तारकासुरोपाख्याने देवासुरयुद्धवर्णनम्।
सूत उवाच।
तस्मिन् विनिहते दैत्ये ग्रसने लोकनायके।
निर्मर्यादमयुध्यन्त हरिणा सह दानवाः ॥ १५२.१
पट्टिशैर्मुशलैः पाशैर्गदाभिः कुशलैरपि।
तीक्ष्णाननैश्च नाराचैश्चक्रैः शक्तिभिरेव च ॥ १५२.२
तानस्त्रान् दानवैर्मुक्तान् चित्रयोधी जनार्दनः।
एकैकं शतशश्चक्रे बाणैरग्निद्विजोपमैः ॥ १५२.३
ततः क्षीणायुधप्राया दानवा भ्रान्तचेतसः।
अस्त्राण्यादातुमभवन्न समर्था यदा रणे॥ १५२.४
तदा मृतैर्गजैरश्वैर्जनार्दनमयोधयन्।
समन्तात् कोटिशो दैत्याः सर्वतः प्रत्ययोधयन् ॥ १५२.५
बहु कृत्वा वपुर्विष्णुः किञ्चिच्छ्रान्त भुजोऽभवत्।
उवाच च गरुत्मन्तं तस्मिन्सुतुमुले रणे ॥ १५२.६
गरुत्मन्! कच्चिदश्रान्तस्त्वमस्मिन्नपि साम्प्रतम्।
यद्यश्रान्तोऽसि तद्याहि मथनस्य रथम्प्रति ॥ १५२.७
श्रान्तोऽस्यथ मुहूर्तन्त्वं रणादपसृतो भव।
इत्युक्तो गरुडस्तेन विष्णुना प्रभविष्णुना ॥ १५२.८
आससाद रणे दैत्यं मथनं घोरदर्शनम्।
दैत्यस्त्वभिमुखं दृष्ट्वा शङ्ख वक्र गदाधरम् ॥ १५२.९
जघान भिन्दिपालेन शितबाणेन वक्षसि।
तत् प्रहारमचिन्त्यैव विष्णुस्तस्मिन् महाहवे ॥ १५२.१०
जघान पञ्चभिर्बाणैर्मार्जितैश्च शिलाशितैः।
पुनर्दशभिराकृष्टैः तं तताड स्तनान्तरै ॥ १५२.११
विद्धो मर्मसु दैत्येन्द्रो हरिबाणैरकम्पत।
स मुहूर्तं समाश्वास्य जग्राह परिघन्तदा ॥ १५३.१२
जघ्ने जनार्दने चापि परिघेणाग्निवर्चसा।
विष्णुस्तेन प्रहारेण किञ्चिदाघूर्णितोऽभवत् ॥ १५३.१३
ततः क्रोधविवृत्ताक्षो गदाञ्जग्राह माधवः।
मथनं सरथं रोषान्निष्पिपेषाथ रोषितः ॥ १५२.१४
स पपाताथ दैत्येन्द्रः क्षयकालेऽचलो यथा।
यस्मिन्निपतिते भूमौ दानवे वीर्यशालिनि ॥ १५२.१५
अवसादं ययुर्दैत्याः कर्दमे करिणो यथा।
ततस्तेषु विपन्नेषु दानवेष्वतिमानिषु ॥ १५२.१६
कोपरक्ततया नाम महिषो दानवेश्वरः।
प्रत्युद्ययौ हरिं रौद्रः स्वबाहुबलमास्थितः ॥ १५२.१७
तीक्ष्णधारेण शूलेन महिषो हरिमर्दयन्।
शक्त्या च गरुडं वीरो महिषोऽभ्यहनद्धृदि॥ १५२.१८
ततो व्यावृत्तवदनं महाचलगुहानिभम्।
यस्तु मैच्छद्रणे दैत्यः स गरुत्मन्तमच्युतम् ॥ १५२.१९
अथाच्युतोऽपि विज्ञाय दानवस्य चिकीर्षितम्।
वदनं पूरयामास दिव्यैरस्त्रैर्महाबलः ॥ १५२.२०
