१३५

इलावृतवर्षवर्णनम्।
सूत उवाच।
ततो रणे देवबलं नारदोऽभ्यगमत् पुनः।
आगत्य चैव त्रिपुरात्सभायामास्थितः स्वयम्॥ १३५.१ ॥

इलावृतमितिख्यातं तद्वर्षं विस्तृतायतम्।
यत्र यज्ञो बलेर्वृत्तो बलिर्यत्र च संयतः॥ १३५.२ ॥

देवानां जन्मभूमिर्या त्रिषु लोकेषु विश्रुता।
विवाहाः क्रतवश्चैव जातकर्म्मादिकाः क्रियाः॥ १३५.३ ॥

देवानां यत्र वृत्तानि कन्यादानानि यानि च।
रेमे नित्यं भवो यत्र सहायैः पार्षदैर्गणैः॥ १३५.४ ॥

लोकपालाः सदा यत्र तस्थुर्मेरुगिरौ यथा।
मधुपिङ्गलनेत्रस्तु चन्द्रावयवभूषणः॥
देवानामधिपं प्राह गणपांश्च महेश्वरः॥ १३५.५ ॥

वासवैतदरीणां ते त्रिपुरं परिद्रृश्यते।
विमानैश्च पताकाभिर्ध्वजैश्च समलङ्कृतम्॥ १३५.६ ॥

इदं वृत्रमिदं ख्यातं वह्निवद्भृशतापनम्।
एते जना गिरिप्रख्याः सकुण्डलकिरीटिनः॥ १३५.७ ॥

प्राकारगोपुराट्टेषु कक्षान्ते दानवाः स्थिताः।
इमे च तोयदाभासा दनुजा विकृताननाः॥ १३५.८ ॥

निर्गच्छन्ति पुरो दैत्याः सायुधा विजयैषिणः।
स त्वं शरशतैः सार्द्धं ससहायो वरायुधः॥ १३५.९ ॥

सहद्भिर्मामकैर्भृत्यैर्व्यापादय महासुरान्॥ १३५.१० ॥

अहं च रथवर्येण निश्चलाचलवत् स्थितः।
पुरः पुरस्य रन्ध्रार्थी स्थास्यामि विजयाय वः॥ १३५.११ ॥

यदा तु पुष्पयोगेन एकत्वं स्थास्यते परम्।
तदेतन्निर्दहस्यामि शरेणैकेन वासव!॥ १३५.१२ ॥

इत्युक्तो वै भगवता रुद्रेणेह सुरेश्वरः।
ययौ तत् त्रिपुरं जेतुं तेन सैन्येन संवृतः॥ १३५.१३ ॥

प्रक्रान्तरथभीमैस्तैः स देवैः पार्षदाङ्गणैः।
कृतसिंहरवोपेतैरुद्गच्छद्भिरिवाम्बुदैः॥ १३५.१४ ॥

तेन नादेन त्रिपुराद्दानवा युद्धलालसाः।
उत्पत्य दुद्रुवुश्चेलुः सायुधाः खे गणेश्वरान्॥ १३५.१५ ॥

अन्ये पयोधरा रावाः पयोधरसमा बभुः।
ससिंहनादं वादित्रं वादयामासुरुद्धताः॥ १३५.१६ ॥

देवानां सिंहनादश्च सर्वतूर्यरवो महान्।
ग्रस्तोऽभूद्दैत्यनादैश्च चन्द्रस्तोयधरैरिव॥ १३५.१७ ॥

चन्द्रोदयात् समुद्भूतः पौर्णमास इवार्णवः।
त्रिपुरं प्रभवत्तद्वद्भीमरूपो महासुरैः॥ १३५.१८ ॥

प्राकारेषु पुरे तत्र गोपुरेष्वपि चापरे।
अट्टालकान् समारुह्य केचिच्चलितवादिनः॥ १३५.१९ ॥

स्वर्णमालाधराः शूराः प्रभासितकराम्बराः।
केचिन्नदन्ति दनुजास्तोयमुक्ता इवाम्बुदाः॥ १३५.२० ॥

इतश्चेतश्च धावन्तः केचिदुद्धूतवाससः।
किमेतदिति पप्रच्छ्रु रन्योन्यं गृहमाश्रिताः॥ १३५.२१ ॥

