१५८

वीरक पार्वती संवादः।

वीरक उवाच।
एवमुक्त्वा गिरिसुता माता मे स्नेहवत्सला।
प्रवेशं लभते नान्या नारी कमललोचने ॥ २.१५८.१

इत्युक्ता तु तदा देवी चिन्तयामास चेतसा।
न सा नारीति दैत्योऽसौ वायुर्मे यामभाषत ॥ २.१५८.२

वृथैव वीरकः शप्तो मया क्रोधपरीतया।
अकार्यं क्रियते मूढैः प्रायः क्रोधसमीरितैः ॥ २.१५८.३

क्रोधेन नश्यते कीर्तिः क्रोधो हन्ति स्थिरां श्रियम्।
अपरिच्छन्नतत्वार्था पुत्रं शापितवत्यहम् ॥ २.१५८.४

विपरीतार्थ बुद्धीनां सुलभो विपदोदयः।
सञ्चिन्त्यैवमुवाचेदं वीरकं प्रति शैलजा ॥ २.१५८.५

लज्जा सज्जविकारेण वदनेनाम्बुजत्विषा।
देव्युवाच।
अहं वीरक! ते माता मा तेऽस्तु मनसो भ्रमः। २.१५८.६

शङ्करस्यास्मि दयिता सुता तु हिमभूभृतः।
मम गात्रच्छविभ्रान्त्या माशङ्कां पुत्र! भावय ॥ २.१५८.७

तुष्टेन गौरता दत्ता ममेयं पद्मजन्मना।
मया शप्तोऽस्य विदिते वृत्तान्ते दैत्यनिर्मिते ॥ २.१५८.८

ज्ञात्वा नारीप्रवेशन्तु शङ्करे रहसि स्थिते।
न निवर्तयितुं शक्यः शापः किन्तु ब्रवीमि ते ॥ २.१५८.९

शीघ्रमेष्यसि मानुष्यात् स त्वं कामसमन्वितः।
शिरसा तु ततोवन्द्य मातरं पूर्णमानसः ॥
उवाचार्चित पूर्णेन्दु द्युतिञ्च हिमशैलजाम् ॥ २.१५८.१०

वीरक उवाच।
नतसुरासुर मौलिमिलन् मणिप्रचय कान्ति कराल नखाङ्किते।
नगसुते! शरणागतवत्सले! तव नतोऽस्मि नतार्त्तिविनाशिनि ॥ २.१५८.११

तपनमण्डलमण्डितकन्धरै! पृथुसुवर्णसुवर्णनगद्युते।
विषभुजङ्गनिषङ्गविभूषिते ! गिरिसुते! भवतीमहमाश्रये ॥ २.१५८.१२

जगति कः प्रणताभिमतं ददौ झटिति सिद्धनुते भवती यथा।
जगति काञ्च न वाञ्छति शङ्करो भुवनधृत्तनये! भवतीं यथा ॥ २.१५८.१३

विमलयोग विनिर्मित दुर्जय स्वतनु तुल्यमहेश्वर मण्डले।
विदलितान्धक बान्धवसंहतिः सुरवरैः प्रयमन्त्वमभिष्टुता ॥ २.१५८.१४

सितसटापटलोद्धत कन्धरा भरमहा मृगराज रथास्थिता।
विमलशक्तिमुखानलपिङ्गला यतभुजौघ विपिष्टमहासुरा ॥ २.१५८.१५

निगदिता भुवनैरिति चण्डिका जननि! शुम्भ निशुम्ब निषूदनी।
प्रणत चिन्तित दानव दानव प्रमथनैकरतिस्तरसा भुवि ॥ २.१५८.१६

वियति वायुपथे ज्वलनोज्वलेऽवनितले तव देवि! च यद्वपुः।
तदजितेऽप्रतिमे प्रणमाम्यहं भुवन भाविनि! ते भववल्लभे ॥ २.१५८.१७

जलधयो ललितोद्धत वीचयो हुतवहद्युतयश्च चराचरम्।
फणसहस्रभृतश्च भुजङ्गमा स्त्वदभिधास्यति मय्यभयङ्कराः ॥ २.१५८.१८

भगवति! स्थिरभक्तजनाश्रये! प्रतिगतो भवती -चरणाश्रयम्।
करणजातमिहास्तु ममाचलन्नुतिलवाप्तिफलासयहेतुतः ॥
प्रशममेहि ममात्मज वत्सले! नमोऽस्तु ते देवि! जगत्त्रयाश्रये! ॥२.१५८.१९

