मन्वन्तरस्थितिवर्णनम्।
सूत उवाच।
मन्वन्तराणि यानि स्युः कल्पे कल्पे चतुर्दश।
व्यतीतानागतानि स्युर्यानि मन्वन्तरेष्विह॥ १४५.१ ॥
विस्तरेणानुपूर्व्याच्च स्थितिं वक्ष्ये युगे युगे।
तस्मिन् युगे च सम्भूतिर्यासां यावच्च जीवितम्॥ १४५.२ ॥
युगमात्रन्तु जीवन्ति न्यूनं तस्माद्द्वयेन च।
चतुर्दशसु तावन्तो ज्ञेया मन्वन्तरेष्विह॥ १४५.३ ॥
मनुष्याणां पशूनाञ्च पक्षिणां स्थावरैः सहः।
तेषामायुरुपक्रान्तं युगधर्मेषु सर्वशः॥ १४५.४ ॥
तथैवायुः परिक्रान्तं युगधर्मेषु सर्वशः।
अस्थितिञ्च कलौ द्रृष्ट्वा भूतानां मानुषे तथा॥ १४५.५ ॥
परमायुः शतन्त्वेतन्मानुषाणां कलौ स्मृतम्।
देवासुरमनुष्याश्च यक्षगन्धर्वराक्षसाः॥ १४५.६ ॥
परिणाहोच्छ्रये तुल्या जायन्तेह कृते युगे।
षण्णवत्यङ्गुलोत्सेधो अष्टानां देवयोनिनाम्॥ १४५.७ ॥
नवाङ्गुलप्रमाणेन निष्पन्नेन तथाष्टकम्।
एतत् स्वाभाविकं तेषां प्रमाणमधिकुर्वताम्॥ १४५.८ ॥
मनुष्या वर्त्तमानास्तु युगसन्ध्यांशकेष्विह।
देवासुरप्रमाणन्तु सप्तसप्ताङ्गुलं क्रमात्॥ १४५.९ ॥
चतुराशीतिकैश्चैव कलिजैरङ्गुलैः स्मृतम्।
आपादतलमस्तको नवतालो भवेत्तु यः॥ १४५.१० ॥
संहृत्याजानुबाहुश्च दैवतैरभिपूज्यते।
गवाञ्च हस्तिनाञ्चैव महिषस्थावरात्मनाम्॥ १४५.११ ॥
क्रमेणैतेन विज्ञेये ह्रासवृद्धी युगे युगे।
षट्सप्तत्यङ्गुलोत्सेधः पशुराककुदो भवेत्॥ १४५.१२ ॥
अङ्गुलानामष्टशतमुत्सेधो हस्तिनां स्मृतः।
अङ्गुलानां सहस्रन्तु द्विचत्वारिंशदङ्गुलम्॥ १४५.१३ ॥
शतार्द्धमङ्गुलानान्तु ह्युत्सेधः शाखिनाम्परः।
मानुषस्य शरीरस्य सन्निवेशस्तु याद्रृशः॥ १४५.१४ ॥
तल्लक्षणन्तु देवानां द्रृश्यतेऽन्वयदर्शनात्।
बुद्ध्यातिशयसंयुक्तो देवानां काय उच्यते॥ १४५.१५ ॥
तथा नातिशयश्चैव मानुषः काय उच्यते।
इत्येव हि परिक्रान्ता भावा ये दिव्यमानुषाः॥ १४५.१६ ॥
पशूनां पक्षिणाञ्चैव स्थावराणां च सर्वशः।
गावोऽजाश्वाश्च विज्ञेया हस्तिनः पक्षिणो मृगाः॥ १४५.१७ ॥
उपयुक्ताः क्रियास्वेते यज्ञियास्त्विह सर्वशः।
यथाक्रमोपभोगाश्च देवानां पशुमूर्त्तयः॥ १४५.१८ ॥
तेषां रूपानुरूपैश्च प्रमाणैः स्थिरजङ्गमाः।
मनोज्ञैस्तत्र तैर्भागैः सुखिनो ह्युपपेदिरे॥ १४५.१९ ॥
अथ सन्तः प्रवक्ष्यामि साधूनथ ततश्च वै।
