कालनेमिवृत्तान्तवर्णनम्।
मत्स्य उवाच।
दानवानामनीकेषु कालनेमिर्महासुरः।
विवर्द्धितमहातेजास्तपान्ते जलदो यथा ॥ १७७.१
तं त्रैलोक्यान्तरगतं दृष्ट्वा ते दानवेश्वराः।
उत्तस्थुरपरिश्रान्ताः पीत्वामृतमनुत्तमम् ॥ १७७.२
ते वीतभयसन्त्रासा मयतारपुरोगमाः।
तारकामयसङ्ग्रामे सततं जितकाशिनः ॥ १७७.३
रेजुरायोधनगता दानवाः युद्धकाङ्क्षिणः।
मन्त्रमभ्यसतान्तेषां व्यूहञ्च परिधावताम्॥ १७७.४
प्रेक्षताञ्चाभवत् प्रीतिर्दानवं कालनेमिनम्।
ये तु तत्र मयस्यासन् मुख्या युद्धपुरःसराः ॥ १७७.५
ते तु सर्वे भयन्त्यक्त्वा हृष्टा योद्धुमुपस्थिताः।
मयस्तारो वराहश्च हयग्रीवश्च वीर्यवान् ॥ १७७.६
विप्रचित्तिसुतः श्वेनः खरलम्बावुभावपि।
अरिष्टो बलिपुत्रश्च किशोराख्यस्तथैव च ॥ १७७.७
स्वर्भानुश्चामर प्रख्यो वक्त्रयोधी महासुरः।
एतेऽस्त्रवेदिनः सर्वे सर्वे तपसि सुस्थिताः ॥ १७७.८
दानवाः कृतिनो जग्मुः कालनेमिं तमुद्धतम्।
ते गदाभिर्भुशुण्डीभिश्चक्रैरथ परश्वधैः ॥ १७७.९
कालकल्पैश्च मुसलैः क्षेपणीयैश्च मुद्गरैः।
अश्मभिश्चाद्रिसदृशैः गण्डशैलैश्च दारुणैः ॥ १७७.१०
पट्टिशैर्भिन्दिपालैश्च परिघैश्चोत्तमायसैः।
घातनीभिः सुगुर्वीभिः शतघ्नीभिस्तथैव च ॥ १७७.११
युगैर्यन्त्रैश्च निर्मुक्तैर्मार्गणैरुग्रताडितैः।
दौर्भिश्चायतदीप्तैश्च प्रासैः पाशैश्च मूर्च्छनैः ॥ १७७.१२
भुजङ्गवक्त्रैर्लेलिहानैर्विसर्पद्भिश्च सायकैः।
वज्रैः प्रहरणीयैश्च दीव्यमानैश्च तोमरैः ॥ १७७.१३
विकोशैरसिभिस्तीक्ष्णैः शूलैश्च शितनिर्मलैः।
दैत्याः सन्दीप्तमनसः प्रगृहीतशरासनाः ॥ १७७.१४
ततः पुरस्कृत्य तदा कालनेमिं महाहवे।
सा दीप्तशस्तप्रवरा दैत्यानां रुरुचे चमूः ॥ १७७.१५
द्यौर्निमीलितसर्वाङ्ग घना नीलाम्बुदागमे।
देवतानामपि चमूः मुमुदे शक्रपालिता ॥ १७७.१६
उपेता सितकृष्णाभ्यां ताराभ्यां चन्द्रसूर्ययोः।
वायुवेगवती सौम्या तारागणपताकिनी ॥ १७७.१७
तोयदाविद्धवसना ग्रहनक्षत्रहासिनी।
यमेन्द्रवरुणैर्गुप्ता धनदेव च धीमता ॥ १७७.१८
सम्प्रदीप्ताग्नि नयना नारायण परायणा।
सा समुद्रौघसदृशी दिव्या देवमहाचमूः ॥ १७७.१९
रराजास्त्रवती भीमा यक्षगन्धर्व शालिनी।
तयोश्चम्वोस्तदानीन्तु बभूव स समागमः ॥ १७७.२०
