कालनेमिना सह विष्णुयुद्धम्
मत्स्य उवाच।
पञ्च तन्नाभ्यवर्तन्त विपरीतेन कर्म्मणा।
वेदो धर्म्मः क्षमा सत्यं श्रीश्च नारायणाश्रया ॥ १७८.१ ॥
स तेषामनुपस्थानात् सक्रोधो दानवेश्वरः।
वैष्णवं पदमन्विच्छन् ययौ नारायणान्तिकम् ॥ १७८.२ ॥
स ददर्श सुपर्णस्थं शङ्ख चक्रगदाधरम्।
दानवानां विनाशाय भ्रामयन्तं गदां शुभाम्॥ १७८.३ ॥
सजलाम्भोद सदृशं विद्युत्सदृश वाससम्।
स्वारूढं स्वर्णपक्षाढ्यं शिखिनं काश्यपं खगम् ॥ १७८.४ ॥
दृष्ट्वा दैत्यविनाशाय रणे स्वस्थमवस्थितम्।
दानवो विष्णुमक्षोभ्यं बभाषे लुब्ध मानसः ॥ १७८.५ ॥
अयं स रिपुरस्माकं पूर्वेषां प्राणनाशनः।
अर्णवावासिनश्चैव मधोर्वै कैटभस्य च ॥ १७८.६ ॥
अयं स विग्रहोऽस्माकमशाम्यः किल कथ्यते।
अनेन संयुगेष्वद्य दानवा बहवो हताः ॥ १७८.७ ॥
अयं स निर्घृणो लोके स्त्री बाल निरपत्रपः।
येन दानवनारीणां सीमन्तोद्धरणं कृतम् ॥ १७८.८ ॥
अयं सविष्णुर्देवानां वैकुण्ठश्च दिवैकसाम्।
अनन्तो भोगिनामप्सु स्वपन्नाद्यः स्वयम्भुवः ॥ १७८.९ ॥
अयं स नाथो देवानामस्माकं व्यथितात्मनाम्।
अस्य क्रोधं समासाद्य हिरण्यकशिपुर्हतः ॥ १७८.१० ॥
अस्य च्छायामुपाश्रित्य देवा मखमुखे श्रिताः।
आज्यं महर्षिभिर्दत्तमश्नुवन्ति त्रिधा हुतम् ॥ १७८.११ ॥
अयं स निधने हेतुः सर्वेषाममरद्विषाम्।
यस्य चक्रे प्रविष्टानि कुलान्यस्माकमाहवे ॥ १७८.१२ ॥
अयं स किल युद्धेषु सुरार्थे त्यक्तजीवितः।
सवितुस्तेजसा तुल्यं चक्रं क्षिपति शत्रुषु ॥ १७८.१३ ॥
अयं स कालो दैत्यानां कालभूतः समास्थितः।
अतिक्रान्तस्य कालस्य फलं प्राप्स्यति केशवः ॥ १७८.१४ ॥
दिष्ट्येदानीं समक्षं मे विष्णुरेष समागतः।
अद्य मद्बाहु निष्पिष्टो मामेव प्रणमिष्यति ॥ १७८.१५ ॥
यास्याम्यपचितिं दिष्ट्या पूर्वेषामद्य संयुगे।
इमं नारायणं हत्वा दानवानां भयावहम् ॥ १७८.१६ ॥
क्षिप्रमेव हनिष्यामि रणेऽमरगणांस्ततः।
जात्यन्तरगतो ह्येष बाधते दानवान् मृधे ॥ १७८.१७ ॥
एषोऽनन्तः पुरा भूत्वा पद्मनाभ इति श्रुतः।
जघानैकार्णवे घोरे तावुभौ मधुकैटभौ॥ १७८.१८ ॥
द्विधाभूतं वपुः कृत्वा सिंहस्यार्द्धं नरस्य च।
पितरं मे जघानैको हिरण्यकशिपुं पुरा ॥ १७८.१९ ॥
शुभं गर्भमधत्तैनमदितिर्देवतारणिः।
त्रीन् लोकानुज्जहारैको क्रममाणस्त्रिभिः क्रमैः ॥ १७८.२० ॥
भूयस्त्त्विदानीं सङ्ग्रामे सम्प्राप्ते तारकामये।
