देवासुरसङ्ग्रामवर्णनम्।
मत्स्य उवाच।
ताभ्यां बलाभ्यां सञ्जज्ञे तुमुलो विग्रहस्तदा।
सुराणामसुराणाञ्च परस्पर जयैषिणाम् ॥ १७५.१ ॥
दानवा दैवतैः सार्द्धं नाना प्रहरणोद्यताः।
समीयुर्युध्यमाना वै पर्वता इव पर्वतैः ॥ १७५.२ ॥
तत् सुरासुरसंयुक्तं युद्धमत्यद्भुतं बभौ।
धर्माधर्मसमायुक्तं दर्पेण विनयेन च ॥ १७५.३ ॥
ततो रथैर्विप्रयुक्तैर्वारणैश्च प्रचोदितैः।
उत्पतद्भिश्च गगनमसिहस्तैः समन्ततः ॥ १७५.४ ॥
क्षिप्यमाणैश्च मुसलैः सम्पतद्भिश्च सायकैः।
चापैर्विस्फार्यमाणैश्च पात्यमानैश्च मुद्गरैः ॥ १७५.५ ॥
तद्युद्धमभवद् घोरं देवदानव सङ्कुलम्।
जगतस्त्रास जननं युगसंवर्तकोपमम् ॥ १७५.६ ॥
हस्तमुक्तैश्च परिघैर्विप्रयुक्तैश्च पर्वतैः।
दानवाः समरे जघ्नुर्देवानिन्द्र पुरोगमान् ॥ १७५.७ ॥
ते बध्यमाना बलिभिर्दानवैर्जयकाशिभिः।
विषण्णवदना देवा जग्मुरार्तिं परामृधे ॥ १७५.८ ॥
तेऽस्त्र शूल प्रमथिताः परिघैर्भिन्नमस्तकाः।
भिन्नोरस्का दितिसुतैर्वेमूरक्तं व्रणैर्बहु ॥ १७५.९ ॥
वेष्टिताः शरजालैश्च निर्यत्नाश्चासुरैः कृताः।
प्रविष्टा दानवीं मायान्न शेकुस्ते विचेष्टितुम् ॥ १७५.१० ॥
अस्तं गतमिवाभाति निष्प्राण सदृशाकृति।
बलं सुराणामसुरैर्निष्प्रयत्नायुधं कृतम् ॥ १७५.११ ॥
दैत्यचापच्युतान् घोरां श्छित्वा वज्रेण तांश्छरान्।
शक्रो दैत्यबलं घोरं विवेश बहुलोचनः ॥ १७५.१२ ॥
स दैत्यप्रमुखान् हत्वा तद्दानव बलं महत्।
तामसेनास्त्रजालेन तमो भूतमथाकरोत् ॥ १७५.१३ ॥
तेऽन्योन्यं नावबुध्यन्त देवानां वाहनानि च।
घोरेण तमसाविष्टाः पुरुहूतस्य तेजसा ॥ १७५.१४ ॥
मायापाशैर्विमुक्तास्तु यत्नवन्तः सुरोत्तमाः।
वपूंषि दैत्यसिंहानाम् तमोभूतान्यपातयन् ॥ १७५.१५ ॥
अपध्वस्ता विसञ्ज्ञाश्च तमसा नीलवर्चसा।
पेतुस्ते दानवगणाश्छिन्नपक्षा इवाद्रयः ॥ १७५.१६ ॥
तद्घनीभूतदैत्येन्द्रमन्धकार इवार्णवे।
दानवन्देवकदनन्तमोभूतमिवाभवत् ॥ १७५.१७ ॥
तदासृजन्महामायां मयस्तां तामसीन्दहन्।
युगान्तोद्योतजननीं सृष्टामौर्वेण वह्निना ॥ १७५.१८ ॥
सा ददाह ततः सर्वान् मायामयविकल्पिता।
दैत्याश्चादित्यवपुषः सद्य उत्तस्थुराहवे ॥ १७५.१९ ॥
