१४२

चतुर्युगमानवर्णनम्।

ऋषय ऊचुः।
चतुर्युगानि यानि स्युः पूर्वे स्वायम्भुवेऽन्तरे।
एषां निसर्गं सङ्ख्याञ्च श्रोतुमिच्छाम विस्तरात्॥ १४२.१ ॥

सूत उवाच।
एतच्चतुर्युगं त्वेवं तद्वक्ष्यामि निबोधत।
तत्प्रमाणं प्रसङ्ख्याय विस्तराच्चैव कृत्स्नशः॥ १४२.२ ॥

लौकिकेन प्रमाणेन निष्पाद्याब्दन्तु मानुषम्।
तेनापीह प्रसङ्ख्याय वक्ष्यामि तु चतुर्यगम्॥ १४२.३ ॥

काष्ठा निमेषा दश पञ्च चैव त्रिंशच्च काष्ठाङ्गणयेत् कलान्तु।
त्रिंशत्कलाश्चैव भवेन् मुहूर्तस्तैस्त्रिंशता रात्र्यहनी समेते॥ १४१.४ ॥

अहोरात्रे विभजते सूर्यो मानुषलौकिके।
रात्रिः स्वप्नाय भूतानाञ्चेष्टायै कर्म्मणामहः॥ १४२.५ ॥

पित्र्ये रात्र्यहनी मासः प्रविभागस्तयोः पुनः।
कृष्णपक्षस्त्वहस्तेषां शुक्लः स्वप्नाय शर्वरी॥ १४२.६ ॥

त्रिंशद्ये मानुषा मासाः पैत्रो मासः स उच्यते।
शतानि त्रीणि मासानां षष्ठ्या चाभ्यधिकानि तु॥

पैत्रः संवत्सरो ह्येष मानुषेण विभाव्यते॥ १४२.७ ॥
मानुषेणैव मानेन वर्षाणां यच्छतं भवेत्।

पितॄणां तानि वर्षाणि सङ्ख्यातानि तु त्रीणि वै।
दश च ह्यधिका मासाः पितृसङ्ख्येह कीर्तिताः॥ १४२.८ ॥

लौकिकेन प्रमाणेन अब्दो यो मानुषः स्मृतः।
एतद्दिव्यमहोरात्रमित्येषा वैदिकी श्रुतिः॥ १४२.९ ॥

दिव्ये रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः।
अहस्तु यदुदक् चैव रात्रिर्या दक्षिणायनम्॥
एते रात्र्यहनी दिव्ये प्रसङ्ख्याते तयोः पुनः॥ १४२.१० ॥

त्रिंशद्यानि तु वर्षाणि दिव्यो मासस्तु स स्मृतः।
मानुषाणां शतं यच्च दिव्या मासास्त्रयस्तु वै।
तथैव सह सङ्ख्यातो दिव्य एष विधिः स्मृतः॥ १४२.११ ॥

त्रीणि वर्षशतान्येवं षष्टिवर्षस्तथैव च।
दिव्यः सम्वत्सरोह्येष मानुषेण प्रकीर्तितः॥ १४२.१२ ॥

त्रीणि वर्षसहस्राणि मानुषेण प्रमाणतः।
त्रिंशदन्यानि वर्षाणि स्मृतः सप्तर्षिवत्सरः॥ १४२.१३ ॥

नव यानि सहस्राणि वर्षाणां मानुषाणि च।
वर्षाणि नवतिश्चैव ध्रुवसम्वत्सरः स्मृतः॥
षट्‌त्रिंशत्तु सहस्राणि वर्षाणां मानुषाणि च॥ १४२.१४ ॥

षष्टिश्चैव सहस्राणि सङ्ख्यातानि तु सङ्ख्यया।
दिव्यं वर्षसहस्रन्तु प्राहुः सङ्ख्याविदो जनाः॥ १४२.१५ ॥

इत्येतद्रृषिभिर्गीतं दिव्यया सङ्ख्यया द्विजाः।
दिव्येनैव प्रमाणेन युगसङ्ख्या प्रकल्पिता॥ १४२.१६ ॥

चत्वारि भारते वर्षे युगानि ऋषयोऽब्रुवन्।
कृतत्रेता द्वापरञ्च कलिश्चैवं चतुर्युगम्॥ १४२.१७ ॥

पूर्वं कृतयुगं नाम ततस्त्रेताभिधीयते।
द्वापरञ्च कलिश्चैव युगानि परिकल्पयेत्॥ १४२.१८ ॥

चत्वार्याहुः सहस्राणि वर्षाणां तत् कृतं युगम्।
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः॥ १४२.१९ ॥