द्यावापृथिव्योः संयोगो यथा स्याद्युगपर्यये।
तद्युद्धमभवद् घोरं देवदानवसङ्कलम् ॥ १७७.२१
क्षमा पराक्रमपरं दर्पस्य विनयस्य च।
निश्चक्रमुर्बलाभ्यान्तु भीमास्तत्र सुरासुराः ॥ १७७.२२
पूर्वा पराभ्यां संरब्धाः सागराभ्यामिवाम्बुदाः।
ताभ्यां बलाभ्यां सन्दृष्टाश्चेरुस्ते देवदानवाः ॥ १७७.२३
वनाभ्यां पार्वतीयाभ्यां पुष्पिताभ्यां यथा गजाः।
समाजघ्नुस्ततोभेरीः शङ्खान्दध्मुरनेकशः ॥ १७७.२४
स शब्दोद्यां भुवं खञ्च दिशश्च समपूरयत्।
ज्याघात तलनिर्घोषो धनुषां कूजितानि च ॥ १७७.२५
दुन्दुभीनाञ्च निनदो दैत्यमन्तर्दधुः स्वनम्।
तेऽन्योन्यमभिसम्पेतुः पातयन्तः परस्परम् ॥ १७७.२६
बभञ्जुर्बाहुभिर्बाहून् द्वन्द्वमन्ये युयुत्सवः।
देवास्तु चाशनिं घोरं परिघांश्चोत्तमायसान् ॥ १७७.२७
निस्त्रिंशान् ससृजुः सङ्ख्ये गदागुर्वीश्च दानवाः।
गदानिपातैर्भग्नाङ्गा बाणैश्च शकलीकृताः ॥ १७७.२८
परिपेतुर्भृशं केचित् पुनः केचित्तु जघ्निरे।
ततो रथैः सतुरगैः र्विमानैश्चाशुगामिभिः ॥ १७७.२९
समीयुस्ते सुसंरब्धा रोषादन्योन्यमाहवे।
संवर्तमानाः समरे सन्दष्टौष्ठ पुटाननाः ॥ १७७.३०
रथारथैर्निरुध्यन्ते पादाताश्च पदातिभिः।
तेषां रथानान्तुमुलः स शब्दः शब्दवाहिनाम् ॥ १७७.३१
नभोनभश्च हि यथा नभस्यैर्जलदस्वनैः।
बभञ्जुस्तु रथान् केचित् केचित् सम्पाटितारथैः ॥ १७७.३२
सम्बाधमन्ये सम्प्राप्य न शेकुश्चलितुं रथान्।
अन्योन्यमन्ये समरे दोर्भ्यामुत्क्षिप्य दंशिताः ॥ १७७.३३
संह्रादमानाभरणा जघ्नुस्तत्रापि चर्मिणः।
अस्त्रैरन्ये विनिर्भिन्ना वेमू रक्तं हतायुधि॥ १७७.३४
क्षरज्जलानां सदृशाः जलदानां समागमे।
तैरस्त्रशस्त्रग्रथितं क्षिप्तोत्क्षिप्तगदाविलम् ॥ १७७.३५
देवदानव सङ्क्षुब्धं सङ्कुलं युद्धमाबभौ।
तद्दानव महामेघं देवायुध विराजितम् ॥ १७७.३६
अन्योन्यबाणवर्षेण युद्धदुर्दिनमाबभौ।
एतस्मिन्नन्तरे क्रुद्धः कालनेमिः स दानवः ॥ १७७.३७
व्यवर्धत समुद्रौघैः पूर्यमाण इवाम्बुदः।
तस्य विद्युच्चलापीडैः प्रदीप्त शनिवर्षिणः ॥ १७७.३८
गात्रैर्नागगिरिप्रख्या विनिपेतुर्बलाहकाः
क्रोधान्निश्वसतस्तस्य भ्रूभेद स्वेदवर्षिणः ॥ १७७.३९
साग्निस्फुलिङ्गप्रतता मुखान्निष्पेतुरर्चिषः।
