नरसिंहमाहात्म्यवर्णनम्।
सूत उवाच।
ततो दृष्ट्वा महात्मानं कालचक्रमिवागतम्।
नरसिंह वपुञ्छन्नं भस्मच्छन्नमिवानलम् ॥ १६२.१
हिरण्यकशिपोः पुत्रः प्रह्लादो नाम वीर्यवान्।
दिव्येन चक्षुषा सिंहमपश्यद्देवमागतम् ॥ १६२.२
तं दृष्ट्वा रुक्मशैलाभमपूर्वान्तनुमाश्रितम्।
विस्मिता दानवाः सर्वे हिरण्यकशिपुश्च सः ॥ १६२.३
प्रह्लाद उवाच।
महाबाहो! महाराज! दैत्यानामादिसम्भव।
न श्रुतं न च नो दृष्टं नारसिंहमिदं वपुः ॥ १६२.४
अव्यक्तप्रभवन्दिव्यं किमिदं रूपमागतम्।
दैत्यान्तकरणं घोरं संशतीव मनो मम ॥ १६२.५
अस्य देवाः शरीरस्थाः सागराः सरितश्च याः।
हिमवान्पारियात्रश्च ये चान्ये कुलपर्वताः ॥ १६२.६
चन्द्रमाश्च सनक्षत्रैरादित्यैर्वसुभिः सह।
धनदो वरुणश्चैव यमः शक्रः शचीपतिः ॥ १६२.७
मरुतो देवगन्धर्वा ऋषयश्च तपोधनाः।
नागा यक्षाः पिशाचाश्च राक्षसा भीमविक्रमाः ॥ १६२.८
ब्रह्मा देवः पशुपतिर्ललाटस्था भ्रमन्ति वै।
स्थावराणि च सर्वाणि जङ्घमानि तथैव च॥ १६२.९
भवांश्च सहितोऽस्माभिः सर्वैर्देवगणैर्वृतः।
विमानशतसङ्कीर्णा तथैव भवतः सभा ॥ १६२.१०
सर्वं त्रिभुवनं राजन्! लोकधर्माश्च शाश्वताः।
दृश्यन्ते नारसिंहेऽस्मिस्तथेदमखिलं जगत् ॥ १६२.११
प्रजापतिश्चात्र मनुर्महात्मा ग्रहश्च योगश्च महीरुहाश्च।
उत्पातकालश्च धृतिर्मतिश्च रतिश्च सत्यञ्च तपो दमश्च ॥ १६२.१२
सनत्कुमारश्च महानुभावो विश्वे च देवा ऋषयश्च सर्वे।
क्रोधश्च कामश्च तथैव हर्षो धर्म्मश्च मोहः पितरश्च सर्वे ॥ १६२.१३
प्रह्लादस्य वचः श्रुत्वा हिरण्यकशिपुः प्रभुः।
उवाच दानवान् सर्वान् गणांश्च स गणाधिपः ॥ १६२.१४
मृगेन्द्रो गृह्यतामेष अपूर्वं सत्वमास्थितः।
यदि वा संशयः कश्चिद् वध्यतां वनगोचरः ॥ १६२.१५
ते दानवगणाः सर्वे मृगेन्द्रं भीमविक्रमम्।
परिक्षिपन्तो मुदिता त्रासयामासु रोजसा ॥ १६२.१६
सिंहनादं विमुच्याथ नरसिंहो महाबलः।
बभञ्ज तां सभां सर्वां व्यादितास्य इवान्तकः १६२.१७
सभायां भज्यमानायां हिरण्यकशिपुः स्वयम्।
चिक्षेप शस्त्राणि सिंहस्य रोषाद्व्याकुललोचनः ॥ १६२.१८
सर्वास्त्राणामथ ज्येष्ठं दण्डमस्त्रं सुदारुणम्।
कालचक्रं तथा घोरं विष्णुचक्रं तथा परम् ॥ १६२.१९
पैतामहं तथात्युग्रं त्रैलोक्य दहनं महत्।
विचित्रामशीनीञ्चैव शुष्कार्द्रं चाशनिद्वयम् ॥ १६२.२०
