१६३

अन्यदानवैः सह नरसिंहयुद्धम्।

सूत उवाच।
खराः खरमुखाश्चैव मकराशी विषाननाः।
ईहामृगमुखाश्चान्ये वराह मुखसंस्थिताः ॥ १६३.१

बालसूर्यमुखाश्चान्ये धूमकेतु मुखास्तथा।
अर्द्धचन्द्रार्धवक्त्राश्च अग्नि दीप्त मुखास्तथा ॥ १६३.२

हंसकुक्कुटवक्त्राश्च व्यादितास्या भयावहाः।
सिंहास्या लेलिहानाश्च काकगृध्र मुखास्तथा ॥ १६३.३

द्विजिह्वका वक्त्रशीर्षास्तथोल्का मुखसंस्थिताः।
महाग्राहमुकाश्चान्ये दानवा बलदर्पिताः ॥ १६३.४

शैलसंवर्ष्मणस्तस्य शरीरे शरवृष्टिभिः।
अबध्यस्य मृगेन्द्रस्य न व्यथाञ्चक्रुराहवे ॥ १६३.५

एवं भूयोऽपरान् घोरानसृजन् दानवेश्वराः।
मृगेन्द्रस्योपरि क्रुद्धा निश्वसन्त इवोरगाः ॥ १६३.६

ते दानवशरा घोरा दानवेन्द्रसमीरिताः।
विलयं जग्मुराकाशे खद्योता इव पर्वते ॥ १६३.७

ततश्चक्राणि दिव्यानि दैत्याः क्रोधसमन्विताः।
मृगेन्द्रायासृजन्नाशु ज्वलितानि समन्ततः ॥ १६३.८

तैरासीद्गगनं चक्रैः सम्पतद्भिरितस्ततः।
युगान्ते सम्प्रकाशद्भिश्चन्द्रादित्य ग्रहैरिव ॥ १६३.९

तानि सर्वाणि चक्राणि मृगेन्द्रेण शमात्मना।
ग्रस्तान्युदीर्णानि तदा पावकार्चिः समानि वै ॥ १६३.१0

तानि चक्राणि वदनं विशमानानि भान्ति वै।
मेघोदरदरीष्वेव चन्द्रसूर्यग्रहा इव ॥ १६३.११

हिरण्यकशिपुर्दैत्यो भूयः प्रासृजदूर्जितम्।
शक्तिं प्रज्वलितां घोरां धौतशस्त्रतडित्प्रभाम् ॥ १६३.१२

तामापतन्ती सम्प्रेक्ष्य मृगेन्द्रः शक्तिमुज्वलाम्।
हुङ्कारेणैव रौद्रेण बभञ्ज भगवांस्तदा ॥ १६१३

रराज भग्ना सा शक्तिर्मृगेन्द्रेण महीतले।
स विस्फुलिङ्गा ज्वलिता महोल्केव दिवश्च्युता ॥ १६१४

नाराचपङ्क्तिः सिंहस्य प्राप्ता रेजे विदूरतः।
नीलोत्पलपलाशानां मालेवोज्ज्वल दर्शना ॥ १६३.१५

स गर्जित्वा यथान्यायं विक्रम्य च यथासुखम्।
तत्सैन्यमपसारितवान् तृणाग्राणीव मारुतः ॥ १६८.१६

ततोऽश्मवर्षं दैत्येन्द्रा व्यसृजन्त नभोगताः।
नगमात्रैः शिलाखण्डै र्गिरिशृङ्गैर्महाप्रभैः। ॥ १६८.१७

तदश्मवर्षं सिंहस्य महन्मूर्द्धनि पातितम्।
दिशो दश विकीर्णा वै खद्योतप्रकरा इव ॥ १६८.१८

तदाश्मौघैर्दैत्यगणाः पुनः सिंहमरिन्दमम्।
छायायां चक्रिरे मेघा धाराभिरिव पर्वतम् ॥ १६८.१९

न च तं चालयामासुः दैत्यौघा देवसत्तमम्।
भीमवेगोऽचलश्रेष्टं समुद्र इव मन्दरम् ॥ १६८.२0

