वाराणसीस्थक्षेत्रमाहात्म्यम्।
सूत उवाच।
इमां पुण्योद्भवां स्निग्धां कथां पापप्रणाशिनीम्।
श्रृण्वन्तु ऋष्यः सर्वे सुविशुद्धास्तपोधनाः ॥ १८१.१ ॥
दिव्यं रुद्रतुल्यपराक्रमम्।
सनत्कुमारो भगवानपृच्छन्नन्दिकेश्वरम् ॥ १८१.२ ॥
ब्रुहि गुह्यं यथा तत्त्वं यत्र नित्यं भव स्थितः।
माहात्म्यं सर्वभूतानां परमात्मा महेश्वरः॥ १८१.३ ॥
घोररूपं समास्थाय दुष्करं देवदानवैः।
आभूतसम्प्लवं यावत् स्थाणुभूतो महेश्वरः ॥ १८०.४ ॥
नन्दिकेश्वर उवाच।
पुरा देवेन यत्प्रोक्तं पुराणं पुण्यमुत्तम्।
तत्सर्वं सम्प्रवक्ष्यामि नमस्कृत्य महेश्वरम् ॥ १८०.५ ॥
ततो देवेन तुष्टेन उमायाः प्रियकाम्यया।
कथितं भुवि विख्यातं यत्र नित्यं स्वयं स्थितः ॥ १८०.६ ॥
रुद्रस्यार्धासनगता मेरुश्रृङ्गे यशस्विनी।
महादेवं ततो देवी प्रणता परिपृच्छति ॥ १८०.७ ॥
भगवन्! देवदेवेश! चन्द्रार्द्धकृतशेखर!।
धर्मं प्रब्रूहि मर्त्यानां भुवि चैवोर्ध्वरेतसाम् ॥ १८०.८ ॥
जप्तं दत्तं हुतं चेष्टं तपस्तप्तं कृतञ्च यत्।
ध्यानाध्ययनसम्पन्नं कथं भवति चाक्षयम् ॥ १८०.९ ॥
जन्मान्तरसहस्रेण यत्पापं पूर्वसञ्चितम्।
कथं तत्क्षयमायाति तन्ममाचक्ष्व शङ्कर ॥ १८०.१० ॥
यस्मिन् व्यवस्थितो भक्त्या तुष्यसे परमेश्वर!।
व्रतानि नियमाश्चैव आचारो धर्म एव च ॥ १८०.११ ॥
सर्वसिद्धिकरं यत्र ह्यक्षय्य गतिदायकम्।
वक्तुमर्हसि तत्सर्वं परं कौतूहलं हि मे ॥ १८०.१२ ॥
महेश्वर उवाच।
श्रृणु देवि! प्रवक्ष्यामि गुह्यानां गुह्यमुत्तमम् ॥
सर्वक्षेत्रेषु विख्यातमविमुक्तं प्रिये मम ॥ १८०.१३ ॥
अष्टषष्टिः पुरा प्रोक्ता स्थानानां स्थानमुत्तमम्।
यत्र साक्षात् स्वयं रुद्रः कृत्तिवासाः स्वयं स्थितः ॥ १८०.१४ ॥
यत्र सन्निहितो नित्यमविमुक्ते निरन्तरम्।
तत्क्षेत्रं न मया मुक्तमविमुक्तं ततः स्मृतम्॥ १८०.१५ ॥
अविमुक्ते परा सिद्धिरविमुक्ते परा गतिः।
जप्तं दत्तं हुतं चेष्टं तपस्तप्तं कृतं च यत् ॥ १८०.१६ ॥
ध्यानमध्ययनं दानं सर्वं भवति चाक्षयम्।
जन्मान्तरसहस्रेण यत्पापं पूर्वसञ्चितम् ॥ १८०.१७ ॥
अविमुक्तं प्रविष्टस्य तत्सर्वं व्रजति क्षयम्।
अविमुक्ताग्निना दग्धमग्नौ तूलमिवाहितम् ॥ १८०.१८ ॥
ब्राह्मणाः क्षत्रियाः वैश्याः शूद्रा वै वर्णसङ्कराः।
कृमिम्लेच्छाश्च ये चान्ये सङ्कीर्णाः पापयोनयः ॥ १८०.१९ ॥
कीटाः पिपीलिकाश्चैव ये चान्ये मृगपक्षिणः।
कालेन निधनं प्राप्ता अविमुक्ते शृणु प्रिये! ॥ १८०.२० ॥
चन्द्रार्द्धमौलिनः सर्वे ललाटाक्षा वृषध्वजाः।
शिवे मम पुरे देवि! जायन्ते तत्र मानवाः ॥ १८०.२१ ॥
अकामो वा सकामो वा ह्यपि तिर्यग्गतोऽपि वा।
अविमुक्ते त्यजन् प्राणान् मम लोके महीयते ॥ १८०.२२ ॥
अविमुक्तं यदागच्छेत् कदाचित् कालपर्ययात्।
अश्मना चरणौ बद्ध्वा तत्रैव निधनं व्रजेत् ॥ १८०.२३ ॥
अविमुक्तं गतो देवि! न निर्गच्छेत् ततः पुनः।
सोऽपिबत्पदमाप्नोति बद्ध्वा तत्रैव निधनं व्रजेत् ॥ १८०.२४ ॥
अविमुक्तं गतो देवि! न निर्गच्छेत् ततः पुनः।
सोऽपिबत्पदमाप्नोति नात्र कर्या विचारणा ॥ १८०.२५ ॥
अमरञ्च महाकालं तथा कायावरोहणम्।
एतानि हि पवित्रापि सान्निध्यात् सन्ध्ययोर्द्वयोः ॥ १८०.२६ ॥
कालिञ्जरवनञ्चैव शङ्कुकर्णं स्थलेश्वरम्।
एतानि च पवित्राणि सान्निध्याद्धि मम प्रिये
अविमुक्ते वरारोहे! त्रिसन्ध्यं नात्र संशयः ॥ १८०.२७ ॥
इरिश्चन्द्रं परं गुह्यं गुह्यमाम्रातकेश्वरम्।
जलेश्वरं परं गुह्यं गुह्यं श्रीपर्वतं तथा ॥ १८०.२८ ॥
महालयं तथा गुह्यं कृमिचण्डेश्वरं शुभम्।
गुह्यातिगुह्यं केदारं महाभैरवमेव च ॥ १८०.२९ ॥
अष्टावेतानि स्थानानि सान्निध्याद्धि मम प्रिये!।
अविमुक्ते वरारोहे! त्रिसन्ध्यं नात्र संशयः ॥ १८०.३० ॥
यानि स्थानानि श्रूयन्ते त्रिषु लोकेषु सुव्रते!।
अविमुक्तस्य पादेषु नित्यं सन्निहितानि वै ॥ १८०.३१ ॥
अथोत्तरां कथां दिव्यामविमुक्तस्य शोभने।
स्कन्दो वक्ष्यति माहात्म्यमृषीणां भावितात्मनाम् ॥ १८०.३२ ॥