मायामौर्वीं समासाद्य दह्यमाना दिवौकसः।
भेजिरे चेन्द्रविषयं शीतांशुं सलिलप्रदम् ॥ १७५.२० ॥
ते दह्यमाना ह्यौर्वेण वह्निना नष्टचेतसः।
शशंसुर्वज्रिणं देवाः सन्तप्ताः शरणैषिणः ॥ १७५.२१ ॥
सन्तप्ते मायया सैन्ये हन्यमाने च दानवैः।
चोदितो देवराजेन वरुणो वाक्यमब्रवीत् ॥ १७५.२२ ॥
और्वो ब्रह्मर्षिजः शक्र! तपस्तेपे सुदारुणम्।
और्वः स पूर्वतेजस्वी सदृशो ब्रह्मणो गुणैः ॥ १७५.२३ ॥
तं तपन्तमिवादित्यं तपसा जगदव्ययम्।
उपतस्थुर्मुनिगणा दिव्या देवर्षिभिः सहः ॥ १७५.२४ ॥
हिरण्यकशिपुञ्चैव दानवो दानवेश्वरः।
ऋषिं विज्ञापयामासुः पुरा परम तेजसम् ॥ १७५.२५ ॥
ऊचुर्ब्रह्मर्षयस्तं तु वचनं धर्मसंहितम्।
ऋषिवंशेषु भगवं श्छिन्नमूलमिदं पदम् ॥ १७५.२६ ॥
एकस्त्वमनपत्यश्च गोत्रायान्यो न वर्तते।
कौमारं व्रतमास्थाय क्लेशमेवानुवर्त्तसे॥ १७५.२७ ॥
बहूनि विप्र! गोत्राणि मुनीनां भावितात्मनाम्।
एकदेहानि तिष्ठन्ति विविक्तानि विना प्रजाः ॥ १७५.२८ ॥
एवमुच्छिन्नमूलैश्च पुत्रैर्नो नास्ति कारणम्
भवांस्तु तपसा श्रेष्ठो प्रजापतिसमद्युतिः ॥ १७५.२९ ॥
तत्र वर्तस्व वंशाय वर्द्धयात्मानमात्मना।
त्वया धर्मोऽर्जितस्तेन द्वितीयाङ्कुरु वै तनुम् ॥ १७५.३० ॥
स एवमुक्तो मुनिभिर्ह्यौर्वो मर्मसु ताडितः।
जगर्हे तान् ऋषिगणान् वचनं चेदमब्रवीत् ॥ १७५.३१ ॥
यथायं विहितो धर्मो मुनीनां शाश्वतस्तु सः।
आर्षं वै सेवतः कर्म वन्यमूल फलाशिनः ॥ १७५.३२ ॥
ब्रह्मयोनौ प्रसूतस्य ब्राह्मणस्यात्मदर्शिनः।
ब्रह्मचर्यं सुचरितं ब्रह्माणमपि चालयेत् ॥ १७५.३३ ॥
जनानां वृत्तयस्तिस्रो यद् गृहाश्रम वासिनाम्।
अस्माकन्तु वरं वृत्तिर्वनाश्रम निवासिनाम् ॥ १७५.३४ ॥
अब्भक्षा वायुभक्षाश्च दन्तोलूखलिनस्तथा।
अश्मकुट्टा दश तथा पञ्चातपसहाश्च ये ॥ १७५.३५ ॥
एते तपसि तिष्ठन्ति व्रतैरपि सुदुष्करैः।
ब्रह्मचर्यं पुरस्कृत्य प्रार्थयन्ति पराङ्गतिम् ॥ १७५.३६ ॥
ब्रह्मचर्याद् ब्राह्मणस्य ब्राह्मणत्वं विधीयते।
एवमाहुः परे लोके ब्रह्मचर्य विदो जनाः ॥ १७५.३७ ॥
ब्रह्मचर्ये स्थितं धैर्यं ब्रह्मचर्ये स्थितं तपः।