इतरेषु ससन्ध्येषु ससन्ध्यांशेषु च त्रिषु।
एकपादे निवर्तन्ते सहस्रणि शतानि च॥ १४२.२० ॥

त्रेता त्रीणि सहस्राणि युगसङ्ख्याविदो विदुः।
तस्यापि त्रिशती सन्ध्या सन्ध्यांशः सन्ध्यया समः॥ १४२.२१ ॥

द्वे सहस्रे द्वापरन्तु सन्ध्यांशौ तु चतुः शतम्।
सहस्रमेकं वर्षाणां कलिरेव प्रकीर्तितः।

द्वेशते च तथान्ये च सन्ध्या सन्ध्यांशयोः स्मृते॥ १४२.२२ ॥
एषा द्वादशसाहस्री युगसङ्ख्या तु सञ्ज्ञिका।

कृतत्रेता द्वापरञ्च कलिश्चेति चतुष्टयम्॥ १४२.२३ ॥
तत्र सम्वत्सराः सृष्टा मानुषास्तान्निबोधत।

नियुतानि दश द्वे च पञ्च चैवात्र सङ्ख्यया॥
अष्टाविंशत्सहस्राणि कृतं युगमथोच्यते॥ १४२.२४ ॥

प्रयुतन्तु तथा पूर्णं द्वे चान्ये नियुते पुनः।
षण्णवतिसहस्राणि सङ्ख्या तानि च सङ्ख्यया॥ १४२.२५ ॥

त्रेतायुगस्य सङ्ख्यैषा मानुषेण तु सञ्ज्ञिता।
अष्टौ शतसहस्राणि वर्षाणां मानुषाणि तु॥
चतुः षष्टिसहस्राणि वर्षाणां द्वापरं युगम्॥ १४२.२६ ॥

चत्वारि नियुतानि स्युर्वर्षाणि तु कलिर्युगम्।
द्वात्रिंशच्च तथान्यानि सहस्राणि तु सङ्ख्यया।
एतत्कलियुगं प्रोक्तं मानुषेण प्रमाणतः॥ १४२.२७ ॥

एषा चतुर्युगावस्था मानुषेण प्रकीर्तिता।
चतुर्युगस्य सङ्ख्याता सन्ध्या सन्ध्यांशकैः सह॥ १४२.२८ ॥

एषा चतुर्युगाख्या तु साधिका त्वेकसप्ततिः।
कृतत्रेतादियुक्ता सा मनोरन्तरमुच्यते॥ १४२.२९ ॥

मन्वन्तरस्य सङ्ख्या तु मानुषेण निबोधत।
एकत्रिंशत्तथाकोट्य सङ्ख्याताः सङ्ख्यया द्विजैः॥ १४२.३० ॥

तथा शतसहस्राणि दशचान्यानि भागशः।
सहस्राणि ते द्वात्रिंशच्छतान्यष्टाधिकानि च॥ १४२.३१ ॥

अशीतिश्चैव वर्षाणि मासाश्चैवाधिकास्तु षट्।
मन्वन्तरस्य सङ्ख्यैषा मानुषेण प्रकीर्तिता॥ १४२.३२ ॥

दिव्येन च प्रमाणेन प्रवक्ष्याम्यन्तरं मनोः।
सहस्राणां शतान्याहुः स च वै परिसङ्ख्यया॥ १४२.३३ ॥

चत्वारिंशत् सहस्राणि मनोरन्तरमुच्यते।
मन्वन्तरस्य कालस्तु युगैः सह प्रकीर्तितः॥ १४२.३४ ॥

एषा चतुर्युगाख्या तु साधिका ह्येकसप्ततिः।
क्रमेण परिवृत्ता सा मनोरन्तरमुच्यते॥ १४२.३५ ॥

एतच्चतुर्दशगुणं कल्पमाहुस्तु तद्विदः।
ततस्तु प्रलयः कृत्स्नः स तु सम्प्रलयो महान्॥ १४२.३६ ॥

कल्पप्रमाणो द्विगुणो यथा भवति सङ्ख्यया।
चतुर्युगाख्या व्याख्याता कृतं त्रेतायुगञ्च वै॥ १४२.३७ ॥

त्रेतासृष्टिं प्रवक्ष्यामि द्वापरं कलिमेव च।
युगपत्समवेतौ द्वौ द्विधा वक्तुं न शक्यते॥ १४२.३८ ॥

क्रमागतं मयाप्येतत्तुभ्यं नोक्तं युगद्वयम्।
ऋषिवंशप्रसङ्गेन व्याकुलत्वात्तथा क्रमात्॥ १४२.३९ ॥