ततोऽश्मवर्षे विहिते जलवर्षमनन्तरम्।
धाराभिरक्षमात्राभिः प्रादुरासीत् समन्ततः ॥ १६८.२१

नभसः प्रच्युताधाराः तिग्मवेगाः समन्ततः।
आवृत्य सर्वतो व्योम दिशश्चोपदिशस्तथा ॥ १६८.२२

धारा दिवि च सर्वत्र वसुधायाञ्च सर्वशः।
न स्पृशन्ति च ता देवं निपतन्तोऽनिशं भुवि ॥ १६८.२३

बाह्यतो ववृषुर्वर्षं नोपरिष्टाच्च ववृषुः।
मृगेन्द्र प्रतिरूपस्य स्थितस्य युधि मायया ॥ १६३.२४

हतेऽश्मवर्षे तुमुले जलवर्षे च शोषिते।
सोऽसृजद्दानवो मायामग्निवायुसमीरिताम् ॥ १६३.२५

महेन्द्रस्तोयदैः सार्द्धं सहस्राक्षो महाद्युतिः।
महता तोयवर्षेण शमयामास पावकम्॥ १६३.२६

तस्यां प्रतिहतायां तु मायायां युधि दानवः।
असृजत् घोरसङ्काशं तमस्तीव्रं समन्ततः ॥ १६३.२७

तमसा संवृते लोके दैत्येष्वात्तायुधेषु च।
स्वतेजसा परिवृतो दिवाकर इवा बभौ ॥ १६३.२८

त्रिशाखां भ्रुकुटीञ्चास्य ददृशुर्दानवा रणे।
ललाटस्थां त्रिशूलाङ्कां गङ्गां त्रिपथगामिव ॥ १६३.२९

ततः सर्वासु मायासु हतासु दितिनन्दनाः।
हिरण्यकशिपुं दैत्यं विवर्णाः शरणं ययुः। ॥ १६३.३0

ततः प्रज्वलितः क्रोधात् प्रदहन्निव तेजसा।
तस्मिन् क्रुद्धे तु दैत्येन्द्रे तमो भूतमभूज्जगत् ॥ १६३.३१

आवहः प्रवहश्चैव विवहोऽथ ह्युदावहः।
परावहः संवहश्च महाबलपराक्रमाः ॥ १६३.३२

तथा परिवहः श्रीमानुत्पातभयशंसनाः।
इत्येवं क्षुभिताः सप्त मरुतो गगनेचराः ॥ १६३.३३

ये ग्रहाः सर्वलोकस्य क्षये प्रादुर्भवन्ति वै।
ते सर्वे गगने दृष्टा व्यचरन्त यथासुखम् ॥ १६३.३४
अन्यङ्गते चाप्यचरन् मार्गं निशि निशाचरः।
सङ्ग्रहः सहनक्षत्रैराकापतिररिन्दमः ॥ १६३.३५

विवर्णताञ्च भगवान् गतो दिवि दिवाकरः।
कृष्णं कबन्धं च तथा लक्ष्यते सुमहद्दिवि ॥ १६३.३६

अमुञ्चच्चार्चिषां वृन्दं भूमिवृत्ति र्विभावसुः।
गगनस्थश्च भगवानभीक्ष्णं परिदृश्यते ॥ १६३.३७

सप्त धूम्रनिभा घोराः सूर्य्या दिवि समुत्थिताः।
सोमस्य गगनस्थस्य ग्रहास्तिष्ठन्ति शृङ्गगाः ॥ १६३.३८

वामेन दक्षिणे चैव स्थितौ शुक्रबृहस्पती।
शनैश्चरो लोहिताङ्गो ज्वलनाङ्ग-समुद्यती ॥ १६३.३९

समं समधिरोहन्तः सर्वे ते गगनेचराः।
शृङ्गाणि शनकैर्घोरा युगान्तावर्तिनो ग्रहाः ॥ १६३.४0

चन्द्रमाश्च सनक्षत्रैर्ग्रहैः सह तमोनुदः।
चराचरविनाशाय रोहिणीं नाभ्यनन्दत ॥ १६३.४१

गृह्यते राहुणा चन्द्र उल्काभिरभिहन्यते।
उल्काः प्रज्वलिताश्चन्द्रे विचरन्ति यथासुखम् ॥ १६३.४२