सूत उवाच।
प्रसन्ना तु ततो देवी वीरकस्येति संस्तुता।
प्रविवेश शुभं भर्तुर्भवनं भूधरात्मजा ॥ २.१५८.२०

द्वारस्थो वीरको देवान् हरदर्शनकाङ्क्षिणः।
व्यसर्जयत् स्वान्येव गृहाण्यादरपूर्वकः ॥ २.१५८.२१

नास्त्यत्रावसरो देवा देव्या सह वृषाकपिः।
निभृतः क्रीडतीत्युक्ता ययुस्ते च यथागतम् ॥ २.१५८.२२

गते वर्षसहस्रे तु देवास्त्वरितमानसाः।
ज्वलनं चोदयामासुः ज्ञातुं शङ्करचेष्टितम् ॥ २.१५८.२३

प्रविश्य जालरन्ध्रेण शुकरूपी हुताशनः।
ददृशे नयने शर्वं रतं गिरिजया सह ॥ २.१५८.२४

ददृशे तञ्च देवेशो हुताशं शुकरूपिणम्।
तमुवाच महादेवः किञ्चित् कोपसमन्वितः ॥ २.१५८.२५

यस्मात्तु त्वत्कृतो विघ्नस्तस्मात्वय्युपपद्यते।
इत्युक्तः प्राञ्जलिर्वह्निरपिबद्वीर्यमाहितम् ॥ २.१५८.२६

तेनापूर्यत तान्देवांस्तत्तत्काय बिभेदतः।
विपाट्य जठरन्तेषां वीर्यं माहेश्वरन्ततः ॥ २.१५८.२७

निष्क्रान्तं तप्तहेमाभं वितते शङ्कराश्रमे।
तस्मिन् सरो महज्जातं विमलं बहु योजनम् ॥ २.१५८.२८

प्रोत्फुल्लहेमकमलं नानाविहगनादितम्।
तच्छ्रुत्वा तु ततो देवी हेमद्रुम महाजलम्॥ २.१५८.२९

तत्र कृत्वा जलक्रीडां तदब्जकृतशेखरा।
उपविष्टा ततस्तस्य तीरे हेमद्रुम महाजलम् ॥ २.१५८.३०

पातुकामा च तत्तोयं स्वादु निर्मल पङ्कजम्।
अपश्यन् कृत्तिकाः स्नाताः षडर्कद्युतिसन्निभम् ॥ २.१५८.३१

पद्मपत्रे तु तद्वारि गृहित्वोपस्थिता गृहम्।
हर्षादुवाच पश्यामि पद्मपत्रे स्थितं पयः ॥ २.१५८.३२

ततस्ता ऊचुरखिलं कृत्तिका हिमशैलजम्।
कृत्तिका ऊचुः।
दास्यामो यदि ते गर्भः सम्भूतो यो भविष्यति ॥ २.१५८.३३

सोऽस्माकमपि पुत्रः स्यादस्मन्नाम्ना च वर्तताम्।
भवेल्लोकेषु विख्यातः सर्वेष्वपि शुभानने!॥ २.१५८.३४

इत्युक्तोवाच गिरिजा कथं मद्गात्रसम्भवः।
सर्वैरवयवैर्युक्तो भवतीभ्यः सुतो भवेत्॥ २.१५८.३५

ततस्तां कृत्तिका ऊचु र्विधास्यामोऽस्य वै वयम्।
उत्तमान्युत्तमङ्गानि यद्येवन्तु भविष्यति ॥ २.१५८.३६

उक्ता वै शैलजा प्राह भवत्वेवमनिन्दितः।
ततस्ताहर्षसम्पूर्णाः पद्मपत्रस्थितं पयः॥ २.१५८.३७

तस्यै ददुस्तया चापि तत्प्रीतं क्रमशो जलम्।
पीते तु सलिले तस्मिंस्ततस्तस्मिन् सरोवरे ॥ २.१५८.३८

विपाट्य देव्याश्च ततो दक्षिणां कुक्षिमुद्गतः।
निश्चक्रामद्भुतो बालः सर्वलोक विभासकः ॥ २.१५८.३९

प्रभाकरप्रभाकारः प्रकाशकनकप्रभः।
गृहीतनिर्मलोदग्र शक्तिशूलः षडाननः ॥ २.१५८.४०

दीप्तो मारयितुं दैत्यान् कुत्सितान् कनकच्छिविः।
एतस्मात् कारणाद्देवः कुमारश्चापि सोऽभवम् ॥ २.१५८.४१