नोक्तं त्रेतायुगे शेषं तद्वक्ष्यामि निबोधत।
अथ त्रेतायुगस्यादौ मनुः सप्तर्षयश्च ये॥
श्रौतस्मार्तं ब्रुवन्धर्मं ब्रह्मणा तु प्रचोदिताः॥ १४२.४० ॥

दाराग्निहोत्रसम्बन्धं ऋग्यजुः सामसंहिताः।
इत्यादिबहुलं श्रौतं धर्मं सप्तर्षयोऽब्रुवन्॥ १४२.४१ ॥

परम्परागतं धर्मं स्मार्तत्वाचारलक्षणम्।
वर्णाश्रमाचारयुक्तं मनुः स्वायम्भुवोऽब्रवीत्॥ १४२.४२ ॥

सत्येन ब्रह्मचर्येण श्रुतेन तपसा तथा।
तेषां सुतप्ततपसा मार्गेणानुक्रमेण ह॥ १४२.४३ ॥

सप्तर्षीणां मनोश्चैव आदौ त्रेतायुगे ततः।
अबुद्धिपूर्वकं तेन सकृत् पूर्वकमेव च॥ १४२.४४ ॥

अभिवृत्तास्तु ते मन्त्रा दर्शनैस्तारकादिभिः।
आदिकल्पे तु देवानां प्रादुर्भूतास्तु ते स्वयम्॥ १४२.४५ ॥

प्रमाणेष्वथ सिद्धानामन्येषाञ्च प्रवर्तते।
मन्त्रयोगो व्यतीतेषु कल्पेष्वथ सहस्रशः।
ते मन्त्रा वै पुनस्तेषां प्रतिमायामुपस्थिताः॥ १४२.४६ ॥

ऋचो यजूंषि सामानि मन्त्राश्चाथर्वणास्तु ये।
सप्तर्षिभिश्च ये प्रोक्ताः स्मार्त्तन्तु मनुरबवीत्॥ १४२.४७ ॥

त्रेतादौ संहिता वेदाः केवलं धर्म्मसेतवः।
संरोधादायुषश्चैव व्यस्यन्ते द्वापरे च ते॥
ऋषयस्तपसा वेदानहोरात्रमधीयत॥ १४२.४८ ॥

अनादिनिधना दिव्याः पूर्वं प्रोक्ताः स्वयम्भुवा।
स्वधर्म्मसंवृताः साङ्गा यथा धर्मं युगे युगे।
विक्रियन्ते स्वधर्म्मन्तु वेदवादाद्यथायुगम्॥ १४२.४९ ॥

आरम्भयज्ञः क्षत्रहविर्यज्ञा विशः स्मृताः।
परिचारयज्ञाः शूद्राश्च जपयज्ञाश्च ब्राह्मणाः॥ १४२.५० ॥

ततः समुदिता वर्णास्त्रेतायां धर्म्मशालिनः।
क्रियावन्तः प्रजावन्तः समृद्धिसुखिनश्च वै॥ १४२.५१ ॥

ब्राह्मणैश्च विधीयन्ते क्षत्रियाः क्षत्रियैर्विशः।
वैश्यान् शूद्रानुवर्तन्ते शूद्रान् परमनुग्रहात्॥ १४२.५२ ॥

शुभाः प्रकृतयस्तेषां दर्मा वर्णाश्रमाश्रयाः।
सङ्कल्पितेन मनसा वाचा वा हस्तकर्म्मणा॥
त्रेतायुगे ह्यविकले कर्मारम्भः प्रसिध्यति॥ १४२.५३ ॥

आयुरूपं बलं मेधा आरोग्यं धर्म्मशीलता।
सर्वसाधारणं ह्येतदासीत्त्रेतायुगे तु वै॥ १४२.५४ ॥

वर्णाश्रमव्यवस्थानमेषां ब्रह्म तथा करोत्।
संहिताश्च तथा मन्त्रा आरोग्यं धर्मशीलता॥ १४२.५५ ॥

संहिताश्च तथा मन्त्रा ऋषिभिर्ब्रह्मणः सुतैः।
यज्ञः प्रवर्तितश्चैव तदा ह्येव तु दैवतैः॥ १४२.५६ ॥

यामै शुक्लैर्जयैश्चैव सर्वसाधनसम्भृतैः।
विश्वसृड्भिस्तथा सार्द्धं देवेन्द्रेण महौजसाः॥
स्वायम्भुवेन्तरे देवैस्ते यज्ञाः प्राक्‌प्रवर्तिताः॥ १४२.५७ ॥

