तारकासुरोपाक्यानवर्णनम्।
वराङ्ग्युवाच।
त्रासितास्म्यपविद्धास्मि ताडिता पीडितास्मि च।
रौद्रेण देवराजेन नष्टनाथेव भूरिशः ॥ १४७.१
दुःखपारमपश्यन्ती प्राणांस्त्यक्तुं व्यवस्थिता।
पुत्रं मे तारकं देहि दुःख शोक महार्णवात् ॥ १४७.२
एवमुक्तः स दैत्येन्द्रः कोपव्याकुल लोचनः।
शक्तोऽपि देवराजस्य प्रतिकर्तुं महासुरः ॥ १४७.३
तपः कर्तुं पुनर्दैत्यो व्यवस्यत महाबलः।
ज्ञात्वा तु तस्य सङ्कल्पं ब्रह्मा क्रूरतरं पुनः ॥ १४७.४
आजगाम तदा तत्र यत्रासौ दितिनन्दनः।
उवाच तस्मै भगवान् प्रभुर्मधुरया गिरा ॥ १४७.५
ब्रह्मोवाच।
किमर्थं पुत्रभूयस्त्वं नियमं क्रूरमिच्छसि।
आहाराभिमुखो दैत्यस्तन्नो ब्रूहि महाव्रत ॥ १४७.६
यावदब्दसहस्रेण निराहारस्य यत् फलम्।
क्षणेनैकेन तल्लब्धा त्यत्त्वा हारमुपस्थितम् ॥ १४७.७
त्यागो ह्यप्राप्तकामानां कामेभ्यो न तथा गुरुः।
यथा प्राप्तं परित्यज्य कामं कमललोचन ॥ १४७.८
श्रुत्वैतद् ब्रह्मणो वाक्यं दैत्यः प्राञ्जलिरब्रवीत्।
चिन्तयंस्तपसा युक्तो हृदि ब्रह्ममुखेरितम् ॥ १४७.९
वज्राङ्ग उवाच।
उत्थितेन मया दृष्टा समाधानात् त्वदाज्ञया।
महिषी भीषिता दीना रुदन्ती शाखिनस्तले ॥ १४७.१०
सा मयोक्ता तु तन्वङ्गी दूयमानेन चेतसा।
किमेव वर्त्तसे भीरु! वद त्वं किञ्चिकीर्षसि ॥ १४७.११
इत्युक्ता सा मया देव! प्रोवाच स्खलिताक्षरम्।
वाक्यं वाचस्पते! भीता तन्वङ्गी हेतुसंहितम् ॥ १४७.१२
वराङ्ग्युवाच।
त्रासितास्म्यपविद्धास्मि कर्षिता पीडितास्मि च।
रौद्रेण देवराजेन नष्टनाथेव भूरिशः ॥ १४७.१३
दुःखस्यान्तमपश्यन्ती प्राणांस्त्यक्तुं व्यवस्थिता।
पुत्रं मे तारकं देहि ह्यस्माद्दुःखमहार्णवात् ॥ १४७.१४
एवमुक्तस्तु सङ्क्षुब्धस्तस्याः पुत्रार्थमुद्यतः।
तपो घोरं करिष्यामि जयाय त्रिदिवौकसाम् ॥ १४७.१५
एतच्छ्रुत्वा वचो देवः पद्मगर्भोद्भवस्तदा।
उवाच दैत्यराजानं प्रसन्नश्चतुराननः ॥ १४७.१६
ब्रह्मोवाच।
अलन्ते तपसा वत्स! मा क्लेशे दुस्तरे विश।
पुत्रस्ते तारको नाम भविष्यति महाबलः ॥ १४७.१७
देवसीमन्तिनी कान्त धम्मिल्लस्य विमोक्षण।
इत्युक्तो दैत्यनाथस्तु प्रणिपत्य पितामहम् ॥ १४७.१८
आगत्यानन्दयामास महिषीं हर्षिताननः।
तौ दम्पती कृतार्थौ तु जग्मतुः स्वाश्रमं मुदा ॥ १४७.१९
वज्राङ्गनाहितं गर्भं वराङ्गा वरवर्णिनी।
पूर्णं वर्षसहस्रञ्च दधारोदर एव हि ॥ १४७.२०
ततो वर्षसहस्रान्ते वराङ्गी सुषुवे सुतम्।
जायमाने तु दैत्येन्द्रे तस्मिन् लोकभयङ्करे ॥ १४७.२१
चचाल सकला पृथ्वी समुद्राश्च चकम्पिरे।
चेलुर्महीधराः सर्वे ववुर्वाताश्च भीषणाः ॥ १४७.२२
जेपुर्जप्यं मुनिवरा नेदुर्व्यालमृगा अपि।
चन्द्रसूर्या जहुः कान्तिं सनीहारा दिशोऽभवन् ॥ १४७.२३
जाते महासुरे तस्मिन् सर्वे चापि महासुराः।
आजग्मुर्दृषितास्तत्र तथाचासुर योषितः ॥ १४७.२४
जग्मुः हर्षसमाविष्टा ननृतुश्चासुराङ्गनाः।
ततो महोत्सवो जातो दानवानां द्विजोत्तमाः॥ १४७.२५
विषण्ण मनसो देवाः समहेन्द्रास्तदाभवन्।
वराङ्गी स्वसुतं दृष्ट्वा हर्षेणापूरिता तदा ॥ १४७.२६
बहु मेने न देत्येन्द्र विजयन्तु तदैव सा।
जातमात्रस्तु दैत्येन्द्रस्तारकश्चण्डविक्रमः ॥ १४७.२७
अभिषिक्तोऽसुरैः सर्वैः कुजम्भमहिषादिभिः।
सर्वासुरमहाराज्ये पृथिवी तुलन क्षमैः ॥ १४७.२८
स तु प्राप्य महाराज्यं तारको मुनिसत्तमाः।
उवाच दानवश्रेष्ठान् युक्तियुक्तमिदं वचः ॥ १४७.२९