मया सह समागम्य स देवो विनशिष्यति ॥ १७८.२१ ॥
एवमुक्त्वा बहुविधं क्षिपन्नारायणं रणे।
वाग्भिरप्रतिरूपाभिर्युद्धमेवाभ्यरोचयत् ॥ १७८.२२ ॥
क्षिप्यमाणो सुरेन्द्रेण न चुकोप गदाधरः।
क्षमा बलेन महता सस्मितं चेदमब्रवीत् ॥ १७८.२३ ॥
अल्पं दर्पबलं दैत्य! स्थिरमक्रोधजं बलम्।
हतस्त्वं दर्पजैर्दोषैर्हित्वा यद् भाषसे क्षमम् ॥ १७८.२४ ॥
अधीरस्त्वं मम मतो धिगेतत्तव वाग्बलम्।
न यत्र पुरुषाः सन्ति तत्र गर्जन्ति योषितः ॥ १७८.२५ ॥
अहं त्वां दैत्य! पश्यामि पूर्वेषां मार्गगामिनम्।
प्रजापतिकृतं सेतुं भित्वा कः स्वस्तिमान् व्रजेत् ॥ १७८.२६ ॥
अद्य त्वां नाशयिष्यामि देवव्यापारघातकम्।
स्वेषु स्वेषु च स्थानेषु स्थापयिष्यामि देवताः ॥ १७८.२७ ॥
एवं ब्रुवति वाक्यं तु मृधे श्रीवत्सधारिणि।
जहास दानवः क्रोधाद्धस्तां श्चक्रे सहायुधान् ॥ १७८.२८ ॥
स बाहुशतमुद्यम्य सर्वास्त्र-ग्रहणं रणे।
क्रोधाद्द्विगुणरक्ताक्षो विष्णुं वक्षस्यताडयत् ॥ १७८.२९ ॥
दानवाश्चापि समरे मयतारपुरोगमाः
उद्यतायुध निस्त्रिंशा विष्णुमभ्यद्रवन् रणे ॥ १७८.३० ॥
स ताड्यमानोऽतिबलैर्दैत्यैः सर्वोद्यतायुधैः।
न चचाल ततो युद्धे कम्पमान इवाचलः ॥ १७८.३१ ॥
संसक्तश्च सुपर्णेन कालनेमी महासुरः।
सर्व प्राणेन महतीं गदामुद्यम्य बाहुभिः ॥ १७८.३२ ॥
घोरां ज्वलन्तीं मुमुचे संरब्धो गरुडोपरि।
कर्म्मणा तेन दैत्यस्य विष्णुर्विस्मयमाविशत् ॥ १७८.३३ ॥
यदा तेन सुपर्णस्य पातिता मूर्ध्नि सा गदा।
सुपर्णं व्यथितं दृष्ट्वा कृतञ्च वपुरात्मनः ॥ १७८.३४ ॥
क्रोध संरक्तनयनो वैकुण्ठश्चक्रमाददे।
व्यवर्द्धत स वेगेन सुपर्णेन समं विभुः ॥ १७८.३५ ॥
भुजाश्चास्य व्यवर्द्धन्त व्याप्नुवन्तो दिशो दश।
प्रदिशश्चैव खं गां वै पूरयामास केशवः ॥ १७८.३६ ॥
ववृधे च पुनर्लोकान् क्रान्तुकाम इवौजसा।
तर्जनायासुरेन्द्राणां वर्द्धमानं नभस्तले ॥ १७८.३७ ॥
ऋषयश्चैव गन्धर्वास्तुष्टुवुर्मधुसूदनम्।
सर्वान् किरीटेन लिहन् साभ्रमम्बरमम्बरैः ॥ १७८.३८ ॥
पद्भ्यमाक्रम्य वसुधां दिशः प्रच्छाद्य बाहुभिः।
स सूर्य करतुल्याभं सहस्रारमरिक्षयम् ॥ १७८.३९ ॥
दीप्ताग्नि सदृशं घोरं दर्शनेन सुदर्शनम्।
सुवर्णरेणु पर्यन्तं वज्रनाभं भयापहम् ॥ १७८.४० ॥
मेदोऽस्थि मज्जा रुधिरैः सिक्तन्दानवसम्भवैः।