सत्यं जपस्तपोदानां पूर्वं धर्मोऽयमुच्यते।
यदा धर्म्मस्य ह्रसते शाखा धर्म्मस्य वर्द्धते॥ १४२.५८ ॥

जायन्ते च तदा शूरा आयुष्मन्तो महाबलाः।
न्यस्तदण्डा महायोगा यज्वानो ब्रह्मवादिनः॥ १४२.५९ ॥

पद्मपत्रायताक्षाश्च पृथुवक्त्रः सुसंहताः।
सिंहोरस्का महासत्वा मत्तमातङ्गगामिनः॥ १४२.६० ॥

महाधनुर्द्धराश्चैव त्रेतायां चक्रवर्त्तिनः।
सर्वलक्षणपूर्णास्ते न्यग्रोधपरिमण्डलाः॥ १४२.६१ ॥

न्यग्रोधौ तु स्मृतौ बाहू व्यामो न्यग्रोध उच्यते।
व्यामेन तूच्छ्रयो यस्य अत ऊर्द्ध्वन्तु देहिनः॥
समुच्छ्रयो परीणाहो न्यग्रोधपरिमण्डलः॥ १४२.६२ ॥

चक्रं रथो मणिर्मार्या निधिरश्वो गजस्तथा।
प्रोक्तानि सप्तरत्नानि पूर्वं स्वायम्भुवेऽन्तरे॥ १४२.६३ ॥

विष्णोरंशेन जायन्ते पृथिव्यां चक्रवर्तिनः।
मन्वन्तरेषु सर्वेषु ह्यतीतानागतेषु वै॥ १४२.६४ ॥

भूतभव्यानि यानीह वर्तमानानि यानि च।
त्रेतायुगानि तेष्वत्र जायन्ते चक्रवर्तिनः॥ १४२.६५ ॥

भद्राणीमानि तेषाञ्च विभाव्यन्ते महीक्षिताम्।
अत्यद्भुतानि चत्वारि बलं धर्मसुखं धनम्॥ १४२.६६ ॥

अन्योन्यस्याविरोधेन प्राप्यन्ते नृपतेः समम्।
अर्थोधर्म्मश्च कामश्च यशो विजय एव च॥ १४२.६७ ॥

ऐश्वर्येणाणिमाद्येन प्रभुशक्तिबलान्विताः।
श्रुतेन तपसा चैव ऋषींस्तेऽभिभवन्ति हि॥ १४२.६८ ॥

बलेनाभिभवन्त्येते तेन दानवमानवान्।
लक्षणैश्चैव जायन्ते शरीरस्थैरमानुषाः॥ १४२.६९ ॥

केशास्थिता ललाटेन जिह्वा च परिमार्जनी।
श्यामप्रभाश्चतुर्दंष्ट्राः श्रवसाश्चोद्‌र्ध्वरेतसः॥ १४२.७० ॥

आजानुबाहवश्चैव तालहस्तौ वृषाकृती।
परिणाहप्रमाणाभ्यां सिंहस्कन्धाश्च मेधिनः॥ १४२.७१ ॥

पादयोश्चक्रमत्स्यौ तु शङ्खपद्मे च हस्तयोः।
पञ्चाशीति सहस्राणि जीवन्ति ह्यजरामयाः॥ १४२.७२ ॥

असङ्गा गतयस्तेषां चतस्रश्चक्रवर्तिनाम्।
अन्तरिक्षे समुद्रेषु पाताले पर्वतेषु च॥ १४२.७३ ॥

इज्यादानन्तपः सत्यन्त्रेताधर्मास्तु वै स्मृताः।
तदा प्रवर्तते धर्मो वर्णाश्रमविभागशः॥ १४२.७४ ॥

मर्यादास्थापनार्थञ्च दण्डनीतिः प्रवर्तते।
हृष्टपुष्टा जनाः सर्वे आरोगाः पूर्णमानसाः॥ १४२.७५ ॥

एको वेदश्चतुष्पादस्त्रेतायान्तु विधिः स्मृतः।
त्रीणि वर्षसहस्राणि जीवन्तो तत्रताः प्रजाः॥ १४२.७६ ॥

पुत्रपौत्रसमाकीर्णा म्रियन्ते च क्रमेण ताः।
एते त्रेतायुगे भावास्त्रेता सङ्ख्यां निबोधत॥ १४२.७७ ॥

त्रेतायुगस्वभावेन सन्ध्या पादेन वर्तते।
सन्ध्या पादः स्वभावाच्च योंऽशः पादेन तिष्ठति॥ १४२.७८ ॥