ये स्थिता ब्रह्मचर्येषु ब्राह्मणा दिवि संस्थिता ॥ १७५.३८ ॥
नास्ति योगं विना सिद्धिर्न वा सिद्धिं विना यशः।
नास्ति लोके यशो मूलं ब्रह्मचर्यात् परन्तपः ॥ १७५.३९ ॥
यो निगृह्येन्द्रियग्रामं भूतग्रामं च पञ्चकम्।
ब्रह्मचर्यं समाधत्ते किमतः परमं तपः ॥ १७५.४० ॥
अयोगे केशधरणमसङ्कल्प व्रतक्रिया।
अब्रह्मचर्ये चर्या च त्रयं स्याद् दम्भसञ्ज्ञकम् ॥ १७५.४१ ॥
क्व दाराः क्व च संयोगः क्व च भाव विपर्ययः।
नन्वियं ब्रह्मणा सृष्टा मनसा मानसी प्रजा ॥ १७५.४२ ॥
यद्यस्ति तपसो वीर्यं युष्माकं विदितात्मनाम्।
सृजध्वं मानसान् पुत्रान् प्राजापत्येन कर्मणा ॥ १७५.४३ ॥
मनसा निर्मिता योनिराधातव्या तपस्विभिः।
न दारयोगे बीजं वा व्रतमुक्तं तपस्विनाम् ॥ १७५.४४ ॥
यदिदं लुप्तधर्मार्थं युष्माभिरिह निर्भयैः।
व्याहृतं सद्भिरत्यर्थमसद्भिरिव मे मतम् ॥ १७५.४५ ॥
वपुर्दीप्तान्तरात्मानमेतत् कृत्वा मनोमयम्।
दारयोगं विना स्रक्ष्ये पुत्रमात्म तनूरुहम् ॥ १७५.४६ ॥
एवमात्मानमात्मा मे द्वितीयं जनयिष्यति।
वन्येनानेन विधिना दिधिक्षन्तमिव प्रजाः ॥ १७५.४७ ॥
और्वस्तु तपसाविष्टो निवेश्योरुं हुताशने।
ममन्थैकेन दर्भेण सुतस्य प्रभवारणिम् ॥ १७५.४८ ॥
तस्योरुं सहसा भित्वा ज्वालामाली ह्यनिन्धनः।
जगतो दहनाकाङ्क्षी पुत्रोऽग्निः समपद्यत ॥ १७५.४९ ॥
ऊर्वस्योरुं विनिर्भिद्य और्वो नामान्तकोऽनलः।
दिघक्षन्निव लोकांस्त्रीञ्जज्ञे परमकोपनः ॥ १७५.५० ॥
उत्पन्नमात्रश्चोवाच पितरं श्लक्ष्णया गिरा।
क्षुधामे बाधते तात! जगद् भक्ष्ये त्यजस्व माम् ॥ १७५.५१ ॥
त्रिदिवारोहिभिर्ज्वालैर्जृम्भमाणो दिशो दश।
निर्दयन् सर्वभूतानि ववृधे सोऽन्तकोऽनलः ॥ १७५.५२ ॥
एतस्मिन्नन्तरे ब्रह्मा मुनिपूर्वं सभाजयन्।
उवाच वार्यतां पुत्रो जगतश्च दयाङ्कुरु ॥ १७५.५३ ॥
अस्यापत्यस्य ते विप्र! करिष्ये स्थानमुत्तमम्।
तथ्यमेतद्वचः पुत्र! श्रुणु त्वं वदताम्वरः ॥ १७५.५४ ॥
ऊर्व उवाच।
धन्योऽस्म्यनुगृहीतोऽस्मि यन्मेऽद्य भगवाञ्च्छिशोः।
मतिमेतां ददातीह परमानुग्रहाय वै ॥ १७५.५५ ॥
प्रभातकाले सम्प्राप्ते काङ्क्षितव्ये समागमे।
