३.४८ ॥
देव्युवाच
या भक्ति स्त्रिविधा प्रोक्ता भक्तानां बहुधा त्वया।
तामहं श्रोतुमिच्छामि तत्वतः कथयस्व मे ॥ १८३.४९ ॥
ईश्वर उवाच।
श्रृणु पार्वति! देवेशि! भक्तानां भक्तिवत्सले।
प्राप्य साङ्ख्यञ्च योगञ्च दुःखान्तञ्च नियच्छति ॥ १८३.५० ॥
सदा यः सेवते भिक्षां ततो भवति रञ्जितः।
रञ्जनात् तन्मयो भूत्वा लीयते स तु भक्तिमान् ॥ १८३.५१ ॥
शास्त्राणान्तु वरारोहे! बहुकारणदर्शिनः।
न मां पश्यन्ति ते देवि! ज्ञानवाक्यविवादिनः ॥ १८३.५२ ॥
परमार्थज्ञानतृप्ता युक्ता जानन्ति योगिनः।
विद्यया विदितात्मानो योगस्य च द्विजातयः ॥ १८३.५३ ॥
प्रत्याहारेण शुद्रात्मा नान्यथा चिन्तयेच्च तत्।
तुष्टिञ्च परमां प्राप्य योगं मोक्षं परं तथा ॥ १८३.५४ ॥
त्रिभिर्गुणैः समायुक्तो ज्ञानवान् पश्यतीह माम्।
एतत्ते कथितं देवि! किमन्यच्छ्रोतुमर्हसि ॥ १८३.५५ ॥
भूय एव वरारोहे! कथयिष्यामि सुव्रते!।
गुह्यं पवित्रमथवा यच्चापि हृदि वर्तते ॥ १८३.५६ ॥
तत्सर्वं कथयिष्यामि श्रृणुष्वेकमनाः प्रिये।
देव्युवाच।
त्वद्रूपं कीदृशं देव! युक्ताः पश्यन्ति योगिनः ॥ १८३.५७ ॥
पश्यन् मे संशयं ब्रूहि नमस्ते सुरसत्तम!।
श्रीभगवानुवाच।
अमूर्तं चैव मूर्त्तञ्च ज्योतिरूपं हि तत् स्मृतम् ॥ १८३.५८ ॥
तस्योपलब्धिमन्विच्छन् यत्नः कार्यो विजानता।
गुणैर्वियुक्तो भूतात्मा एवं वक्तुं न शक्यते ॥ १८३.५९ ॥
शक्यते यदि वक्तुं वै दिव्यैर्वर्षशतैर्न वा।
देव्युवाच।
किं प्रमाणन्तु तत् क्षेत्रं समन्तात् सर्वतो दिशम् ॥ १८३.६० ॥
यत्र नित्यं स्तितो देवो महादेवो गणैर्युतः।
ईश्वर उवाच।
द्वियोजनन्तु तत्क्षेत्रं पूर्वपश्चिमतः स्मृतम् ॥ १८३.६१ ॥
अर्द्धयोजन विस्तीर्णं तत्क्षेत्रं दक्षिणोत्तरम्।
वाराणसी तदीया च यावच्छुक्लनदी तु वै ॥ १८३.६२ ॥
भीष्मचण्डिकमारभ्य पर्वतेश्वरमन्तिके।
गणा यत्रावतिष्ठन्ति सन्नियुक्ता विनायकाः ॥ १८३.६३ ॥
कूष्माण्डराजः शम्भोश्च जयन्तश्च मदोत्कटाः।
सिंहव्याघ्रमुखाः केचिद्विकटाः कुब्जवामनाः ॥ १८३.६४ ॥
यत्र नन्दी महाकालश्चण्डघण्टो महेश्वरः।
दण्डचण्डेश्वरश्चैव घण्टाकर्णो महाबलः ॥ १८३.६५ ॥
एते चान्ये च बहवो गणाश्चैव गणेश्वराः।
महोदरा महाकाया वज्रशक्तिधरास्तथा ॥ १८३.६६ ॥
रक्षन्ति सततं देवि! ह्यविमुक्तं तपोवनम्।
द्वारे द्वारे च तिष्ठन्ति शूलमुद्गरपाणयः ॥ १८३.६७ ॥