देवानामपि यो देवः सोऽप्यवर्षत शोणितम्।
अपतन् गगनादुल्का विद्युद्रूपा महास्वनाः ॥ १६३.४३

अकाले च द्रुमाः सर्वे पुष्पन्ति च फलन्ति च।
लताश्च सफलाः सर्वा ये चाहुर्दैत्यनाशनम् ॥ १६३.४४

फलैः फलान्यजायन्त पुष्पैः पुष्पं तथैव च।
उन्मीलन्ति निमीलन्ति हसन्ति च रुदन्ति च ॥ १६३.४५

विक्रोशन्ति च गम्भीरा धूमयन्ति ज्वलन्ति च।
प्रतिमाः सर्वदेवानां वेदयन्ति महद्भयम् ॥ १६३.४६

आरण्यैः सह संसृष्ट ग्राम्याश्च मृगपक्षिणः।
चक्रुः सुभैरवं तत्र महायुद्धमुपस्थितम्॥ १६३.४७

तद्यश्च प्रतिकूलानि वहन्ति कलुषोदकाः।
न प्रकाशन्ति च दिशो रक्तरेणुसमाकुलाः ॥ १६३.४८

वानस्पत्यो न पूज्यन्ते पूजनार्हाः कथञ्चन।
वायुवेगेन हन्यन्ते भज्यन्ते प्रणमन्ति च ॥ १६३.४९

यदा च सर्वभूतानां छाया न परिवर्तते।
अपराह्णगते सूर्ये लोकानां युगसङ्क्षये ॥ १६३.५0

तदा हिरण्यकशिपो र्दैत्यस्योपरि वेश्मनः।
भाण्डागारे युधागारे निविष्टमभवन्मधु ॥ १६३.५१

असुराणां विनाशाय सुराणां विजयाय च।
दृश्यन्ते विविधोत्पाता घोरा घोरनिदर्शनाः ॥ १६३.५२

एते चान्ये च बहवो गोरोत्पाताः समुत्थिताः।
दैत्येन्द्रस्य विनाशाय दृश्यन्ते कालनिर्मिताः ॥ १६३.५३

मेदिन्यां कम्पमानायां दैत्येन्द्रेण महात्मना।
महीधरा नागगणा निपेतुरमितौजसः॥ १६३.५४

विषज्वालाकुलैर्वक्त्रैर्विमुञ्चन्तो हुताशनम्।
चतुःशीर्षाः पञ्चशीर्षाः सप्तशीर्षाश्च पन्नगाः ॥ १६३.५५

वासुकिस्तक्षकश्चैव कर्कोटक धनञ्जयौ।
एलामुखः कालिकश्च महापद्मश्च वीर्यवान्॥ १६३.५६

सहस्रशीर्षा नागोवै हेमतालध्वजः प्रभुः।
शेषोऽनन्तोमहाभागो दुष्प्रकम्प्यः प्रकम्पितः ॥ १६४.५७

दीप्तान्यन्तर्जलस्थानि पृथिवी धरणानि च।
तदा क्रुद्धेन महता कम्पितानि समन्ततः ॥ १६४.५८

नागास्तेजोधराश्चापि पातालतलचारिणः।
हिरण्यकशिपुर्दैत्यस्तदा संस्पृष्टवान् महीम् ॥ १६४.५९

सन्दष्टौष्टपुटः क्रोधाद्वाराह इव पूर्वजः।
नदी भागीरथी चैव सरयूः कौशिकी तथा॥ १६४.६0

यमुना त्वथ कावेरी कृष्णवेणी च निम्नगा।
सुवेणा च महाभागा नदी गोदावरी तथा ॥ १६४.६१

चर्मण्वती च सिन्दुश्च तथा नदनदीपतिः।
कमलप्रभवश्चैव शोणोमणि निभोदकः ॥ १६४.६२

नर्मदा शुभतोया च तथा वेत्रवती नदी।
गोमती गोकुलाकीर्णा तथा पूर्वसरस्वती ॥ १६४.६३

मही कालमही चैव तमसा पुष्पवाहिनी।
जम्बूद्वीपं रत्नवटं सर्वरत्नोपशोभितम् ॥ १६४.६४

सुवर्ण प्रकटञ्चैव सुवर्णाकरमण्डितम्।
महानदञ्च लौहित्यं शैलकाननशोभितम् ॥ १६४.६५

पत्तनं कोशकरणं ऋषिवीर जनाकरम्।
मागधाश्च महाग्रामा मुडाः शुङ्गास्तथैव च ॥ १६३.६६

सुह्मा मल्ला विदेहाश्च मालवाः काशिकोसलाः।
भवनं वैनतेयस्य दैत्येन्द्रेणाभिकम्पितम् ॥ १६३.६७

