१३७

मयसमीपे वापीपानकथनम्।

सूत उवाच।
प्रमथैः समरेभिन्नास्त्रैपुरास्ते सुरारयः।
पुरं प्रविविशुर्भीताः प्रमथैर्भग्नगोपुरम्॥ १३७.१ ॥

शीर्ण दंष्ट्रा यथा नागा भग्नश्रृङ्गा यथा वृषाः।
यथा विपक्षाः शकुना नद्यः क्षीणोदका यथा॥ १३७.२ ॥

मृतप्रायास्तथा दैत्या दैवतैर्विकृताननाः।
बभूवुस्ते विमनसः कथं कार्यमिति ब्रुवन्॥ १३७.३ ॥

अथ तान् म्लानमनसस्तदा तामरसाननः।
उवाच दैत्यो दैत्यानां परमाधिपतिर्मयः॥ १३७.४ ॥

कृत्वा युद्धानि घोराणि प्रमथैः सहसामरैः।
तोषयित्वा तथा युद्धे प्रमथानमरैः सह॥ १३७.५ ॥

यूयं यत् प्रथमं दैत्याः पश्चाच्च बलपीडिताः।
प्रविष्टा नगरन्त्रासात् प्रमथैर्भृशमर्दिताः॥ १३७.६ ॥

अप्रियं क्रियते व्यक्तं देवैर्नास्त्यत्र संशयः।
यत्र नाम महाभागाः प्रविशन्ति गिरेर्वनम्॥ १३७.७ ॥

अहो हि कालस्य बलमहो कालो हि दुर्जयः।
यत्रेदृशस्य दुर्गस्य उपरोधोऽयमागतः॥ १३७.८ ॥

मये विवदमाने तु नर्द्दमान इवाम्बुदे।
बभूवुर्निष्प्रभा दैत्या ग्रहा इन्दूदये यथा॥ १३७.९ ॥

वापीपालास्ततोऽभ्येत्य नभः काल इवाम्बुदाः।
मयामाहुर्यमप्रख्यं साञ्जलिप्रग्रहाः स्थिताः॥ १३७.१० ॥

या सामृतरसा गूढा वापी वै निर्मिता त्वया।
समाकुलोत्पलवना समीनाकुलपङ्कजा॥ १३७.११ ॥

पीता सा वृषरूपेण केनचिद्दैत्यनायकः।
वापी सा साम्प्रतं द्रृष्टा मृतसञ्ज्ञा इवाङ्गना॥ १३७.१२ ॥

वापीपालवचः श्रुत्वा मयोऽसौ दानवप्रभुः।
कष्टमित्यसकृत्‌ प्रोच्य दितिजानिदमब्रवीत्॥ १३७.१३ ॥

मया मायाबलकृता वापी पीता त्वियं यदि।
विनष्टाः स्म न सन्देहस्त्रिपुरं दानवागतम्॥ १३७.१४ ॥

निहतान्निहतान् दैत्यानाजीवयति दैवतैः।
पीता वा यदि वा वापी पीता वै पीतवाससा॥ १३७.१५ ॥

कोऽन्यो मन्मायया गुप्तां वापीममृततोयिनीम्।
पास्यते विष्णुमजितं वर्जयित्वा गदाधरम्॥ १३७.१६ ॥

सुगुह्यमपि दैत्यानां नास्त्यस्याविदितम्भुवि।
यत्र मद्वरकौशल्यं विज्ञानं न वृतं बुधैः॥ १३७.१७ ॥

समोऽयं रुचिरो देशो निर्द्रुमो निर्द्रुमाचलः।
लभेमन्द्रूरतः कृत्वा बाधन्तेऽस्मान् गणामराः॥ १३७.१८ ॥

ते यूयं यदि मन्यध्वं सागरोपरिधिष्ठिताः।
प्रमथानां महावेगं सहामः श्वसनोपमम्॥ १३७.१९ ॥

एतेषाञ्च समारम्भास्तस्मिन् सागरसम्प्लवे।
निरुत्साहा भविष्यन्ति एतद्रथपथावृताः॥ १३७.२० ॥

युध्यतां निघ्नतां शत्रून्‌ भीतानाञ्च द्रविष्यताम्।
सागरोऽम्बरसङ्काशः शरणन्नो भविष्यति॥ १३७.२१ ॥

इत्युक्त्वा स मयो दैत्यो दैत्यानामधिपस्तदा।
त्रिपुरेण ययौ तूर्णं सागरं सिन्दुबान्धवम्॥ १३७.२२ ॥

सागरे जलगम्भीर उत्पपात पुरं वरम्।
अवतस्थुः पुराण्येव गोपुराभरणानि च॥ १३७.२३ ॥

अपक्रान्ते तु त्रिपुरे त्रिपुरारिस्त्रिलोचनः।
पितामहमुवाचेदं वेदवादविशारदम्॥ १३७.२४ ॥

पितामह! द्रृढं भीता भगवन्! दानवा हि नः।
विपुलं सागरन्ते तु दानवाः समुपाश्रिताः॥ १३७.२५ ॥

यत एव हि ते यातास्त्रिपुरेण तु दानवाः।
तत एव रथं तूर्णं प्रापयस्व पितामह॥ १३७.२६ ॥

सिंहनादं ततः कृत्वा देवा देवरथञ्च तम्।
परिवार्य ययुर्हृष्टाः सायुधाः पश्चिमौ दधिम्॥ १३७.२७ ॥

ततोऽमरामरगुरुं परिवार्य भवं हरम्।
नर्दयन्तो ययुस्तूर्णं सागरं दानवालयम्॥ १३७.२८ ॥

अथ चारुपताकभूषितं पटहाडम्बरशङ्कनादितम्।
त्रिपुरमभिसमीक्ष्य देवता विविधबला ननदुर्यथा घनाः॥ १३७.२९ ॥

असुरवरपुरेऽपि दारुणो जलधरारवमृदङ्गगह्वरः।
दनुतनयनिनादमिश्रितः प्रतिनिधिसङ्क्षुभितार्णवोपमः॥ १३७.३० ॥

अथ भुवनपतिर्गतिः सुराणामरिमृगयां प्रददात् सुलब्धबुद्धिः।
त्रिदशगणापतिर्ह्युवा च शक्रम् त्रिपुरगतं सहसा निरीक्ष्य शत्रुम्॥ १३७.३१ ॥

त्रिदशगणपते! निशामयैतत् त्रिपुरनिकेतनमुत्तमं सुरेन्द्र।
यमवरुणकुबेरषण्मुखैस्तत् सह गणपैरपि हन्मि तावदेव॥ १३७.३२ ॥

विहितपरबलाभिघातभूतम् व्रज जलधेस्तु यतः पुराणि तस्थुः।
स रथवरगतो भवः समर्थो ह्युदधिमगात् त्रिपुरं पुनर्निहन्तुम्॥ १३७.३३ ॥

इति परिगणयन्तोदितेः सुता ह्यवतस्थुर्लवणार्णवोपरिष्टात्॥
अभिभवत् त्रिपुरं स दानवेन्द्रं शरवर्षैर्मुसलैश्च वज्रमिश्रैः॥ १३७.३४ ॥

अहमपि रथवर्यमास्थितः सुरवरवर्य्य! भवेय पृष्ठतः।
असुरवरवधार्थमुद्यतानाम् प्रतिविदधामि सुखयतेऽनघ॥ १३७.३५ ॥

इति भववचनप्रचोदितो दशशतनयनवपुः समुद्यतः।
त्रिपुरपुरजिघांसया हरिः प्रविकसिताम्बुजलोचनो ययौ॥ १३७.३६ ॥