१३६

मयस्य महेश्वररूपस्य कालस्य प्रशंसावर्णनम्।

सूत उवाच।
मयः प्रहारं कृत्वा तु मायावी दानवर्षभः।
विवेश तूर्णं त्रिपुरमभ्रं नीलमिवाम्बरम्॥ १३६.१ ॥

सदीर्घमुष्णं निःश्वस्य दानवान्‌ वीक्ष्य मध्यगान्।
दध्यौ लोकक्षये प्राप्ते कालं काल इवापरः॥ १३६.२ ॥

इन्द्रोऽपि बिभ्यते यस्य स्थितो युद्धेप्सुरग्रतः।
स चापि निधनं प्राप्तो विद्युन्माली महायशाः॥ १३६.३ ॥

दुर्गं वै त्रिपुरस्यास्य न समं विद्यते पुरम्।
तस्याप्येषो नयः प्राप्तो न दुर्गं कारणं क्वचित्॥ १३६.४ ॥

कालस्यैव वशे सर्वं दुर्गं दुर्गतरञ्च यत्।
काले क्रुद्धे कथं कालात्त्राणं नोऽद्य भविष्यति॥ १३६.५ ॥

लोकेषु त्रिषु यत् किञ्चिद्‌बलं वै सर्वजन्तुषु।
कालस्य तद्वशं सर्वमिति पैतामहो विधिः॥ १३६.६ ॥

अस्मिन् कः प्रभवोद्योगोह्यसन्धार्ये मितात्मनि।
लङ्घने कः समर्थः स्याद् ऋते देवं महेश्वरम्॥ १३६.७ ॥

बिभेमि नेन्द्राद्धि यमाद् वरुणान्न च वित्तपात्।
स्वामी चैषान्तु देवानां दुर्जयः स महेश्वरः॥ १३६.८ ॥

ऐश्वर्यस्य फलं यत्तत् प्रभुत्वस्य च यत् फलम्।
तदद्य दर्शयिष्यामि यावद्वीराः समन्ततः॥ १३६.९ ॥

वापीममृततोयेन पूर्णा स्रक्ष्ये वरौषधीः।
जीविष्यन्ति तदा दैत्याः सञ्जीवनवरौषधीः॥ १३६.१० ॥

इति सञ्चित्य बलवान् मयो मायाविनां वरः।
मायया ससृजे वापीं रम्भामिव पितामहः॥ १३६.११ ॥

द्वियोजनायतां दीर्घां पूर्णयोजनविस्तृताम्।
आरोहसङ्क्रमवतीं चित्ररूपां तथैव च॥ १३६.१२ ॥

इन्दोः किरणकल्पेन मृष्टेनामृतगन्धिना।
पूर्णां परमतोयेन गुणपूर्णामिवाङ्गनाम्॥ १३६.१३ ॥

उत्पलैः कुमुदैः पद्मैर्वृतां कादम्बकैस्तथा।
चन्द्रभास्करवर्णाभैर्भीमैरावरणैर्वृताम्॥ १३६.१४ ॥

खगैमधुररावैश्च चारुचामीकरप्रभैः।
कामैषिभिरिवाकीर्णां जीवानामरणीमिव॥ १३६.१५ ॥

तां वापीं सृज्य स मयो गङ्गामिव महेश्वरः।
तस्यां प्रक्षापयामास विद्युन्मालिनमादितः॥ १३६.१६ ॥

स वाप्यां मज्जितो दैत्यो देवशत्रुर्महाबलः।
उत्तस्थाविन्धनैरिद्धः सद्यो हुत इवानलः॥ १३६.१७ ॥

मयस्य चाञ्जलिं कृत्वा तारकाख्योऽभिवादितः।
विद्युन्मालीति वचनं मयमुत्थाय चाब्रवीत्॥ १३६.१८ ॥

क्व नन्दी सह रुद्रेण वृतः प्रथकजम्बुकैः।
युद्‌ध्यामो नन्दिनं पीड्य दया देहेषु का हि नः॥ १३६.१९ ॥

अन्वास्यैव च रुद्रस्य भवामः प्रभविष्णवः।
तैर्वा विनिहता युद्धे भविष्यामो यमाशनाः॥ १३६,२० ॥

विद्युन्‌मालेः निशम्यैतन्मयोवचनमूर्जितम्।
तं परिष्वज्य सार्द्राक्ष इदमाह महासुरः॥ १३६.२१ ॥

विद्युन्‌मालिन्न मे राज्यमभिप्रेतन्न जीवितम्।
त्वया विना महाबाहो! किमन्येन महासुर!॥ १३६.२२ ॥

महामृतमयी वापी ह्येषा मायाभिरीश्वर!।
सृष्टा दानवदैत्यानां हतानां जीववर्द्धिनी॥ १३६.२३ ॥