अद्वितीय प्रहरणं क्षुरपर्यन्त मण्डलम् ॥ १७८.४१ ॥
स्रग्दाममालाविततं कामगं कामरूपिणम्।
स्वयं स्वयम्भुवा सृष्टं भयदं सर्वविद्विषाम् ॥ १७८.४२ ॥
महर्षि रोषैराविष्टं नित्यमाहवदर्पितम्।
क्षेपणाद्यस्य मुह्यन्ति लोकाः सस्थाणुजङ्गमाः ॥ १७८.४३ ॥
क्रव्यादानि च भूतानि तृप्तिं यान्ति महामृधे।
तदप्रतिमकर्मोग्रं समानं सूर्यवर्चसा ॥ १७८.४४ ॥
चक्रमुद्यम्य समरे क्रोधधीप्तो गदाधरः।
समुष्णन् दानवं तेजः समरे स्वेन तेजसा ॥ १७८.४५ ॥
चिच्छेद बाहू चक्रेण श्रीधरः कालनेमिनः।
तच्च वक्त्रशतं घोरं साग्नि पूर्णाट्टहासि वै ॥ १७८.४६ ॥
तस्य दैत्यस्य चक्रेण प्रममाथ बलाद्धरिः।
सच्छिन्नबाहुर्विशिरा न प्राकम्पत दानवः ॥ १७८.४७ ॥
कबन्धोऽवस्थितः सङ्ख्ये विशाख इव पादपः।
सम्वितत्यमहापक्षौ वायोः कृत्वा समञ्जसम् ॥ १७८.४८ ॥
उरसा पातयामास गरुडः कालनेमिनम्।
स तस्य देहो विमुखो विबाहुश्च परिभ्रमन् ॥ १७८.४९ ॥
निपपात दिवन्त्यक्त्वा क्षोभयन् धरणीतलम्।
तस्मिन्निपतिते दैत्ये देवाः सर्षिगणास्तदा ॥ १७८.५० ॥
साधु साध्विति वैकुण्ठं समेताः प्रत्यपूजयन्।
अपसर्पन्तु दैत्यश्च युद्धे दृष्टपराक्रमाः ॥ १७८.५१ ॥
ते सर्वे बाहुभिर्व्याप्ता न शेकुश्चलितुं रणे।
कांश्चित् केशेषु जग्राह कांश्चित् कण्ठेष्वपीडयन् ॥ १७८.५२ ॥
चकर्ष कस्यचिद्वक्त्रं मध्येऽगृह्णद्दयापरम्।
ते गदा चक्रनिर्दग्धा गतसत्वा गतासवः ॥ १७८.५३ ॥
गगनाद् भ्रष्टसर्वाङ्गा निपेतुर्धरणीतले।
तेषु दैत्येषु सर्वेषु हतेषु पुरुषोत्तमः ॥ १७८.५४ ॥
तस्थौ शक्रप्रियं कृत्वा कृतकर्मा गदाधरः।
तस्मिन् विमर्दे निर्वृत्ते सङ्ग्रामे तारकामये ॥ १७८.५५ ॥
तं देशमाजगामाशु ब्रह्मा लोकपितामहः।
सर्वैर्ब्रह्मर्षिभिः सार्द्धं गन्धर्वाप्सरसाङ्गणैः ॥ १७८.५६ ॥
देवदेवो हरिं देवं पूजयन् वाक्यमब्रवीत्।
कृतं देव महत्कर्म सुराणां शल्यमुद्धृतम् ॥ १७८.५७ ॥
वधेनानेन दैत्यानां वयं च परितोषिताः।
योऽयं त्वया हतो विष्णो! कालनेमी महासुरः ॥ १७८.५८ ॥
त्वमेकोऽस्य मृधे हन्ता नान्यः कश्चन विद्यते।
एष देवान् परिभवन् लोकांश्च ससुरासुरान् ॥ १७८.५९ ॥
ऋषीणां कदनं कृत्वा मामपि प्रतिगर्जति।
तदनेन तवाग्य्रेण परितुष्टोऽस्मि कर्मणा ॥ १७८.६० ॥
यदयं कालकल्पस्तु कालनेमी निपातितः।
तदा गच्छस्व भद्रन्ते गच्छाम दिवमुत्तमम् ॥ १७८.६१ ॥
