विष्णोः प्रादुर्भाव वर्णनम्।
मत्स्य उवाच।
विष्णुत्वं श्रृणु विष्णोश्च हरित्वञ्च कृते युगे।
वैकुण्ठत्वञ्च देवेषु कृष्णत्वं मानुषेषु च ॥ १७२.१ ॥
ईश्वरस्य हितस्यैषा कर्म्मणां गहनागतिः।
सम्प्रत्यतीतान् भव्यांश्च श्रृणु राजन्! यथातथम् ॥ १७२.२ ॥
अव्यक्तो व्यक्तलिङ्गस्थो य एष भगवान् प्रभुः।
नारायणोह्यनन्तात्मा प्रभवोऽव्यय एव च ॥ १७२.३ ॥
एष नारायणो भूत्वा हरिरासीत् सनातनः।
ब्रह्मा वायुश्च सोमश्च धर्म्मः शक्रो बृहस्पतिः ॥ १७२.४ ॥
अदितेरपि पुत्रत्वं समेत्य रविनन्दन!।
एष विष्णुरितिख्यात इन्द्रस्यावरजो विभुः ॥ १७२.५ ॥
प्रसादजं ह्यस्य विभोरदित्याः पुत्रकारणम्।
वधार्थं सुरशत्रूणां दैत्यदानवरक्षसाम् ॥ १७२.६ ॥
प्रधानात्मा पुरा ह्येष ब्रह्माणमसृजत् प्रभुः।
सोऽसृजत् पूर्वपुरुषः पुराकल्पे प्रजापतीन् ॥ १७२.७ ॥
असृजन्मानवांस्तत्र ब्रह्मवंशाननुत्तमान्।
तेभ्योऽभवन्महात्मभ्यो बहुधा ब्रह्म शाश्वतम् ॥ १७२.८ ॥
एतदाश्चर्यभूतस्य विष्णोः कर्मानुकीर्तनम्।
कीर्तनीयस्य लोकेषु कीर्त्यमानं निबोध मे ॥ १७२.९ ॥
वृत्ते वृत्रवधे तत्र वर्तमाने कृते युगे।
आसीत्त्रैलोक्य विख्यातः सङ्ग्रामस्तारकामयः ॥ १७२.१० ॥
यत्र ते दानवा घोराः सर्वे सङ्ग्रामदुर्जयाः।
घ्नन्तिदेवगणान् सर्वान् सयक्षोरगराक्षसान् ॥ १७२.११ ॥
ते वध्यमाना विमुखाः क्षीणप्रहरणा रणे।
त्रातारं मनसा जग्मुर्देवं नारायणं प्रभुः ॥ १७२.१२ ॥
एतस्मिन्नन्तरे मेघा निर्वाणाङ्गारवर्चसः।
सार्कचन्द्रग्रहगणं छादयन्तोः नभस्तलम् ॥ १७२.१३ ॥
वेणुर्विद्युद् गणोपेता घोरनिह्राद कारिणः।
अन्योन्य- वेगाम्भिहताः प्रववुः सप्त मारुताः ॥ १७२.१४ ॥
दीप्त तोयाशनिघनैर्वज्रवेगानलानिलैः।
रवैः सुघोरैरुत्पातैर्दह्यमानमिवाम्बरम् ॥ १७२.१५ ॥
तत उल्कासहस्राणि निपेतुः खगतान्यपि।
दिव्यानि च विमानानि प्रपतन्त्युत्पतन्ति च ॥ १७२.१६ ॥
चतुर्युगान्ते पर्याये लोकानां यद्भयं भवेत्।
अरूपवन्ति रूपाणि तस्मिन्नुत्पात लक्षणे ॥ १७२.१७ ॥
जातञ्च निष्प्रभं सर्वं न प्राज्ञायत किञ्चन।
तिमिरौघपरिक्षिप्ता न रेजुश्च दिशो दश ॥ १७२.१८ ॥
विवेश रूपिणी काली कालमेघावगुण्ठिता।
द्यौर्न भात्यभिभूतार्का घोरेण तमसा वृता ॥ १७२.१९ ॥
तान् घनौघान् सतिमिरान् दोर्भ्यामाक्षिप्य स प्रभुः।
वपुः सर्वं दर्शयामास दिव्यं कृष्णवपुर्हरिः ॥ १७२.२० ॥
बलाहकाञ्जनमिमं बलाहकतनूरुहम्।
तेजसा वपुषा चैव कृष्णं कृष्णमिवाचलम् ॥ १७२.२१ ॥
दीप्ता पीताम्बरधरं तप्तकाञ्चन भूषणम्।
धूमान्धकारवपुषं युगान्ताग्निमिवोत्थितम् ॥ १७२.२२ ॥
चतुर्द्विगुणपीनांसं किरीटच्छन्नमूर्द्धजम्।
बभौ चामीरप्रख्यै रायुधैरुपशोभितम् ॥ १७२.२३ ॥
चन्द्रार्क किरणोद्योतं गिरिकूटमिवोच्छ्रितम्।
नन्दकानन्दितकरं शराशी विष धारिणम्॥ १७२.२४ ॥
शक्तिचित्रफलोदग्र शङ्ख चक्र गदाधरम्।
विष्णुशैलं क्षमामूलं श्रीवृक्षं शार्ङ्गधन्विनम् ॥ १७२.२५ ॥