कैलासशिखराकारं यत् कृतं विश्वकर्मणा।
रक्ततोयो महाभीमो लौहित्यो नाम सागरः ॥ १६३.६८

उदयश्च महाशैल उच्छ्रितः शतयोजनम्।
सुवर्णवेदिकः श्रीमान् मेघपङ्क्ति-निषेवितः ॥ १६३.६९

भ्राजमानोऽर्कसदृशै जातरूपमयैर्द्रुमैः।
शालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः ॥ १६३.७0

अयोमुखश्च विख्यातः सर्वतो धातुमण्डितः।
तमालवनगन्धश्च पर्वतो मलयः शुभः ॥ १६३.७१

सुराष्ट्राश्च सवाल्हीकाः शूराभीरास्तथैवच।
भोजाः पाण्ड्याश्च वङ्गाश्च कलिङ्गस्ताम्रलिप्तकाः ॥ १६३.७२

तथैवोड्राश्च पौण्ड्राश्च वामचूडाः सकेरलाः।
क्षोभितास्तेन दैत्येन सदेवाश्चाप्सरोगणाः ॥ १६३.७३

अगस्त्यभवनञ्चैव यदगम्यङ्कृतं पुरा।
सिद्धचारणसङ्घैश्च विप्रकीर्णं मनोहरम् ॥ १६३.७४

विचित्रनानाविहगं सुपुष्पितमहाद्रुमम्।
जातरूपमयैः श्रृङ्गैर्गगनं विलिखन्निव ॥ १६३.७५

चन्द्रसूर्यांशुसङ्काशैः सागराम्बु समावृतैः
विद्युत्त्वान् सर्वः श्रीमानायतः शतयोजनम् ॥ १६३.७६

विद्युतां यत्र सङ्घाता निपात्यन्ते नगोत्तमे।
ऋषभः पर्वतश्चैव श्रीमान् वृषभसञ्ज्ञितः ॥ १६३.७७

कुञ्चरः पर्वतः श्रीमानगस्त्यस्य गृहं शुभम्।
विशालाक्षश्च दुर्धर्षः सर्पाणामालयः पुरी॥ १६३.७८

तथा भोगवतीचापि दैत्येन्द्रेणाभिकम्पिताः।
महासेनो गिरिश्चैव पारियात्रश्च पर्वतः ॥ १६३.७९

चक्रवांश्च गिरिश्रेष्ठो वाराहश्चैव पर्वतः।
प्राग्ज्योतिष परञ्चापि जातरूपमयं शुभम् ॥ १६३.८0

यस्मिन्वसति दुष्टात्मा नरको नाम दानवः।
विशालाक्षश्च दुर्द्धर्षो मेघगम्भीरनिस्वनः ॥ १६३.८१

षष्टिस्तत्र सहस्राणि पर्वतानां द्विजोत्तमाः।
तरुणादित्यसङ्काशो मेरुस्तत्र महागिरिः ॥ १६३.८२

यक्षराक्षसगन्धर्वैः नित्यं सेवितकन्दरः।
हेमगर्भो महाशैलस्तथा हेमसखो-गिरिः ॥ १६३.८३

कैलासश्चैव शैलेन्द्रो दानवेन्द्रेण कम्पिताः।
हेमपुष्परसक्षेत्रं तेन वैखानसं सरः ॥ १६८.८४

कम्पितं मानसञ्चैव हंसकारण्डवाकुलम्।
त्रिशृङ्गपर्वतश्चैव कुमारी च सरिद्वरा ॥ १६८.८५