किमेतन्नैव जानामि ज्ञानमन्तर्हितं हि मे।
ज्ञास्यसे नान्तरेणेति कालो विस्तारतो महान्॥ १३५.२२ ॥

सोऽप्यसौ पृथिवीसारं सिंहश्च रथमास्थितः।
तिष्ठते त्रिपुरं पीड्य देहं व्याधिरवोच्छ्रितः॥ १३५.२३ ॥

य एषोऽस्ति स एषोऽस्तु का चिन्ता सम्भ्रमे सति।
एहि मायुधमादाय क्व मे पृच्छा भविष्यति॥ १३५.२४ ॥

इति तेऽन्योन्यमाविद्धा उत्तरोत्तरभाषिणः।
आसाद्य पृच्छन्ति तदा दानवास्त्रिपुरालयाः॥ १३५.२५ ॥

तारकाक्षपुरे दैत्यास्तारकाक्षपुरः सराः।
निर्गताः कुपितास्तूर्णं बिलादिवमहोरगाः॥ १३५.२६ ॥

निर्द्धावन्तस्तु ते दैत्याः प्रमथाधिपयूथपैः।
निरुद्धा गजराजानो यथा केसरियूथपैः॥ १३५.२७ ॥

दर्पितानां ततश्चैषां दर्पितानामिवाग्निनाम्।
रूपाणि जज्वलुस्तेषामग्नीनामिव धम्यताम्॥ १३५.२८ ॥

ततो बृहन्ति चापानि भीमनादानि सर्वशः।
निकृष्य जघ्नुरन्योन्यमिषुभिः प्राणभोजनैः॥ १३५.२९ ॥

मार्जारमृगभीमास्यान् पार्षदान्विकृताननान्।
द्रृष्ट्वा द्रृष्ट्वा हसन्नुच्चैर्दानवा रूपसम्पदा॥ १३५.३० ॥

बाहुभिः परिघाकारैः कृष्यतां धनुषां शराः।
भटवर्मेषु विविशुस्तडागानीव पक्षिणः॥ १३५.३१ ॥

मृताः स्थ क्व नु यास्येथ हनिष्यामो निवर्त्तताम्।
इत्येवं परुषाण्युक्त्वा दानवाः पार्षदर्षभान्॥ १३५.३२ ॥

बिभिदुः सायकैस्तीक्ष्णैः सूर्य्यपादा इवाम्बुदान्।
प्रमथा अपि सिंहाक्षाः सिंहविक्रान्तविक्रमाः॥
खण्डशैलशिलावृक्षैर्बिभिदुर्दैत्यदानवान्॥ १३५.३३ ॥

अम्बुदैराकुलमिव हंसाकुलमिवाम्बरम्।
दानवाकुलमत्यर्थं तत्पुरं सकलं बभौ॥ १३५.३४ ॥

विकृष्टचापा दैत्येन्द्राः सृजन्ति शरदुर्दिनम्।
इन्द्रचापाङ्कितोरस्का जलदा इव दुर्दिनम्॥ १३५.३५ ॥

इषुभिस्ताड्यमानास्ते भूयो भूयो गणेश्वराः।
चक्रुस्ते देहनिर्यासं स्वर्णधातुमिवाचलाः॥ १३५.३६ ॥

तथा वृक्षशिला वज्रशूलपट्टिपरश्वधैः।
चूर्ण्यन्तेऽभिहता दैत्याः काचाष्टङ्कहता इव॥ १३५.३७ ॥

चन्द्रोदयात् समुद्भूतः पौर्णमास इवार्णवः।
त्रिपुरं प्रभवत्तद्वद्भीमरूपमहासुरैः॥ १३५.३८ ॥

तारकाक्षो जयत्येष इति दैत्या व्यघोषयन्।
जयतीन्द्रश्च रुद्रश्च इत्येव च गणेश्वराः॥ १३५.३९ ॥

वारिता दारिता बाणैर्योधास्तस्मिन् बलोभये।
निः स्वनन्तोऽम्बुसमये जलगर्भा इवाम्बुदाः॥ १३५.४० ॥

करैश्छिन्नैः शिरोभिश्च ध्वजैश्छत्रैश्च पाण्डुरैः।
युद्धभूमिर्भयवती मांसशोणितपूरिता॥ १३५.४१ ॥

