१६६

प्रलयकालवर्णनम्।

मत्स्य उवाच।
भूत्वा नारायणो योगी सत्वमूर्तिर्विभावसुः!
गभस्तिभिः प्रदीप्ताभिः संशोषयति सागरान् ॥ १६६.१

ततः पीत्वार्णवान् सर्वान् नदीः कूपांश्च सर्वशः।
पर्वतानाञ्च सलिलं सर्वमादायरश्मिभिः ॥ १६६.२

भित्वा गभस्तिभिश्चैव महीङ्गत्वा रसातलात्।
पातालजलमादाय पिबन्नु रसमुत्तमम् ॥ १६६.३

मूत्रा सृक्क्लेदमन्यञ्च यदस्ति प्राणिषु ध्रुवम्।
तत् सर्वमरविन्दाक्षमादत्ते पुरुषोत्तमः ॥ १६६.४

वायुश्च भगवान् भूत्वा विधुन्वानोऽखिलं जगत्।
प्राणापानसमानाद्यात् वायूनाकर्षते हरिः ॥ १६६.५

ततो देवगणाः सर्वे भूतान्येव च यानि तु।
गन्धोघ्राणं शरीरञ्च पृथिवीं संश्रिताः गुणाः। ॥ १६६.६

जिह्वा रसश्च स्नेहश्च संश्रिताः सलिले गुणाः।
रूपं चक्षुर्विपाकञ्च ज्योतिरेवाश्रिताः गुणाः ॥ १६६.७

स्पर्शः प्राणश्च चेष्टा च पवने संश्रिताः गुणाः।
शब्दः श्रोत्रञ्च खान्येव गगने संश्रिताः गुणाः ॥ १६६.८

लोकमाया भगवता मुहूर्त्तेन विनाशिता।
मनो बुद्धिश्च सर्वेषां क्षेत्रज्ञश्चेति यः श्रुतः ॥ १६६.९

तं वरेण्यं परमेष्ठि हृषीकेशमुपाश्रिताः।
ततो भगवतस्तस्य रश्मिभिः परिवारितः ॥ १६६.१०

वायुनाक्रम्यमाणासु द्रुमशाखासु चाश्रिताः।
तेषां सङ्घर्षणोद्भूतः पावकः शतधा ज्वलन् ॥ १६६.११

अदहच्च तदा सर्वं वृतः सम्वर्तकोऽनलः।
सपर्वतद्रुमान् गुल्मान् लतावल्लीस्तृणानि च ॥ १६६.१२

विमानानि च दिव्यानि पुराणि विविधानि च।
यानि चाश्रयणीयानि तानि सर्वाणि सोऽदहत् ॥ १६६.१३

भस्मीकृत्वा ततः सर्वान् लोकान् लोकगुरुर्हरिः।
भूयो निर्वापयामास युगान्तेन च कर्मणा ॥ १६६.१४

सहस्रवृष्टिः शतधा भूत्वा कृष्णो महाबलः।
दिव्यतोयेन हविषा तर्पयामास मेदिनीम् ॥ १६६.१५

ततः क्षीरनिकायेन स्वादुना परमाम्भसा।
शिवेन पुण्येन महीं निर्वाणमगमत् परम् ॥ १६६.१६

तेन रोधेन सञ्च्छन्ना पयसां वर्षतो धरा।
एकार्णवजलीभूता सर्व सत्वविवर्जिता ॥ १६६.१७

महासत्वान्यपि विभुं प्रष्टान्यमितौजसम्।
नष्टार्कपवनाकाशे सूक्ष्मे जगति संवृते ॥ १६६.१८

संशोषमात्मना कृत्वा समुद्रानपि देहिनः।
दग्ध्वा सम्प्लाव्य च तथा स्वपित्येकः सनातनः ॥ १६६.१९

पौराणां रूपमास्थाय स्वपित्यमितविक्रमः।
एकार्णव जलव्यापी योगी योगमुपाश्रितः ॥ १६६.२०

अनेकानि सहस्राणि युगान्येकार्णवाम्भसि।
न चैनं कश्चिदव्यक्तं व्यक्तं वेदितुमर्हति ॥ १६६.२१

कश्चैव पुरुषो नाम किं योगः कश्च योगवान्।
असौ कियन्तं कालञ्च एकार्णव विधिं प्रभुः ॥ १६६.२२

करिष्यतीति भगवानिति कश्चिन्न बुध्यते।
न द्रष्टा नैव गमिता न ज्ञाता नैव पार्श्वगः ॥ १६६.२३

तस्य न ज्ञायते किञ्चित्तमृते देवसत्तमम्।
नमः क्षितिः पवनमपः प्रकाशं प्रजापतिं भुवनधरं सुरेश्वरम्।
पितामहं श्रुतिनिलयमहामुनिं प्रशाम्य भूयः शयनं ह्यरोचयम् ॥ १६६.२४