तुषारचय-सञ्छन्ना मन्दरश्चापि पर्वतः।
उशीरबिन्दुश्च गिरिश्चन्द्रप्रस्थः तथाद्रिराट् ॥ १६८.८६

प्रजापतिगिरिश्चैव तथा पुष्करपर्वतः।
देवाभ्रपर्वतश्चैव यथावै रेणुको गिरिः ॥ १६८.८७

क्रौञ्चः सप्तर्षिशैलश्च धूम्रवर्णश्च पर्वतः।
एते चान्ये च गिरयो देशा जनपदास्तथा ॥ १६८.८८

नद्यः ससागराः सर्वाः सोऽकम्पयत दानवः।
कपिलश्च महीपुत्रो व्याघ्रवांश्चैव कम्पितः ॥ १६८.८९

खेचराश्च सतीपुत्राः पातालतलवासिनः।
गणस्तथा परो रौद्रो मेघनामाङ्कुशायुधः ॥ १६८.९0

ऊर्ध्वगो भीमवेगश्च सर्व एवाभिकम्पिताः।
गदी शूली करालश्च हिरण्यकशिपुस्तदा॥ १६८.९१

जीमूतघनसङ्काशो जीमूतघननिस्वनः।
जीमूतघननिर्घोषो जीमूत इव वेगवान् ॥ १६८.९२

देवारिर्दितिजो वीरो नृसिंहं समुपाद्रवत्।
समुत्पत्य ततस्तीक्ष्णैर्मृगेन्द्रेण महानखैः ॥ १६८.९३

तदोङ्कारसहायेन विदार्य निहतो युधि।
मही च कालश्च वशी नभश्च ग्रहाश्च सूर्यश्च दिशश्च सर्वाः।
नद्यश्च च शैलाश्च महार्णवाश्च गताः प्रसादन्दितिपुत्रनाशात् ॥ १६८.९४

ततः प्रमुदिता देवा ऋषयश्च तपोधनाः।
तुष्टुवुर्नामभिर्दिव्यै रादिदेवं सनातनम् ॥ १६८.९५

यत्त्वया विहितं देव! नारसिंहमिदं वपुः।
एतदेवार्चयिष्यन्ति परावरविदो जनाः ॥ १६८.९६

ब्रह्मोवाच।
भवान् ब्रह्मा च रुद्रश्च महोन्द्रो देवसत्तमाः!।
भवान् कर्ता विकर्ता च लोकानां प्रभवाप्ययः ॥ १६८.९७

पराञ्च सिद्धाञ्च परञ्च देवं परञ्च मन्त्रं परमं हविश्च।
परञ्च धर्मं परमञ्च विश्वं त्वामाहुरग्र्य्रं पुरुषं पुराणम् ॥ १६८.९८

परं शरीरं परमञ्च ब्रह्म परञ्च योगं परमाञ्च वाणीम्।
परं रहस्यं परमाङ्गतिञ्च त्वामाहुरग्र्य्रं पुरुषं पुराणम् ॥ १६८.९९

एवं परस्यापि परं पदं यत् परं परस्यापि परञ्च देवम्।
परं परस्यापि परञ्च भूतन्त्वामाहुरग्र्य्रं पुरुषं पुराणम् ॥ १६८.१00

परं परस्यापि परं निधानं परं परस्यापि परं पवित्रम्।
परं परस्यापि परं च दान्तन्त्वामाहुरग्र्य्रं पुरुषं पुराणम् ॥ १६८.१0१

एवमुक्त्वा तु भगवान् सर्वलोकपितामहः।
स्तुत्वा नारायणं देवं ब्रह्मलोकं गतः प्रभुः ॥ १६८.१0२

तप्तो नदत्सु तूर्येषु नृत्यन्तीष्वत्सरः सु च।
क्षीरोदस्योत्तरं कूलं जगाम हरिरीश्वरः ॥ १६८.१0३
नारसिंहं वपुर्देवः स्थापयित्वा सुदीप्तिमत्।
पौराणां रूपमास्थाय प्रययौ गरुडध्वजः॥ १६८.१0४

अष्टचक्रेण यानेन भूतयुक्तेन भास्वता।
अव्यक्त-प्रकृतिर्देवः स्वस्थानं गतवान् प्रभुः ॥ १६८.१0५