सुवर्णश्रृङ्गीं रौप्यखुराञ्चैलाजिन पयस्विनीम्।
वाराणस्यान्तु यो दद्यात् त्रिवर्णां कञ्जलोचने! ॥ १८३.६८ ॥
गां दत्त्वा तु वरारोहे! ब्राह्मणे वेदपारगे।
आसप्तमं कुलं तेन तारितं नात्र संशयः ॥ १८३.६९ ॥
यो दद्याद् ब्राह्मणे किञ्चित् तस्मिन् क्षेत्रे वरानने!।
कनकं रजतं वस्त्रमन्नाद्यं बहु विस्तरम् ॥ १८३.७० ॥
अक्षयं चाव्ययं चैव स्यातां तस्य सुलोचने!।
श्रृणु तत्वेन तीर्थस्य विभूतिं व्युष्टिमेव च ॥ १८३.७१ ॥
तत्र स्नात्वा महाभागे! भवन्ति निरुजा नराः।
दशानामश्वमेधानां फलं प्राप्नोति मानवः ॥ १८३.७२ ॥
तदवाप्नोति धर्मात्मा तत्र स्नात्वा वरानने!।
बहुस्वल्पे च यो दद्याद् ब्राह्मणे वेदपारगे ॥ १८३.७३ ॥
शुभाङ्गतिमवाप्नोति अग्निवच्चैव दीप्यते।
वाराणसी जाह्नवीभ्यां सङ्गमे लोकविश्रुते ॥ १८३.७४ ॥
दत्त्वान्नं च विधानेन न स भूयोऽभिजायते।
एतत्ते कथितं देवि! तीर्थस्य फलमुत्तमम् ॥ १८३.७५ ॥
उपवासन्तु यः कृत्वा विप्रान् सन्तर्पयन्नरः।
सौत्रामणेश्च यज्ञस्य फलं प्राप्नोति मानवः ॥ १८३.७६ ॥
एकाहारस्तु यस्तिष्ठेन् मासं तत्र वरानने!
यावज्जीवकृतं पापं सहसा तस्य नश्यति ॥ १८३.७७ ॥
अग्निप्रवेशं ये कुर्युरविमुक्ते विधानतः।
प्रविशन्ति मुखन्ते मे निःसन्दिग्धं वरानने! ॥ १८३.७८ ॥
दशसौवर्णिकं पुष्पं योऽविमुक्ते प्रयच्छति।
अग्निहोत्रफलं धूपे गन्धदाने तथा श्रुणु ॥ १८३.७९ ॥
भूमिदानेन तत्तुल्यं गन्धदानफलं स्मृतम्।
सम्मार्जने पञ्चशतं सहस्रमनुलेपने ॥ १८३.८० ॥
मालया शतसाहस्रमनन्तं गीतवाद्यतः।
देव्युवाच।
अत्यद्भुतमिदं देव स्थानमेतत् प्रकीर्तितम् ॥ १८३.८१ ॥
रहस्यं श्रोतुमिच्छामि यदर्थन्त्वं न मुञ्चसि।
ईश्वर उवाच
आसीत् पूर्वं वरारोहे! ब्रह्मणस्तु शिरो वरम् ॥ १८३.८२ ॥
पञ्चमं श्रृणु सुश्रोणि! जातं काञ्चन स प्रभम्।
ज्वलत्तत् पञ्चमं शीर्षं जातं तस्य महात्मनः ॥ १८३.८३ ॥
तदेवमब्रवीद्देवि! जन्म जानामि ते ह्यहम्।
ततः क्रोधपरीतेन संरक्त नयनेन च ॥ १८३.८४ ॥
वामाङ्गुष्ठनखाग्रेण छिन्नं तस्य शिरो मया।
ब्रह्मोवाच।
तदा निरपराधस्य शिरश्छिन्नं त्वया मम ॥ १८३.८५ ॥
तस्माच्छापसमायुक्तः कपाली त्वं भविष्यसि।
ब्रह्महत्याकुलो भूत्वा चरतीर्थानि भूतले ॥ १८३.८६ ॥
ततोऽहं गतवान् देवि! हिमवन्तं शिलोच्चयम्।
तत्र नारायणः श्रीमान् मया भिक्षां प्रयाचितः ॥ १८३.८७ ॥