रौद्रं तथोग्रं शूलञ्च कङ्कालं मुसलं तथा।
मोहनं शोषणं चैव सन्तापन विलापनम् ॥ १६२.२१
वायव्यं मथनं चैव कापालमथ कैङ्करम्।
तथा प्रतिहतां शक्तिं क्रौञ्चमस्त्रं तथैव च ॥ १६२.२२
अस्त्रं ब्रह्मशिरश्चैव सोमास्त्रं शिशिरं तथा।
कम्पनं शतनञ्चैव त्वाष्ट्रञ्चैव सुभैरवम्॥ १६२.२३
कालमुद्गरमक्षोभ्यं तपनञ्च महाबलम्।
संवर्तनं मादनञ्च तथा मायाधरं परम् ॥ १६२.२४
गान्धर्वमस्त्रं दयितमसिरत्नं च नन्दकम्।
प्रस्वापनं प्रमथनं वारुणं चास्त्रमुत्तमम्।
अस्त्रं पाशुपतञ्चैव यस्याप्रतिहता गतिः ॥ १६२.२५
अस्त्रं हयशिरश्चैव ब्राह्ममस्त्रं तथैव च।
नारायणास्त्रमैन्द्रञ्च सार्पमस्त्रं तथाद्भुतम् ॥ १६२.२६
पैशाचमस्त्रमजितं शोषदं शामनं तथा।
महाबलं भावनं च प्रस्थापनविकम्पने ॥ १६२.२७
एतान्यस्त्राणि दिव्यानि हिरण्यकशिपुस्तदा।
असृजन्नरसिंहस्य दीप्तस्याग्नेरिवाहुतिम् ॥ १६२.२८
अस्त्रैः प्रज्वलितैः सिंहमावृणोदसुरोत्तमाः।
विवस्वान् धर्म्मसमये हिमवन्तमिवांशुभिः ॥ १६२.२९
स ह्यमर्षानिलोद्धूतो दैत्यानां सैन्यसागरः।
क्षणेन प्लावयामास मैनाकमिव सागरः ॥ १६२.३०
प्रासैः पाशैश्च खङ्गैश्च गदाभिर्मुसलैस्तथा।
वज्रैरशनिभिश्चैव साग्निभिश्च महाद्रुमैः ॥ १६२.३१
मुद्गरैर्भिन्दिपालैश्च शिलोलूखल पर्वतै।
शतघ्नीभिश्च दीप्ताभिर्दण्डैरपि सुदारुणैः ॥ १६२.३२
ते दानवाः पाशगृहीतहस्ता महेन्द्र तुल्याशनि वज्रवेगाः।
समन्ततोऽभ्युद्यत-बाहुकायाः स्थितास्त्रिशीर्षा इव नागपाशाः ॥ १६२.३३
सुवर्णमालाकुलभूषिताङ्गाः पीतांशुका भोगविभाविताङ्गाः।
मुक्तावली दाम सनाथ कक्षा हंसा इवा भान्ति विशालपक्षाः ॥ १६२.३४
तेषां तु वायुप्रतिमौजसां वै केयूर मौली वलयोत्कटानाम्।
तान्युत्तमाङ्गान्यभितो विभान्ति प्रभात सूर्यांशु समप्रभाणि ॥ १६२.३५
क्षिपद्भिरुग्रैर्ज्वलितैर्महाबलैर्महास्त्रपूगैः सुसमावृतो बभौ।
गिरिर्यथा सन्ततवर्षिभिर्घनैः कृतान्धकारान्तर कन्दरो द्रुमैः ॥ १६२.३६
तैर्हन्यमानोऽपि महास्त्रजालैर्महाबलैर्दैत्यगणैः समेतैः।
नाकम्पताजौ भगवान् प्रताप स्थितप्रकृत्या हिमवानिवाचलः ॥ १६२.३७
सन्त्रासितास्तेन नृसिंहरूपिणा दितेः सुताः पावक तुल्य तेजसा।
भयाद्विचेलुः पवनोद्धुताङ्गा यथोर्मयः सागर वारि सम्भवाः ॥ १६२.३८