ब्रह्मर्षयस्त्वां तत्रस्थाः प्रतीक्षन्ते सदोगताः।
कञ्चाहं तव दास्यामि वरं वरवताम्वर! ॥ १७८.६२ ॥
सुरेष्वथ च दैत्येषु वराणां वरदो भवान्।
निर्यातयैतत्त्रैलोक्यं स्फीतं निहतकण्टकम् ॥ १७८.६३ ॥
अस्मिन्नेव मृधे विष्णो!शक्राय सुमहात्मने।
एवमुक्तो भगवता ब्रह्मणा हरिरव्ययः ॥ १७८.६४ ॥
देवांश्छक्रमुखान् सर्वानुवाच शुभया गिरा।
विष्णुरुवाच।
श्रृण्वन्तु त्रिदशाः सर्वे यावन्तोऽत्र समागताः ॥ १७८.६५ ॥
श्रवणावहितैः श्रोत्रैः पुरस्कृत्य पुरन्दरम्।
अस्मिन् महति सङ्ग्रामे दैतेयौ द्वौ विनिःसृतौ॥ १७८.६६ ॥
विरोचनश्च दैत्येन्द्रः स्वर्भानुश्च महाग्रहः।
स्वां दिशं भजतां शक्रो दिशं वरुण एव च ॥ १७८.६७ ॥
याम्यां यमः पालयितामुत्तराञ्च धनाधिपः।
स्वां दिशं भजतां शक्रो दिशं वरुण एव च ॥ १७८.६८ ॥
याम्यां यमः पालयितामुत्तराञ्च धनाधिपः।
ऋक्षेः सह यथायोगं गच्छतां चैव चन्द्रमाः ॥ १७८.६९ ॥
अब्दं ऋतुमुखे सूर्यो भजतामयनैः सह।
आज्यभागाः प्रवर्तन्तां सदस्यैरभिपूजिताः ॥ १७८.७० ॥
हूयन्तामग्नयो विप्रैर्वेददृष्टेन कर्मणा।
देवाश्चाप्यग्निहोमेन स्वाध्यायेन महर्षयः ॥ १७८.७१ ॥
श्राद्धेन पितरश्चैव तृप्ति यान्तु यथासुखम्।
वायुश्चरतु मार्गस्थस्त्रिधा दीप्यतु पावकः ॥ १७८.७२ ॥
त्रींस्तु वर्णांश्च लोकांस्त्रींस्तर्पयंश्चात्मजैर्गुणैः।
क्रतवः सम्प्रवर्तन्तां दीक्षणीयैर्द्विजातिभिः ॥ १७८.७३ ॥
दक्षिणाश्चोपपाद्यन्तां याज्ञिकेभ्यः पृथक् पृथक् ।
गान्तु सूर्यो रसान् सोमो वायुः प्राणांश्च प्राणिषु ॥ १७८.७४ ॥
तर्पयन्तः प्रवर्तन्तां सर्व एव स्वकर्मभिः।
यथावदानुपूर्व्येण महेन्द्रमलयोद्भवाः ॥ १७८.७५ ॥
त्रैलोक्यमातरः सर्वाः समुद्रं यान्तु सिन्धवः।
दैत्येभ्यस्त्यज्यतां भीश्च शान्न्ति व्रजत देवताः ॥ १७८.७६ ॥
स्वस्ति वोऽस्तु गमिष्यामि ब्रह्मलोकं सनातनम्।
स्वगृहे स्वर्गलोके वा सङ्ग्रामे वा विशेषतः ॥ १७८.७७ ॥
विश्रम्भो वो न मन्तव्यो नित्यं क्षुद्रा हि दानवाः।
छिद्रेषु प्रहरन्त्येते न तेषां संस्थितिर्ध्रुवा ॥ १७८.७८ ॥
सौम्यानामृजुभावानां भवतामार्जबन्धनम्।
एवमुक्त्वा सुरगणान् विष्णुसत्य पराक्रमः ॥ १७८.७९ ॥
जगाम ब्रह्मणा सार्द्धं स्वलोकन्तु महायशाः।
एतदाश्चर्यमभवत् सङ्ग्रामे तारकामये।
दानवानाञ्च विष्णोश्च यन्मान्त्वं परिपृष्टवान् ॥ १७८.८० ॥