१५१

तारकासुरोपाख्याने देवासुरयुद्धे ग्रसनवधवर्णनम्।

सूत उवाच।
तं दृष्ट्वा दानवाः क्रुद्दाश्चेरुः स्वैस्वैः बलैर्वृताः।
सरघा इव माक्षीकहरणे सर्वतो दिशम् ॥ १५१.१

कृष्णचामरजालाढ्ये सुधा विरचिताङ्कुरे।
चित्रपञ्चपताके तु प्रभिन्न करटामुखे ॥ १५१.२

पर्वताभे गजे भीमे मदस्राविणि दुर्द्धरे।
आरुह्याजौ निमिर्दैत्यो हरिं प्रत्युद्ययौ बली ॥ १५१.३

तस्यासन् दानवा रौद्रा गजस्य पदरक्षिणः।
सप्तविंशतिसाहस्राः किरीटकवचोज्वलाः ॥ १५१.४

अश्वारूढश्च मथनो जम्भकश्चोष्ट्रवाहनः।
शुम्भोऽपि विपुलं मेषं समारुह्याव्रजद्रणम् ॥ १५१.५

अपरे दानवेन्द्रास्तु मत्ता नानास्त्रपाणयः।
आजघ्नुः समरे क्रुद्धा विष्णुमक्लिष्टकारिणम्॥ १५१.६

परिधेण निमिर्दैत्यो मथनो मुद्गरेण तु।
शुम्भः शूलेन तीक्ष्णेन प्रासेन ग्रसनस्तथा ॥ १५१.७

चक्रेण महिषः क्रुद्धो जम्भः शक्त्या महारणे।
जघ्नुर्नारायणं सर्वे शेषास्तीक्ष्णैश्च मार्गणैः ॥ १५१.८

तान्यस्त्रापि प्रयुक्तानि शरीरं विविशुर्हरेः।
गुरूक्तानुपदिष्टान्वै सच्छिष्यस्य श्रुतानिव॥ १५१.९

असम्भ्रान्तो रणे विष्णुरथ जग्राह कार्मुकम्।
शरांश्चाशी विषाकारान् तैलधौतानजिह्मगान् ॥ १५१.१०

ततोऽभिसन्ध्य दैत्यांस्तानाकर्णाकृष्टकार्मुकः।
अभ्यद्रवद्रणे क्रुद्धो दैत्यानीके तु पौरुषान् ॥ १५१.११

निमिं विव्याध विंशत्या बाणानामग्निवर्चसाम्।
मथनं दशभिर्बाणैः शुभ्रं पञ्चभिरेव च ॥ १५१.१२

एकेन महिषं क्रुद्धो विव्याधोरसि पत्रिणा।
जम्भं द्वादशभिस्तीक्ष्णैः सर्वांश्चैकैकशोऽष्टभिः ॥ १५१.१३

तस्य तल्लाघवं दृष्ट्वा दानवाः क्रोधमूर्च्छिताः।
नर्दमानाः प्रयत्नेन चक्रुरत्यद्भुतं रणम्॥ १५१.१४

चिच्छेदाथ धनुर्विष्णोर्निमिर्भल्लेन दानवः।
सन्ध्यमानं शरं हस्ते चिच्छेद महिषासुरः ॥ १५१.१५

पीडयामास गरुडं जम्भस्तीक्ष्णैस्तु सायकैः।
भुजं तस्याहनद्गाढं शुम्भो भूधरसन्निभः ॥ १५१.१६

छिन्ने धनुषि गोविन्दो गदां जग्राह भीषणाम्।
तां प्राहिणोत् स वेगेन मथनाय महाहवे ॥ १५१.१७

तामप्राप्तां निमिर्बाणैश्चिच्छेद तिलशो रणे।
तां नाशमागतां दृष्ट्वा हीनाग्रे प्रार्थनामिव॥ १५१.१८

जग्राह मुद्गरं घोरं दिव्यरत्नपरिष्कृतम्।
तं मुमोचाथ वेगेन निमिमुद्दिश्य दानवम्॥ १५१.१९

