चतुर्युगगतिवर्णनम्।
मत्स्य उवाच।
चत्वार्याहुः सहस्राणि वर्षाणान्तु कृतं युगम्।
तस्य तावच्छती सन्ध्या द्विगुणा रविनन्दन! ॥ १६५.१
यत्र धर्मश्चतुष्पाद स्त्वधर्मः पादविग्रहः।
स्वधर्मनिरताः सन्तो जायन्ते यत्र मानवाः ॥ १६५.२
विप्राः स्थिता धर्मपरा राजवृत्तौ स्थिता नॄपाः।
कृष्यामभिरता वैश्याः शूद्राः शुश्रूषवः स्थिताः ॥ १६५.३
तदा सत्यञ्च शौचञ्च धर्मश्चैव विवर्धते।
सद्भिराचरितं कर्म क्रियते ख्यायते च वै ॥ १६५.४
एतत् कार्त्तयुगं वृत्तं सर्वेषामपि पार्थिव!।
प्राणिनां धर्मसङ्गानामपि वै नीचजन्मनाम् ॥ १६५.५
त्रीणि वर्षसहस्राणि त्रेतायुगमिहोच्यते।
तस्य तावच्छती सन्ध्या द्विगुणा परिकीर्त्यते ॥ १६५.६
द्वाभ्यामधर्मः पादाभ्यां त्रिभिर्धर्मो व्यवस्थितः।
यत्र सत्यञ्च सत्वञ्च त्रेताधर्मो विधीयते ॥ १६५.७
त्रेतायां विकृतिं यान्ति वर्णास्त्वेतेन संशयः।
चतुर्वर्णस्य वैकृत्यात् यान्ति दौर्बल्यमाश्रमाः ॥ १६५.८
एषा त्रेतायुगगतिः विचित्रा देवनिर्मिता।
द्वापरस्य तु या चेष्टा तामपि श्रोतुमर्हसि ॥ १६५.९
द्वापरन्द्वे सहस्रे तु वर्षाणां रविनन्दन!।
तस्य तावच्छती सन्ध्या द्विगुणा युगमुच्यते ॥ १६५.१०
तत्र चार्थपराः सर्वे प्राणिनो रजसा हताः।
सर्वे नैष्कृतिकाः क्षुद्रा जायन्ते रविनन्दन! ॥ १६५.११
द्वाभ्यां धर्मः स्थितः पद्भ्यामधर्मस्त्रिभिरुत्थितः।
विपर्ययाच्छनैर्धर्मः क्षयमेति कलौ युगे ॥ १६५.१२
ब्राह्मण्य भावस्य ततो तथौत्सुक्यं व्यशीर्यते।
व्रतोपवासास्त्यज्यन्ते द्वापरे युगपर्यये॥ १६५.१३
तथा वर्षसहस्रन्तु वर्षाणां द्वेशते अपि।
सन्ध्यया सह सङ्ख्यातं क्रूरं कलियुगं स्मृतम्॥ १६५.१४
यत्राधर्मश्चतुष्पादः स्याद् धर्मः पादविग्रहः।
कामिनस्तपसाच्छन्ना जायन्ते तत्र मानवाः ॥ १६५.१५
नैवातिसात्त्विकः कश्चिन्न साधुर्न च सत्यवाक्।
नास्तिका ब्रह्मभक्ता वा जायन्ते तत्र मानवाः ॥ १६५.१६
अहङ्कारगृहीताश्च प्रक्षीणस्नेहबन्धनाः।
विप्राः शूद्रसमाचाराः सन्ति सर्वे कलौ युगे ॥ १६५.१७
आश्रमाणां विपर्यासः कलौ सम्परिवर्तते।
वर्णानाञ्चैव सन्देहो युगान्ते रविनन्दन!॥ १६५.१८
विद्याद् द्वादशसाहस्रीं युगाख्यां पूर्वनिर्मिताम्।
एवं सहस्रपर्यन्तं तदहो ब्राह्ममुच्यते ॥ १६५.१९
ततोऽहनि गते तस्मिन् सर्वेषामेव जीविनाम्।
शरीरनिर्वृतिं दृष्ट्वा लोकसंहार बुद्धितः ॥ १६५.२०
देवतानाञ्च सर्वासां ब्रह्मादीनां महीपते!।
दैत्यानां दानवानाञ्च यक्षराक्षसपक्षिणाम्॥ १६५.२१
गन्धर्वाणामप्सरसां भुजङ्गानाञ्च पार्थिव!।
पर्वतानां नदीनाञ्च पशूनाञ्चैव सत्तम!॥ १६५.२२
तिर्यग्योनिगतानाञ्च सत्वानां कृमिणान्तथा।
महाभूतपतिः पञ्च हृत्वा भूतानि भूतकृत् ॥ १६५.२३
जगत्संहरणार्थाय कुरुते वैशसं महत्।
भूत्वा सूर्यश्चक्षुषी चाददानो भूत्वा वायुः प्राणिनां प्राणजालम्।
भूत्वा वह्निर्निर्दहन् सर्व लोकान् भूत्वा मेघो भूय उग्रोऽप्यवर्षत् ॥ १६५.२४