त्रिदशोदारफलदं स्वर्गस्त्रीचारुपल्लवम्।
सर्वलोकमनः कान्तं सर्वसत्वमनोहरम् ॥ १७२.२६ ॥
नानाविमानविटपन्तोयदाम्बु मधुस्रवम्।
विद्याहङ्कारसाराद्यं महाभूत प्ररोहणम् ॥ १७२.२७ ॥
विशेषपत्रैर्निचितं ग्रहनक्षत्र पुष्पितम्।
दैत्यलोकमहास्कन्धं मर्त्यलोके प्रकाशितम् ॥ १७२.२८ ॥
सागराकारनिर्हादं रसातल महाश्रयम्।
मृगेन्द्रपाशैर्विततं पक्षजन्तु निषेवितम् ॥ १७२.२९ ॥
शीलार्थ चारु गन्धाढ्यं सर्वलोकमहाद्रुमम्।
अव्यक्तानन्तसलिलं व्यक्ताहङ्कारफेनिलम् ॥ १७२.३० ॥
महाभूततरङ्गौघं ग्रहनक्षत्र बुद्बुदम्।
विमानगरुतव्याप्तं तोयदाडम्बरा कुलम् ॥ १७२.३१ ॥
जन्तुमत्सजनाकीर्णं शैल शङ्ख कुलैर्युतम्।
त्रैगुण्यविषयावर्तं सर्वलोक तिमिङ्गिलम् ॥ १७२.३२ ॥
वीरवृक्षलतागुल्मं भुजगोत्कृष्ट शैवलम्।
द्वादशार्कमहाद्वीपं रुद्रैकादश पत्तनम् ॥ १७२.३३ ॥
वस्वष्ट पर्वतोपेतं त्रैलोक्याम्भो महोदधिम्।
सन्ध्या सङ्ख्योर्मि सलिलं सुपर्णानिल सेवितम् ॥ १७२.३४ ॥
दैत्यरक्षोगणग्राहं यक्षोरग झषाकुलम्।
पितामहमहावीर्य्यं सर्वस्त्री रत्नशोभितम् ॥ १७२.३५ ॥
श्रीर्कीर्तिकान्तिलक्ष्मीभिर्नदीभिरुपशोभितम्।
कालयोगि महापर्व प्रलयोत्पत्ति वेगिनम् ॥ १७२.३६ ॥
तन्तु योगमहापारं नारायणमहार्णवम्।
देवाधिदेवं वरदं भक्तानां भक्ति वत्सलम् ॥ १७२.३७ ॥
अनुग्रहकरं देवं प्रशान्तिकरणं शुभम्।
हर्यश्वरथसंयुक्ते सुपर्णध्वजसेविते ॥ १७२.३८ ॥
ग्रहचन्द्रार्करचिते मन्दराक्ष-वरावृते।
अनन्तरश्मिभिर्युक्ते विस्तीर्णे मेरुगह्वरे ॥ १७२.३९ ॥
तारकाचित्रकुसुमे ग्रहनक्षत्रबन्धुरे।
भयेष्वभयदं व्योम्नि देवा दैत्यपराजिताः ॥ १७२.४० ॥
ददृशुस्तेस्थितं देवं दिव्ये लोकमये रथे।
ते कृताञ्जलयः सर्वे देवाः शक्रपुरोगमाः ॥ १७२.४१ ॥
जयशब्दं पुरस्कृत्य शरण्यं शरणङ्गताः।
स तेषां ताङ्गिरं श्रुत्वा विष्णुर्दैवत दैवतम् ॥ १७२.४२ ॥
मनश्चक्रे विनाशाय दानवानां महामृधे।
आकाशे तु स्थितो विष्णुरुत्तमं वपुरास्थितः ॥ १७२.४३ ॥
उवाच देवताः सर्वाः सप्रतिज्ञमिदं वचः।
शान्तिं व्रजत भद्रं वो मा भैष्ट मरुताङ्गणाः ॥ १७२.४४ ॥
जिता मे दानवाः सर्वे त्रैलोक्यं परिगृह्यताम्।
ते तस्य सत्यसन्धस्य विष्णोर्वाक्येन तोषिताः ॥ १७२.४५ ॥
देवाः प्रीतिं समाजग्मुः प्राश्यामृतमनुत्तमम्।
ततस्तमः संहृतं तद्विनेशुश्च बलाहकाः ॥ १७२.४६ ॥
प्रववुश्च शिवा वाताः प्रशान्ताश्च दिशो दश।
शुद्धप्रभाणि ज्योतींषि सोमञ्चक्रुः प्रदक्षिणम् ॥ १७२.४७ ॥
न विग्रहं ग्रहाश्चक्रुः प्रशान्ताश्चापि सिन्धवः।
विरजस्का भवन्मार्गा नाकवर्गादयस्त्रयः ॥ १७२.४८ ॥
यथार्थमूहुः सरितो नापि चुक्षुभिरेऽर्णवाः।
आसंश्छुभानीन्द्रियाणि नराणामन्तरात्मसु ॥ १७२.४९ ॥
महर्षयो वीतशोका वेदानुच्चैरधीयत।
यज्ञेषु च हविः पाकं शिवमाप च पावकः ॥ १७२.५० ॥
प्रवृत्तधर्माः संवृत्ता लोका मुदितमानसाः।
विष्णोर्दत्तप्रतिज्ञस्य श्रुत्वारि-निधने गिरम् ॥ १७२.५१ ॥