तिर्यगूर्ध्वञ्च गगने ववृधुस्तस्य बाहवः॥ १७७.४०
पर्वतादिव निष्क्रान्ताः पञ्चास्या इव पन्नगाः।
सोऽस्त्रजालैर्बहुविधैर्धनुभिः परिघैरपि ॥ १७७.४१
दिव्यमाकाशमावव्रे पर्वतैरुच्छ्रितैरिव।
सोऽनिलोद्धूतवसनस्तस्थौ सङ्ग्रामलालसः ॥ १७७.४२
सन्ध्या तपग्रस्तशिलः साक्षान्मेरुरिवाचलः।
ऊरुवेग प्रमथितैः शैलश्रृङ्गाग्र पादपैः ॥ १७७.४३
अपातयद् देवगणान् वज्रेणेव महागिरीन्।
बहुभिः शस्त्रनिस्त्रिंश्छिन्नभिन्न शिरोरुहाः ॥ १७७.४४
न शेकुश्चलितुं देवाः कालनेमिहता युधि।
मुष्टिभिर्निहताः केचित् केचित्तु विदलीकृताः ॥ १७७.४५
यक्षगन्धर्व पतयः पेतुः सह महोरगैः।
तेन वित्रासिता देवाः समरे कालनेमिना ॥ १७७.४६
न शेकुर्यत्नवन्तोऽपि यत्नं कर्तुं विचेतसः।
तेन शक्रः सहस्राक्षः स्पन्दितः शरबन्धनैः ॥ १७७.४७
ऐरावतगतः सङ्ख्ये चलितुं न शशाक ह।
निर्जलाम्भोद सदृशो निर्जलार्णव सप्रभः ॥ १७७.४८
निर्व्यापारः कृतस्तेन विपाशो वरुणो मृधे।
रणो वैश्रवणस्तेन परिघैः कामरूपिणा॥ १७७.४९
वित्तदोऽपि कृतः सङ्ख्ये निर्जितः कालनेमिना।
यमः सर्वहरस्तेन मृत्युप्रहरणे रणे ॥ १७७.५०
याम्यामवस्थां सन्त्यज्य भीतः स्वन्दिशमाविशत्।
स लोकपालानुत्सार्य कृत्वा तेषाञ्च कर्म्म तत् ॥ १७७.५१
दिक्षु सर्वासु देहं स्वं चतुर्धा विदधे तदा।
स नक्षत्र पथड्गत्वा दिव्यं स्वर्भानुदर्शनम् ॥ १७७.५२
जहार लक्ष्मीं सोमस्य तं चास्य विषयं महत्।
चालयामास दीप्ताशं स्वर्गद्वारात् स भास्करम् ॥ १७७.५३
सायनञ्चास्य विषयं जहार दिनकर्म्म च।
सोऽग्ने देवमुखं दृष्ट्वा चकारात्म मुखाश्रयम् ॥ १७७.५४
वायुञ्च तरसा जित्वा चकारात्म वशानुगम्।
स समुद्रान् समानीय सर्वाश्च सरितो बलात् ॥ १७७.५५
चकारात्ममुखे वीर्याद्देहभूताश्च सिन्धवः।
अपः स्ववशगाः कृत्वा दिविजा याश्च भूमिजाः ॥ १७७.५६
स स्वयम्भुवि वा भाति महाभूत पतिर्यथा।
सर्वलोकमयो दैत्यः सर्वभूत भयावहः ॥ १७७.५७
स लोकपालैकवपुश्चन्द्रादित्य ग्रहात्मवान्।
स्तापयामास जगतीं सुगुप्तां धरणीधरैः ॥ १७७.५८
पावकानिलसम्पातो रराज युधि दानवः।
पारमेष्ठ्ये स्थितः स्थाने लोकानां प्रभवोपमे ।
तं तुष्टुवुर्दैत्यगणा देवा इव पितामहम् ॥ १७७.५९