दिष्ट्या त्वां दैत्य! पश्यामि यमलोकादिहागतम्।
दुर्गतावनयग्रस्तं भोक्ष्यामोऽद्य महानिधिम्॥ १३६.२४ ॥

द्रृष्ट्वा द्रृष्ट्वा च तां वापीं मायया मयनिर्मिताम्।
हृष्टाननाक्षा दैत्येन्द्रा इदं वचनमब्रुवन्॥ १३६.२५ ॥

दानवा! युद्‌द्यतेदानीं प्रमथैः सहनिर्भयाः।
मयेन निर्मितावापी हतान् सञ्जीवयिष्यति॥ १३६.२६ ॥

ततः क्षुब्धाम्बुनिधिभा भेरीसानु भयङ्करी।
वाद्यमाना ननादोच्चै रौरवी सा पुनः पुनः॥ १३६.२७ ॥

श्रुत्वा भेरीरवं घोरं मेघारम्भित सन्निभम्।
न्यपतन्नसुरास्तूर्णं त्रिपुराद्युद्धलालसाः॥ १३६.२८ ॥

लोहरायतसौवर्णैः कटकैर्मणिराजितैः।
आमुक्तैः कुण्डलैहारैर्मुकुटैरपि चोत्कटैः॥ १३६.२९ ॥

धूमायिता ह्यविरमा ज्वलन्त इव पावकाः।
आयुधानि समादाय काशिनो द्रृढविक्रमाः॥ १३६.३० ॥

नृत्यमाना इव नटा गर्जन्न्त इव तोयदा।
करोच्छ्राया इव गजा सिंहा इव च निर्भयाः॥ १३६.३१ ॥

ह्रदा इव च गम्भीराः सूर्य्या इव प्रतापिताः।
द्रुमा इव च दैत्येन्द्रा त्रासयन्ते बलं महत्॥ १३६.३२ ॥

प्रमथा अपि सोत्साहा गरुडोत्पात पातिनः।
युयुत्सवोऽभिधावन्ति दानवान् दानवारयः॥ १३६.३३ ॥

नन्दीश्वरेण प्रमथास्तारकाख्येण दानवाः।
चक्रुः संहत्य सङ्ग्रामञ्चोद्यमाना बलेन च॥ १३६.३४ ॥

तेऽसिभिश्चन्द्रसङ्काशैः शूलैश्चानलपिङ्गलैः।
बाणैश्च द्रृढनिर्मुक्तैरभिजघ्नुः परस्परम्॥ १३०.३५ ॥

शराणां सृज्यमानानामसीनाञ्च निपात्यताम्।
रूपाण्यासन्‌ महोल्कानां पतन्तीनामिवाम्बरात्॥ १३०.३६ ॥

शक्तिभिर्भिन्नहृदया निर्दया इव पातिताः।
निरयेष्विव निर्मग्नाः कूजन्ते प्रमथासुराः॥ १३६.३७ ॥

हेमकुण्डलयुक्तानि किरीटोत्कटवन्तिच।
शिरांस्युर्व्या पतन्तिस्म गिरिकूटानिवात्यये॥ १३६.३८ ॥

परश्वधैः पट्टिशैश्च खङ्गैश्च परिघैस्तथा।
छिन्नाः करिवराकारा निपेतुस्ते धरातले॥ १३६.३९ ॥

गर्जन्ति सहसा हृष्टाः प्रमथा भीमगर्जनाः।
साधयन्त्यपरे सिद्धा युद्धगान्धर्वमद्भुतम्॥ १३६.४० ॥

बलवान्‌ भासि प्रमथ दर्पितो भासि दानव!।
इति चोच्चारयन्वाचं वारणा रणधूर्गताः॥ १३६.४१ ॥

परिघैराहता केचिद्दानवैः शङ्करानुगाः।
वमन्ते रुधिरं वक्त्रैः स्वर्णधातुमिवाचलाः॥ १३६.४२ ॥

प्रमधैरपि नाराचैरसुराः सुरशत्रवः।
द्रुमैश्च गिरिश्रृङ्गैश्च गाढमेवाहवे हताः॥ १३६.४३ ॥

सूदितानथ तान् दैत्यानन्ये दानवपुङ्गवाः।
उत्‌क्षिप्य चिक्षिपुर्वाप्यां मयदानव नोदिताः॥ १३६.४४ ॥

ते चापि भास्वरैर्देहैः स्वर्गलोक इवामराः।
उत्तस्थुर्वापीमासाद्य सद्रूपा भरणाम्बराः॥ १३६.४५ ॥

अथैके दानवाः प्राप्य वापी प्रक्षेपणादसून्।
आस्फोट्य सिंहनादञ्च कृत्वा धावंस्तथा सुराः॥ १३६.४६ ॥