ब्राह्मणाः श्रुतिशब्दाश्च देवानां पशुमूर्त्तयः॥ १४५.२० ॥
सम्पूज्य ब्रह्मणा ह्यन्तस्तेन सन्तः प्रचक्षते।
सामान्येषु च धर्मेषु तथा वैशेषिकेषु च॥ १४५.२१ ॥
ब्रह्मक्षत्रविशो युक्ताः श्रौतस्मार्तेन कर्म्मणा।
वर्णाश्रमेषु युक्तस्य सुखोदर्कस्य स्वर्गतौ॥ १४५.२२ ॥
श्रौतस्मार्त्तो हि यो धर्मो ज्ञानधर्मः स उच्यते।
दिव्यानां साधनात् साधुर्ब्रह्मचारीगुरोर्हितः॥ १४५.२३ ॥
कारणात् साधनाच्चैव गृहस्थः साधुरुच्यते।
तपसश्च तथाऽरण्ये साधुर्वैखानसः स्मृतः॥ १४५.२४ ॥
यतमानो यतिः साधुः स्मृतो योगस्य साधनात्।
धर्मो धर्मगतिः प्रोक्तः शब्दो ह्येष क्रियात्मकः॥ १४५.२५ ॥
कुशलाकुशलौ चैव धर्माधर्मौ ब्रवीत् प्रभुः।
अथ देवाश्च पितरः ऋषयश्चैव मानुषाः॥ १४५.२६ ॥
अयं धर्मो ह्ययं नेति ब्रुवते मौनमूर्त्तिना।
धर्मेति धारणे धातुर्महत्वे चैव उच्यते॥ १४५.२७ ॥
आधारणे महत्त्वे वा धर्म्मः स तु निरुच्यते।
तत्रेष्टप्रापको धर्म्म आचार्य्यैरुपदिश्यते॥ १४५.२८ ॥
अधर्म्मश्चानिष्टफल आचार्य्यैर्नोपदिश्यते।
वृद्धाश्च लोलुपाश्चैव आत्मवन्तोह्यदाम्भिकाः॥ १४५.२९ ॥
सम्यग्विनीतामृदवस्तानाचार्यान् प्रचक्षते।
धर्मज्ञैः विहितो धर्म्मः श्रौतस्मार्त्तो द्विजातिभिः॥ १४५.३० ॥
दाराग्निहोत्रसम्बन्धमिज्या श्रौतस्य लक्षणम्।
स्मार्त्तो वर्णाश्रमाचारो यमैश्च नियमैर्युतः॥ १४५.३१ ॥
पूर्वेभ्यो वेदयित्वाह श्रौतं सप्तर्षयोऽब्रुवन्।
ऋचो यजूंषि सामानि ब्रह्मणोऽङ्गानि वै श्रुतिः॥ १४५.३२ ॥
मन्वन्तरस्यातीतस्य स्मृत्वा तन्मनुरब्रवीत्।
तस्मात् स्मार्तः स्मृतो धर्मो वर्णाश्रमविभागशः॥ १४५.३३ ॥
एवं वै द्विविधो धर्म्मः शिष्टाचारः स उच्यते।
शिषेर्धातोश्च निष्ठन्ताच्छिष्ठशब्दं प्रचक्षते॥ १४५.३४ ॥
मन्वन्तरेषु ये शिष्टा इह निष्ठान्तात् धार्मिकाः।
मनुः सप्तर्षयश्चैव लोकसन्तानकारिणः॥ १४५.३५ ॥
तिष्ठन्तीह च धर्मार्थं ताञ्छिष्टान् सम्प्रचक्षते।
तैः शिष्टैश्चलितो धर्मः स्थाप्यते वै युगे युगे॥ १४५.३६ ॥
त्रयीवार्त्ता दण्डनीतिः प्रजा वर्णाश्रमेप्सया।
शिष्टैराचर्य्यते यस्मात् पुनश्चैव मनुक्षये॥ १४५.३७ ॥
पूर्वैः पूर्वैर्मतत्वाच्च शिष्टाचारः स शाश्वतः।
दानं सत्यं तपो लोको विद्येज्या पूजनन्दमः॥ १४५.३८ ॥
अष्टौ तानि चरित्राणि शिष्टाचारस्य लक्षणम्।