महिषस्याथ ससृजे बाणौघं गरुडध्वजः।
पिधाय वदनं दिव्यैर्दिव्यास्त्रपरिमन्त्रितैः॥ १५२.२१
स तैर्बाणैरभिहतो महिषोऽचलसन्निभः।
परिवर्तितकायोऽधः पपात न ममार च ॥ १५२.२२
महिषं पतितं दृष्ट्वा भूमौ प्रोवाच केशवः।
महिषासुर!मत्तस्त्वं वधन्नास्त्रैरिहार्हसि ॥ १५२.२३
योषिद्वध्यः पुरोक्तोऽसि साक्षात् कमलयोनिना
उत्तिष्ठ जीवितं रक्ष गच्छास्मात् सङ्गराद् द्रुतम् ॥ १५२.२४
तस्मिन् पराङ्मुखे दैत्ये महिषे शुम्भदानवः।
सन्दष्टौष्ठपुटः कोपाद् भ्रुकुटी कुटिलाननः ॥ १५२.२५
निर्मथ्य पाणिना पाणि धनुरादाय भैरवम्।
सज्जञ्चकार स धनुः शरांश्चाशी- विषोपमान् ॥ १५२.२६
स चित्रयोधी दृढमुष्टिपातस्ततस्तु विष्णुं गरुडञ्च दैत्यः।
बाणैर्ज्वलद्वह्निशिखानिकाशैः क्षिप्तैरसङ्ख्यैः परिघातहीनैः ॥ १५२.२७
विष्णुश्च दैत्येन्द्रशराहतोऽपि भुशुण्डिमादाय कृतान्त तुल्याम्।
तया भुशुण्ड्या च पिपेष मेषं शुम्भस्य पत्रं धरणीधराभम् ॥ १५२.२८
तस्मादवप्लुत्य हताच्च मेषाद् भूमौ पदातिः स तु दैत्यनाथः।
ततो महीस्थस्य हरिः शरौघान् मुमोच कालानल तुल्यभासः ॥ १५२.२९
शरैस्त्रिभिस्तस्य भुजं बिभेद षड्भिश्च शीर्षं दशभिश्च केतुम्।
विष्णुर्विकृष्टैः श्रवणावसानं दैत्यस्य विव्याध विवृत्तनेत्रः ॥ १५२.३०
स तेन बिद्धो व्यथितो बभूव दैत्येश्वरो विस्रुतशोणितौघः।
ततोऽस्य किञ्चिच्चलितस्य धैर्यादुवाच शङ्खाम्बुज शार्ङ्गपाणिः ॥ १५२.३१
कुमारिवध्योऽसि रणं विमुञ्च शुम्भासुर! स्वल्पतरैरहोभिः।
वधं न मत्तोऽर्हसि चेह मूढ! वृथैव किं युद्धसमुत्सुकोऽसि ॥ १५२.३२
शुम्भो वचा विष्णुमुखान्निशम्य निमिश्च निष्पेष्टुमियेष विष्णुम्।
गदामथोद्यम्य निमिः प्रचण्डां जघान गाढां गरुडं शिरस्तः ॥ १५२.३३
जम्भोऽपि विष्णुं परिघेण मूर्ध्नि प्ररुष्टरत्नौघ विचित्रभासा।
तौ दानवाभ्यां विषमैः प्रहारैर्निपेतुरुर्व्यां घनपावकाभौ ॥ १५२.३४
तत्कर्म दृष्ट्वा दितिजास्तु सर्वे जगर्जुरुच्चैः कृतसिंहनादाः।
धनूंषि चास्फोट्य खुराभिघातैर्व्यदारयन् भूमिमपि प्रचण्डाः।
वासांसि चैवादुधुवुः परे तु दध्मुश्च शङ्खानकगोमुखौघान् ॥ १५२.३५
अथ सञ्ज्ञामवाप्याशु गरुडोऽपि स केशवः।
पराङ्मुखो रणात्तस्मात् पलायत महाजवः॥१५२.३६