व्योम्नि चोत्प्लुत्य सहसा तालमात्रं वरायुधैः।
द्रृढाहताः पतन्पूर्वं दानवाः प्रमथास्तथा॥ १३५.४२ ॥

सिद्धाश्चाप्सरसश्चैव चारणाश्च नभो गताः।
द्रृढप्रहारहृषिताः साधु साध्विति चुक्रुशुः॥ १३५.४३ ॥

अनाहताश्च वियति देवदुन्दुभयस्तथा।
नदन्तो मेघशब्देन सरमा इव रोषिताः॥ १३५.४४ ॥

त तस्मिंस्त्रिपुरे दैत्यानद्यः सिन्धुपताविव।
विशन्ति क्रुद्धवदना वल्मीकमिवपन्नगाः॥ १३५.४५ ॥

तारकाक्षपुरे तस्मिन् सुराः शूराः समन्ततः।
सशस्त्रा निपतन्तिस्म सपक्षा इव भूधराः॥ १३५.४६ ॥

योधयन्ति त्रिभागेन त्रिपुरे तु गणेश्वराः।
विद्युन्माली मयश्चैव भग्नौ च द्रुमवद्रणे॥ १३५.४७ ॥

विद्युन्माली स दैत्येन्द्रो गिरीन्द्रसद्रृशद्युतिः।
आदाय परिघं घोरं ताडयामास नन्दिनम्॥ १३५.४८ ॥

स नन्दी दानवेन्द्रेण परिघेण द्रृढाहतः।
भ्रमते मधुना व्यक्तः पुरा नारायणो यथा॥ १३५.४९ ॥

नन्दीश्वरे गते तत्र गणपाख्यातविक्रमाः।
दुद्रुवुर्जातसंरम्भा विद्युन्मालिनमासुरम्॥ १३५.५० ॥

घण्टाकर्णः शङ्कुकर्णो महाकालश्च पार्षदाः॥ १३५.५१ ॥

ततश्च सायकैः सर्वान् गणपान् गणपाकृतीन्।
भूयो भूयः स विव्याध गणेश्वरमहत्तमान्॥ १३५.५२ ॥

भित्वा भित्वा रुरावोच्चैर्नभस्यम्बुधरो यथा।
तस्यारम्भित शब्देन नन्दी दिनकरप्रभः॥
सञ्ज्ञां लभ्य ततः सोऽपि विद्युन्मालिनमाद्रवत्॥ १३५.५३ ॥

रुद्रदत्तं तदा दीप्तं दीप्तानलसमप्रभम्।
वज्रं वज्रनिभाङ्गस्य दानवस्य ससर्जह॥ १३५.५४ ॥

तन्नन्दिभुजनिर्मुक्तं मुक्ताफलविभूषितम्।
पपात वक्षसि तदा वज्रं दैत्यस्य भीषणम्॥ १३५.५५ ॥

स वज्रं निहतो दैत्यो वज्रसंहननोपमः।
पपात वज्राभिहतः शक्रेणाद्रिरिवाहतः॥ १३५.५६ ॥

दैत्येश्वरं विनिहतं नन्दिना कुलनन्दिना।
चुक्रुशुर्दानवाः प्रेक्ष्य दुद्रुवुश्च गणाधिपाः॥ १३५.५७ ॥

दुः खामर्षितरोषास्ते विद्युन्मालिनिपातिते।
द्रुमशैलमहावृष्टिं पयोदाः ससृजुर्यथा॥ १३५.५८ ॥

ते पीड्यमाना गुरुभिर्गिरिभिश्च गणेश्वराः।
कर्त्तव्यं न विदुः किञ्चिद्वन्द्यमधार्मिका इव ॥ १३५.५९ ॥

ततोऽसुरवरः श्रीमांस्तारकाक्षः प्रतापवान्।
स तरूणां गिरीणां वै तुल्यरूपधरो बभौ॥ १३५.६० ॥

भिन्नोत्तमाङ्गा गणपा भिन्नपादाङ्किताननाः।
विरेजुर्भुजगा मन्त्रैर्वार्यमाणा यथा तथा॥ १३५.६१ ॥

मयेन मायावीर्येण वध्यमाना गणेश्वराः।
भ्रमन्ति बहुशब्दालाः पञ्जरे शकुना इव॥ १३५.६२ ॥

तथा सुरवरः श्रीमांस्तारकाक्षः प्रतापवान्।
ददाह च बलं सर्वं शुष्केन्धनमिवानलः॥ १३५.६३ ॥