शिष्टा यस्माच्चरन्त्येनं मनुः सप्तर्षयश्च ह॥ १४५.३९ ॥
मन्वन्तरेषु सर्वेषु शिष्टाचारस्ततः स्मृतः।
विज्ञेयः श्रवणाच्छ्रौतः स्मरणात्स्मार्त्त उच्यते॥ १४५.४० ॥
इज्या वेदात्मकः श्रौतः स्मार्त्तो वर्णाश्रमात्मकः।
प्रत्यङ्गानि प्रवक्ष्यामि धर्मस्येह तु लक्षणम्॥ १४५.४१ ॥
द्रृष्टानुभूतमर्थञ्च यः पृष्टो न विगूहते।
यथा भूतप्रवादस्तु इत्येतद्धर्मलक्षणम्॥ १४५.४२ ॥
ब्रह्मचर्य्यं तपो मौनं निराहारत्वमेव च।
इत्येतत् तपसो रूपं सुघोरन्तु दुरासदम्॥ १४५.४३ ॥
पशूनां द्रव्यहविषामृक्सामयजुषां तथा।
ऋत्विजां दक्षिणायाश्च संयोगो यज्ञ उच्यते॥ १४५.४४ ॥
आत्मवत्सर्वभूतेषु यो हिताय शुभाय च।
वर्त्तते सततं हृष्टः क्रिया श्रेष्ठा दया स्मृता॥ १४५.४५ ॥
आक्रुष्टोऽभिहतो यस्तु नाक्रोशेत्प्रहरेदपि।
अदुष्टो वाङ्मनः कायैस्तितिक्षुः साक्षमास्मृता॥ १४५.४६ ॥
स्वामिना रक्ष्यमाणानामुत्सृष्टानाञ्च सम्भ्रमे।
परस्वानामनादानमलोभ इति सञ्ज्ञितः॥ १४५.४७ ॥
मैथुनस्यासमाचारो जल्पनाच्चिन्तनात्तथा।
निवृत्तिर्ब्रह्मचर्यञ्च तदेतच्छ्रमलक्षणम्॥ १४५.४८ ॥
आत्मार्थे वा परार्थे वा इन्द्रियाणीह यस्य वै।
विषये न प्रवर्त्तन्ते दमस्यैतत्तु लक्षणम्॥ १४५.४९ ॥
पञ्चात्मके यो विषये कारणे चाष्टलक्षणे।
तत्तद्गुणवते देयमित्येतद्दानलक्षणम्॥ १४५.५१ ॥
श्रुतिस्मृतिभ्यां विहितो धर्मो वर्णाश्रमात्मकः।
शिष्टाचारप्रवृद्धश्च धर्मोऽयं साधुसम्मतः॥ १४५.५२ ॥
अप्रद्वेष्यो ह्यनिष्टेषु इष्टं वै नाभिनन्दति।
प्रीतितापविषादानां विनिवृत्तिर्विरक्तता॥ १४५.५३ ॥
सन्न्यासः कर्मणां न्यासः कृतानामकृतैः सह।
कुशलाकुशलाभ्यां तु प्रहाणं न्यास उच्यते॥ १४५.५४ ॥
अव्यक्तादिविशेषान्त विकारेऽस्मिन्निवर्त्तते।
चेतनाचेतनं ज्ञात्वा ज्ञाने ज्ञानी स उच्यते॥ १४५.५५ ॥
प्रत्यङ्गानि तु धर्मस्य चेत्येतल्लक्षणं स्मृतम्।
ऋषिभिर्धर्मतत्त्वज्ञैः पूर्वे स्वायम्भुवेऽन्तरे॥ १४५.५६ ॥
अत्र वो वर्णयिष्यामि विधिं मन्वन्तरस्य तु।
तथैव चातुर्होत्रस्य चातुर्वर्ण्यस्य चैव हि॥ १४५.५७ ॥
प्रति मन्वन्तरञ्चैव श्रुतिरन्या विधीयते।
ऋचो यजूंषि सामानि यथावत् प्रतिदैवतम्॥ १४५.५८ ॥
विधिस्तोत्रं तथा होत्रं पूर्ववत् सम्प्रवर्त्तते।