भगवन्! तर्पितः पुत्रः कैर्हव्यैः प्राप्स्यते सुखम् ॥ १७५.५६ ॥
कुत्र चास्य निवासः स्याद् भोजनं वा किमात्मकम्।
विधास्यतीह भगवान् वीर्य तुल्यं महौजसः ॥ १७५.५७ ॥
ब्रह्मोवाच।
वडवामुखेऽस्य वसतिः समुद्रे वै भविष्यति।
मम योनिर्जलं विप्र!तस्य पीतवतः सुखम् ॥ १७५.५८ ॥
यत्राहमास नियतं पिबन् वारिमयं हविः।
तद्धविस्तव पुत्रस्य विसृजाम्यालयञ्च तत् ॥ १७५.५९ ॥
ततो युगान्ते भूतानामेष चाहञ्च पुत्रक!।
सहितौ विचरिष्यावो निष्पुत्राणामृणापहः॥ १७५.६० ॥
एषोऽग्निरन्तकाले तु सलिलाशी मया कृतः।
दहनः सर्वभूतानां सदेवासुर रक्षसाम् ॥ १७५.६१ ॥
एवमस्त्वितितं सोऽग्निः संवृतज्वाल मण्डलः।
प्रविवेशार्णवमुखं प्रक्षिप्य पितरि प्रभाम् ॥ १७५.६२ ॥
प्रतियातस्ततो ब्रह्मा ये च सर्वे महर्षयः।
ऊर्वस्याग्ने प्रभां ज्ञात्वा स्वां स्वाङ्गतिमुपाश्रिताः ॥ १७५.६३ ॥
हिरण्यकशिपुर्दृष्ट्वा तदा तन्महदद्भुतम्।
ऊच्चैः प्रणतसर्वाङ्गो वाक्यमेतदुवाच ह ॥ १७५.६४ ॥
भगवन्नद्भुतमिदं संवृत्तं लोकसाक्षिकम्।
तपसा ते मुनिश्रेष्ठ! परितुष्टः पितामहः ॥ १७५.६५ ॥
अहन्तु तव पुत्रस्य तव चैव महाव्रत!।
भृत्य इत्यवगन्तव्यः साध्यो यदिह कर्मणा ॥ १७५.६६ ॥
तन्मां पश्य समापन्नं तवैवाराधने रतम्।
यदि सीदे मुनिश्रेष्ठ! तवैव स्यात् पराजयः ॥ १७५.६७ ॥
ऊर्व उवाच।
धन्योऽस्म्यनुगृहीतोऽस्मि यस्यतेऽहं गुरुःस्थितः।
नास्ति मे तपसानेन भयमद्येह सुव्रत! ॥ १७५.६८ ॥
तामेव मायां गृह्णीष्व मम पुत्रेण निर्मिताम्।
निरिन्धनामग्निमयीन्दुर्धर्षां पावकैरपि ॥ १७५.६९ ॥
एषा ते स्वस्य वंशस्य वशगारि विनिग्रहे।
संरक्षत्यात्मपक्षञ्च विपक्षञ्च प्रधर्षति ॥ १७५.७० ॥
एवमस्त्विति तां प्रणम्य मुनिपुङ्गवम्।
जगाम त्रिदिवं हृष्टः कृतार्थो दानवेश्वरः ॥ १७५.७१ ॥
एषा दुर्विषहा माया देवैरपि दुरासदा।
और्वेण निर्मिता पूर्वं पावकेनोर्व सूनुना ॥ १७५.७२ ॥
तस्मिंस्तु व्युत्थिते दैत्ये निर्वीर्यैषा न संशयः।
शापोह्यस्याः पुरा दत्तो सृष्टा येनैव तेजसा ॥ १७५.७३ ॥
यद्येषा प्रतिहन्तव्या कर्त्तव्यो भगवान् सुखी।
दीयतां मे सखा शक्र! तोय योनिर्निशाकरः ॥ १७५.७४ ॥