ततस्तेन स्वकं पार्श्वं नखाग्रेण विदारितम्।
स्रवतो महती धारा तस्य रक्तस्य निःसृता ॥ १८३.८८ ॥
प्रयाता सातिविस्तीर्णा योजनार्द्धशतन्तदा।
न सम्पूर्णं कपालन्तु घोरमद्भुत दर्शनम् ॥ १८३.८९ ॥
दिव्यं वर्षसहस्रन्तु सा च धारा प्रवाहिनी।
प्रोवाच भगवान्विष्णुः कपालं कुत ईदृशम् ॥ १८३.९० ॥
आश्चर्यभूतं देवेश! संशयो हृदि वर्तते।
कुतश्च सम्भवो देव! सर्वं मे ब्रूहि पृच्छतः ॥ १८३.९१ ॥
देवदेव उवाच।
श्रूयतामस्य हे देव! कपालस्य तु सम्भवः।
शतं वर्षसहस्राणां तपस्तप्त्वा सुदारुणम्॥ १८३.९२ ॥
ब्रह्माऽसृजद्वपुर्दिव्यमद्भुतं लोमहर्षणम्।
तपसश्च प्रभावेण दिव्यं काञ्चन सन्निभम् ॥ १८३.९३ ॥
ज्वलत्तत् पञ्चमं शीर्षं जातं तस्य महात्मनः।
निकृत्तन्तं मया देव! तदिदं पश्य दुर्जयम् ॥ १८३.९४ ॥
यत्र यत्र च गच्छामि कपालं तत्र गच्छति।
एवमुक्तस्ततो देवः प्रोवाच पुरुषोत्तमः ॥ १८३.९५ ॥
श्रीभगवानुवाच।
गच्छ गच्छ स्वकं स्थानं ब्रह्मणस्त्वं प्रियङ्कुरु।
तस्मिन् स्थास्यति भद्रन्ते कपालं तस्य तेजसा ॥ १८३.९६ ॥
ततः सर्वाणि तीर्थानि पुण्यान्यायतनानि च।
गतोऽस्मि पृथुल श्रोणि! न क्वचित् प्रत्यतिष्ठत ॥ १८३.९७ ॥
ततोऽहं समनुप्राप्तो ह्यविमुक्ते महाशये।
अवस्थितः स्वके स्थाने शापश्च विगतो मम ॥ १८३.९८ ॥
विष्णुप्रसादात् सुश्रोणि! कपालं तत् सहस्रधा।
स्फुटितं बहुधा जातं स्वप्नलब्धं धनं यथा ॥ १८३.९९ ॥
ब्रह्महत्यापहं तीर्थं क्षेत्रमेतन्मया कृतम्।
श्मशानमेतद् भद्रं मे देवानां वरवर्णिनि ॥ १८३.१०० ॥
कालो भूत्वा जगत् सर्वं संहरामि सृजामि च।
देवेशि! सर्वगुह्यानां स्थानं प्रियतरं मम ॥ १८३.१०१ ॥
मद्भक्तास्तत्र गच्छन्ति विष्णुभक्तास्तथैव च।
ये भक्ता भास्करे देवि! लोकनाथे दिवाकरे ॥ १८३.१०२ ॥
तत्रस्थो यस्त्यजेद्देहं मामेव प्रविशेत्तु सः।
देव्युवाच।
अत्यद्भुतमिदं देव! यदुक्तं पद्मयोनिना ॥ १८३.१०३ ॥
त्रिपुरान्तकरस्थानं गुह्यमेतत् महाद्युते।
सन्निधानात्तु ते सर्वे कलां नार्हन्ति षोडशीम् ॥ १८३.१०४ ॥
यत्र तिष्ठति देवेशो यत्र तिष्ठति शङ्करः।
गङ्गा तीर्थसहस्राणां तुल्या भवति वा न वा ॥ १८३.१०५ ॥
त्वमेव भक्तिर्देवेश। त्वमेव गतिरुत्तमा।
ब्रह्मादीनान्तु ते देव! गतिरुक्ता सनातनी।
श्राव्ये यद् द्विजातीनां भक्तानामनुकम्पया ॥ १८३.१०६ ॥