द्रव्यस्तोत्रं गुणस्तोत्रं कर्म्मस्तोत्रं तथैव च॥ १४५.५९ ॥
तथैवाभिजनस्तोत्रं स्तोत्रमेवं चतुर्विधम्।
मन्वन्तरेषु सर्वेषु यथा वेदाद्भवन्ति हि॥ १४५.६० ॥
प्रवर्तयन्ति तेषां वै ब्रह्मस्तोत्रं पुनः पुनः।
एवं मन्त्रगुणानान्तु समुत्पत्तिश्चतुर्विधा॥ १४५.६१ ॥
अथर्वऋग्यजुः साम्नां वेदेष्विह पृथक् पृथक्।
ऋषिणां तपतां तेषां तपः परमदुश्चरम्॥ १४५.६२ ॥
मन्त्राः प्रादुर्भवन्त्यादौ पूर्वमन्वन्तरस्य ह।
असन्तोषाद्भयाद्दुः खान्मोहाच्छोकाच्च पञ्चधा॥ १४५.६३ ॥
ऋषीणां तारका येन लक्षणेन यद्रृच्छया।
ऋषीणां याद्रृशत्वं हि तद्वक्ष्यामीह लक्षणाम्॥ १४५.६४ ॥
अतीतानागतानाञ्च पञ्चधा ह्यार्षकं स्मृतम्।
तथा ऋषीणां वक्ष्यामि आर्षस्येह समुद्भवम्॥ १४५.६५ ॥
गुणसाम्येन वर्त्तन्ते सर्वसम्प्रलये तदा।
अविभागेन वेदानामनिर्द्देश्यतमोमये॥ १४५.६६ ॥
अबुद्धिपूर्वकं तद्वै चेतनार्थं प्रवर्तते।
तेनार्षं बुद्धिपूर्वन्तु चेतनेनाप्यधिष्ठितम्॥ १४५.६७ ॥
प्रवर्तते यथा ते तु यथा मत्स्योदकावुभौ।
चेतनाधिकृतं सर्वं प्रावर्तत गुणात्मकम्॥
कार्यकारणभावेन तथा तस्य प्रवर्तते॥ १४५.६८ ॥
विषयो विषयित्वञ्च तदा ह्यर्थपदात्मकौ।
कालेन प्रापणीयेन भेदाश्च कारणात्मकाः॥ १४५.६९ ॥
सांसिद्धिकास्तदावृत्ताः क्रमेण महदादयः।
महतोऽसावहङ्कारस्तस्माद्भूतेन्द्रियाणि च॥ १४५.७० ॥
भूतभेदाश्च भूतेभ्यो जज्ञिरे तु परस्परम्।
संसिद्धिकारणं कार्य्यं सद्य एव निवर्त्तते॥ १४५.७१ ॥
यथोल्मुकात्तु विटपा एककालाद्भवन्ति हि।
तथा प्रवृत्ताः क्षेत्रज्ञाः कालेनैकेनकारणात्॥ १४५.७२ ॥
यथान्धकारे खद्योतः सहसा सम्प्रद्रृश्यते।
तथा निवृत्तो ह्यव्यक्तः खद्योत इव सज्वलन्॥ १४५.७३ ॥
स महात्मा शरीरस्थस्तत्रैवेह प्रवर्त्तते।
महतस्तमसः पारे वैलक्षण्याद्विभाव्यते॥ १४५.७४ ॥
तत्रैव संस्थितो विद्वान् तपसान्त इति श्रुतम्।
बुद्धिर्विवर्द्धतस्तस्य प्रादुर्भूता चतुर्विधा॥ १४५.७५ ॥
ज्ञानं वैराग्यमैश्वर्यं धर्मश्चेति चतुष्टयम्।
सांसिद्धिकान्यथैतानि अप्रतीतानि तस्य वै॥ १४५.७६ ॥
महात्मनः शरीरस्य चैतन्यात् सिद्धिरुच्यते।
पुरि शेते यतः पूर्वं क्षेत्रज्ञानं तथापि च॥ १४५.७७ ॥
पुरे शयनात् पुरुषः क्षेत्रज्ञानात् क्षेत्रज्ञ उच्यते।
यस्माद्धर्मात् प्रसूते हि तस्माद्वै धार्मिकस्तु सः॥ १४५.७८ ॥