दानवाः प्रमथानेतान् प्रसर्पत किमासथ।
हतानपि हि वो वापी पुनरुज्जीवयिष्यति॥ १३६.४७ ॥

एवं श्रुत्वा शङ्कुकर्णो वचोऽग्रग्रहसन्निभः।
द्रुतमेवेत्य देवेशमिदं वचनमब्रवीत्॥ १३६.४८ ॥

सूदिताः सूदिता देव! प्रमथैरसुराह्यमी।
उत्तिष्ठन्ति पुनर्भीमाः सस्या इव जलोक्षिताः॥ १३६.४९ ॥

अस्मिन् किल पुरे वापी पूर्णामृतरसाम्भसा।
निहता निहता यत्र क्षिप्ता जीवन्ति दानवाः॥ १३६.५० ॥

इति विज्ञापयेद्देवं शङ्कुकर्णो महेश्वरम्।
अभवन् दानवबल उत्पाता वै सुदारुणाः॥ १३६.५१ ॥

तारकाख्यः सुभीमाक्षो दारितास्यो हरिर्यथा।
अभ्यधावत् सुसङ्क्रुद्धो महादेवरथं प्रति॥ १३६.५२ ॥

त्रिपुरे तु महान्घोरो भेरीशङ्खरवो बभौ।
दानवा निः सृता द्रृष्ट्वा देवदेवरथे सुरम्॥ १३६.५३ ॥

भूकम्पश्चाभवत्तत्र शताङ्गो भूगतोऽभवत्।
द्रृष्ट्वा क्षोभमगाद्रुद्रः स्वयम्भूश्च पितामहः॥ १३६.५४ ॥

ताभ्यां देववरिष्ठाभ्यामन्वितः स रथोत्तमः।
अनायतनमासाद्य सीदते गुणवानिव॥ १३६.५५ ॥

धातुक्षये देह इव ग्रीष्मे चाल्पमिवोदकम्।
शैथिल्यं याति स रथः स्नेहो विप्रकृतो यथा॥ १३६.५६ ॥

रथादुत्पत्यात्मभूर्वै सीदन्तं तु रथोत्तमम्।
वृषरूपं महत् कृत्वा रथं जग्राह दुर्धरम्॥ १३६.५७ ॥

तदा शराद्विनिष्पत्य पीतवासा जनार्दनः।
वृषरूपं महत् कृत्वा रथं जग्राह दुर्धरम्॥ १३६.५८ ॥

सविषाणाभ्यां त्रैलोक्यं रथमेव महारथः।
प्रगृह्योद्वहते सज्जं कुलं कुलवहो यथा॥ १३६.५९ ॥

तारकाख्योऽपि दैत्येन्द्रो गिरीन्द्र इव पक्षवान्।
अभ्यद्रवत्तदा देवं ब्रह्माणं हतवांश्च सः॥ १३६.६० ॥

स तारकाख्याभिहतः प्रतोदं न्यस्य कूबरे।
विजज्वाल मुहुर्ब्रह्मा श्वासं वक्त्रात् समुद्गिरन्॥ १३६.६१ ॥

तत्र दैत्यैर्महानादो दानवैरपि भैरवः।
तारकाख्यस्य पूजार्थं कृतो जलधरोपमः॥ १३६.६२ ॥

रथचरणकरोऽथ महामृधे वृषभवपुर्वृषभेन्द्रपूजितः।
दितितनयबलं विमर्द्य सर्वं त्रिपुरपुरं प्रविवेश केशवः॥ १३६.६३ ॥

सजलजलदराजिता समस्तां कुमुदवरोपलफुल्लपङ्कजाढ्याम्।
सुरगुरुरपिबत्पयोऽमृतन्तद्रविरिव सञ्चितशार्वरन्तमोऽन्धम्॥ १३६.६४ ॥

वापीं पीत्वा सुरेन्द्राणां पीतवासाजनार्दनः।
नर्दमानो महाबाहुः प्रविवेश शरन्ततः॥ १३६.६५ ॥

ततोऽसुरा भीमगणेश्वरैर्हताः प्रहारसम्बर्द्धितशोणितापगाः।
पराङ्मुखाभीममुखैः कृतारणे यथा नयाभ्युद्यततत्परैर्नरः॥ १३६.६६ ॥

स तारकाख्यस्तडिमालिरेव च मयेन सार्द्धं प्रमथैरभिद्रुता।
पुरं परा वृत्यनुतेशरार्दिता यथा शरीरं पवनोदये गता॥ १३६.६७ ॥

गणेश्वराभ्युद्यतदर्पकाशिनो महेन्द्रनन्दीश्वरषण्मुखायुधि।
विनेदुरुच्चैर्जहसुश्च दुर्मदा जयेम चन्द्रादि दिगीश्वरैः सह॥ १३६.६८ ॥