तमायान्तं वियत्येव त्रयो दैत्या न्यवारयन्।
गदया जम्भदैत्यस्तु ग्रसनः पट्टिशेन तु ॥ १५१.२०

शक्त्या च महिषो दैत्यः स्वपक्ष जयकाङ्क्षया।
निराकृतं तमालेक्य दुर्जने प्रणयं यथा ॥ १५१.२१

जग्राह शक्तिमुग्राग्रामष्टघण्टोत्कटस्वनाम्।
जम्भाय तां समुद्दिश्य प्राहिणोद्रणभीषणः ॥ १५१.२२

तामम्बरस्थां जग्राह गजो दानवनन्दनः।
गृहीतां तां समालेक्य शिक्षामिव विवेकिभिः ॥ १५१.२३

दृढं भारसहं सारमन्यदादाय कार्मुकम्।
रौद्रास्तमभिसन्धाय तस्मिन् बाणं मुमोच ह ॥ १५१.२४

ततोऽस्त्रतेजसा सर्वं व्याप्तं लोकं चराचरम्।
ततो बाणमयं सर्वमाकाशं समदृश्यत। १५१.२५

भूर्दिशो विदिशश्चैव बाणजालमया बभुः।
दृष्ट्वा तदस्त्रमाहात्म्यं सेनानीर्गसनोऽसुरः ॥ १५१.२६

ब्राह्ममस्त्रञ्चचारासौ सर्वास्त्रं विनिवारणम्।
तेन तत्प्रशमं यातं रौद्रास्त्रं लोकघस्मरम् ॥ १५१.२७

अस्त्रे प्रतिहते तस्मिन् विष्णुर्दानवसूदनः।
कालदण्डास्त्रमकरोत् सर्वलोकभयङ्करम्। १५१.२८

सन्धीयमाने तस्मिंस्तु मारुतः परुषो ववौ॥
चकम्पे च मही देवी दैत्या भिन्नधियोऽभवन् ॥ १५१.२९

तदस्त्रमुग्रं दृष्ट्वा तु दानवा युद्धदुर्मदाः।
चक्रुरस्त्राणि दिव्यानि नानारूपाणि संयुगे॥ १५१.३०

नारायणास्त्रं ग्रसनो गृहीत्वा चक्रं निमिः स्वास्त्रवरं मुमोच।
एकैकमस्त्रञ्च चकार जम्भस्तत्कालदण्डास्त्र निवारणाय ॥ १५१.३१

यावन्न सन्धानदशां प्रयान्ति दैत्येश्वराश्चास्त्रनिवारणाय।
तावत् क्षणेनैव जघान कोटीर्दैत्येश्वराणां सगजान् सहाश्वान् ॥ १५१.३२

अनन्तरं शान्तमभूत्तदस्त्रं दैत्यास्त्रयोगेन तु कालदण्डम्।
शान्तं तदालोक्य हरिः स्वशस्त्रं स्वविक्रमे मन्युपरीतमूर्तिः ॥ १५१.३३

जग्राह चक्रं तपनायुताभमुग्रारमात्मानमिव द्वितीयम्।
चिक्षेप सेनापतयेऽभिसन्ध्य कण्ठस्थलं वज्रकठोरमुग्रम् ॥ १५१.३४

चक्रं तदाकाशगतं विलोक्य सर्वात्मना दैत्यवराः स्ववीर्य्यैः।
नाशक्नुवन् वारयितुं प्रचण्डं दैवं यथा कर्म्म मुधा प्रपन्नम् ॥ १५१.३५

तमप्रतर्क्यं जनयन्नजय्यं चक्रं पपात ग्रसनस्य कण्ठे।
द्विधा तु कृत्वा ग्रसनस्य कण्ठं तद्रक्तधारारुणघोरनाभिः।
जगाम भूयोऽपि जनार्दनस्य पाणिं प्रवृद्धानलतुल्यदीप्तिः ॥ १५१.३६ ॥