सांसिद्धिके शरीरे च बुद्ध्याव्यक्तस्तु चेतनः।
एवं विवृत्तः क्षेत्रज्ञः क्षेत्रं ह्यनभिसन्धितः॥ १४५.७९ ॥
निवृत्तिसमकाले तु पुराणन्तदचेतनम्।
क्षेत्रज्ञेन परिज्ञातं भोग्योऽयं विषयो मम॥ १४५.८० ॥
ऋषिर्हिंसागतौ धातुर्विद्या सत्यं तपः श्रुतम्।
एष सन्निचयो यस्माद् ब्रह्मणस्तु ततस्त्वृषिः॥ १४५.८१ ॥
निवृत्तिसमकालाच्च बुद्ध्या व्यक्तऋषिस्त्वयम्।
ऋषते परमं यस्मात्परमर्षिस्ततः स्मृतः॥ १४५.८२ ॥
गत्यर्थाद्रृषतेर्धातोर्नामनिर्वृत्तिकारणम्।
यस्मादेष स्वयम्भूतस्तस्माच्च ऋषिता मता॥ १४५.८३ ॥
सेश्वराः स्वयमुद्भूता ब्रह्मणो मानसाः सुताः।
निवर्तमानैस्तैर्बुद्ध्या महान् परिगतः परः॥ १४५.८४ ॥
यस्माद्द्रृशपरत्वेन सह तस्मान्महर्षयः।
ईश्वराणां सुतास्तेषां मानसाश्चौरसाश्च वै॥ १४५.८५ ॥
ऋषिस्तस्मात्परत्वेन भूतादिर्ऋषयस्ततः।
ऋषिपुत्रा ऋषीकास्तु मैथुनाद् गर्भसम्भवाः॥ १४५.८६ ॥
परत्वेन ऋषन्ते वै भूतादिनृषिकास्ततः।
ऋषिकाणां सुता ये तु विज्ञेया ऋषिपुत्रकाः॥ १४५.८७ ॥
श्रुत्वा ऋषं परत्वेन श्रुतास्तस्माच्छ्रुतर्षयः।
अव्यक्तात्मा महात्मा वाहङ्कारात्मा तथैव च॥ १४५.८८ ॥
भूतात्मा चेन्द्रियात्मा च तेषां तज्ज्ञानमुच्यते।
इत्येवमृषिजातिस्तु पञ्चधा नाम विश्रुता॥ १४५.८९ ॥
भृगुर्मरीचिरत्रिश्च अङ्गिरः पुलहः क्रतुः।
मनुर्दक्षो वसिष्ठश्च पुलस्त्यश्चापि ते दश॥ १४५.९० ॥
ब्रह्मणो मानसा ह्येते उत्पन्नाः स्वयमीश्वराः।
परत्वेनर्षयो यस्मान्मतास्तस्मान्महर्षयः॥ १४५.९१ ॥
ईश्वराणां सुतास्त्वेषामृषयस्तान्निबोधत।
काव्यो बृहस्पतिश्चैव कश्यपश्च्यवनस्तथा॥ १४५.९२ ॥
उतथ्यो वामदेवश्च अगस्त्यः कौशिकस्तथा।
कर्दमो वालखिल्याश्च विश्रवाः शक्तिवर्द्धनः॥ १४५.९३ ॥
इत्येते ऋषयः प्रोक्तास्तपसा ऋषिताङ्गताः।
तेषां पुत्रानृषीकांस्तु गर्भोत्पन्नान्निबोधत॥ १४५.९४ ॥
वत्सरो नग्नहूश्चैव भरद्वाजश्च वीर्यवान्।
ऋषिर्दीर्घतमा चैव बृहद्वक्षाः शरद्वतः॥ १४५.९५ ॥
वाजिश्रवाः सुचिन्तश्च शावश्च सपराशरः।
श्रृङ्गी च शङ्खपाच्चैव राजा वै श्रवणस्तथा॥ १४५.९६ ॥
इत्येते ऋषिकाः सर्वे सत्येन ऋषिताङ्गताः।
ईश्वरा ऋषयश्चैव ऋषीका ये च विश्रुताः॥ १४५.९७ ॥
एवं मन्त्रकृतः सर्वे कृत्स्नशश्च निबोधत।
भृगुः काश्यपः प्राचेता दधीचो ह्यात्मवानपि॥ १४५.९८ ॥
ऊर्वोऽथ जमदग्निश्च वेदः सारस्वतस्तथा।
आर्ष्टिषेणश्च्यवनश्च पीतहव्य स वेधसः॥ १४५.९९ ॥
वैण्यः पृथुर्दिवोदासो ब्रह्मवान् गृत्सशौनकौ।
एकोनविंशतिर्ह्येते भृगवो मन्त्रकृत्तमाः॥ १४५.१०० ॥
अङ्गिराश्चैव त्रितश्च भरद्वाजोऽथ लक्ष्मणः।
कृतवाचस्तथा गर्गः स्मृतिसंस्कृतिरेव च॥ १४५.१०१ ॥
गुरुवीतश्च मान्धाता अम्वरीषस्तथैव च।
युवनाश्वः पुरुकुत्सः स्वश्रवस्तु सदस्यवान्॥ १४५.१०२ ॥
अजमीढो स्वहार्यश्च ह्युत्कलः कविरेव च।
पृषदश्वो विरूपश्च काव्यश्चैवाथ मुद्गलः॥ १४५.१०३ ॥
उतथ्यश्च शरद्वांश्च तथा वाजिश्रवा अपि।
अपस्यौषः सुचित्तिश्च वामदेवस्तथैव च॥ १४५.१०४ ॥
ऋषिजो बृहच्छुल्कश्च ऋषिर्दीर्घतमा अपि।
कक्षीवांश्च त्रयस्त्रिंशत् स्मृता ह्यङ्गिरसां वराः॥ १४५.१०५ ॥
एते मन्त्रकृतः सर्वे काश्यपांस्तु निबोधत।
कश्यपः सहवत्सारो नैध्रुवो नित्य एव च॥ १४५.१०६ ॥
असितो देवलश्चैव षडेते ब्रह्मवादिनः।
अत्रिरर्द्धस्वनश्चैव शावास्योऽथ गविष्ठिरः॥ १४५.१०७ ॥
कर्णकश्च ऋषिः सिद्धस्तथा पूर्वातिथिश्च यः॥ १४५.१०८ ॥
इत्येते त्वत्रयः प्रोक्ता मन्तकृत् षण्महर्षयः ।
वसिष्ठश्चैव शक्तिश्च तृतीयश्च पराशरः॥ १४५.१०९ ॥
ततस्तु इन्द्रप्रतिमः पञ्चमस्तु भरद्वसुः।
षष्ठस्तु मित्रावरुणः सप्तमः कुण्डिनस्तथा॥ १४५.११० ॥
इत्येते सप्त विज्ञेया वासिष्ठा ब्रह्मवादिनः।
विश्वामित्रश्च गाधेयो देवरातस्तथा बलः॥ १४५.१११ ॥
तथा विद्वन्मधुच्छन्दा ऋषिश्चान्योऽघमर्षणः।
अष्टको लोहितश्चैव भृतकीलश्चमाम्बुधिः॥ १४५.११२ ॥
देवश्रवा देवरतः पुराणश्च धनञ्जयः।
शिशिरश्च महातेजाः शालङ्कायन एव च॥ १४५.११३ ॥
त्रयोदशैते विज्ञेया ब्रह्मिष्ठाः कौशिका वराः।
अगस्त्योऽथ द्रृढद्युम्नो इन्द्रबाहुस्तथैव च॥ १४५.११४ ॥
ब्रह्मिष्टागस्तयो ह्येते त्रयः परमकीर्त्तयः।
मनुर्वैवस्वतश्चैव ऐलो राजा पुरूरवाः॥ १४५.११५ ॥
क्षत्रियाणां वरौ ह्येतौ विज्ञेयौ मन्त्रवादिनौ।
भलन्दकश्च वासाश्वः सङ्कीलश्चैव ते त्रयः॥१४५.११६ ॥
एते मन्त्रकृतो ज्ञेया वैश्यानां प्रवराः सदा।
इति द्विनवतिः प्रोक्ता मन्त्रा यैश्च बहिष्कृताः॥ १४५.११७ ॥
ब्राह्मणाः क्षत्रिया वैश्या ऋषिपुत्रान्निबोधत।
ऋषीकाणां सुता ज्ञेते ऋषिपुत्राः श्रुतर्षयः॥ १४५.११८ ॥