तारकाक्षेण वार्यन्ते शरवर्षैस्तदा गणाः।
मयेन माया निहतास्तारकाख्येण चेषुभिः॥ १३५.६४ ॥

गणेशा विधुरा जाता जीर्णमूला यथा द्रुमाः॥ १३५.६५ ॥

भूयः सम्पततो चाग्निर्ग्रहान् ग्राहान् भुजङ्गमान्।
गिरीन्द्रांश्च हरीन् व्याघ्रान् वृक्षान् सृमरवर्णकान्॥ १३५.६६ ॥

शरभानष्टपादांश्च आपः पवनमेव च।
मयो मायाबलेनैव पातयत्येव शत्रुषु॥ १३५.६७ ॥

ते तारकाक्षेण मयेन मायया सम्मुह्यमाना विवशा गणेश्वराः।
न शक्नुवंस्ते मनसापि चेष्टितुं यथेन्द्रियार्था मुनिनाभिसंयताः॥ १३५.६८ ॥

महाजलाग्न्यादि सकुञ्जरोरगैर्हरीन्द्रव्याघ्रर्क्षतरक्षुराक्षसैः।
विबाध्यमानास्तमसा विमोहिताः समुद्रमध्येष्विव गाधकाङ्क्षिणः॥ १३५.६९ ॥

सम्मर्द्यमानेषु गणेश्वरेषु सन्नर्दमानेषु सुरेतरेषु।
ततः सुराणां प्रवराभिरक्षितुं रिपोर्बलं सम्विविशुः सहायुधाः॥ १३५.७० ॥

यनोगदास्रो वरुणश्च भास्करस्तथा कुमारोऽमरकोटिसंयुतः।
स्वयं च शक्रः सितनागवाहनः कुलीशपाणिः सुरलोकपुङ्गवः॥ १३५.७१ ॥

स चोडुनाथः ससुतो दिवाकरा ससान्तकस्त्र्यक्षपतिर्महाद्युतिः।
एते रिपूणां प्रबलाभिरक्षितं तदा बलं सम्विविशुर्मदोद्धताः॥ १३५.७२ ॥

यथा वनं दर्पितकुञ्जराधिपा यथा नभः साम्बुधरं दिवाकरः।
यथा च सिंहैर्विजनेषु गोकुलं तथा बलं तत्त्रिदशैरभिद्रुतम्॥ १३५.७३ ॥

कृतप्रहारा-तुरदीनदानवं ततस्त्वभज्यन्त बलं हि पार्षदाः।
स्वर्ज्योतिषां ज्योतिरिवोष्मवान् हरिर्यथा तमो घोरतरं नराणाम्॥ १३५.७४ ॥

विशान्तयामास यथा सदैव निशाकरः सञ्चितशार्वरन्तमः।
ततोऽपकृष्टे च तमः प्रभावे अस्त्रप्रभावे च विवर्द्धमाने॥ १३५.७५ ॥

दिग्लोकपालैर्गणनायकैश्च कृतो महान् सिंहरवो मुहूर्त्तम्।
सङ्ख्ये विभग्ना विकरा विपादाश्छिन्नोत्तमाङ्गाः शरपूरिताङ्गाः॥ १३५.७६ ॥

देवेतरा देववरैर्विभिन्नाः सीदन्ति पङ्केषु यथा गजेन्द्राः।
वज्रेण भीमेन च वज्रपाणिः शक्त्या च शक्त्या च मयूरकेतुः॥ १३५.७७ ॥

दण्डेन चोग्रेण च धर्मराजः पाशेन चोग्रेण च वारिगोप्ता।
शूलेन कालेन च यक्षराजो वीर्येण तेजस्वितया सुकेशः॥ १३५.७८ ॥

गणेश्वरास्ते सुरसन्निकाशाः पूर्णाहुतीसिक्तशिखिप्रकाशाः।
उत्सादयन्ते दनुपुत्रवृन्दान्यथैव इन्द्राशनयः पतन्त्यः॥ १३५.७९ ॥

मयस्तु देवान् परिरक्षितारमुमात्मजं देववरं कुमारम्।
शरेण भित्वा स हि तारकासुतं सतारकाख्यासुरमाबभाषे॥ १३५.८० ॥

कृत्वा प्रहारं प्रविशामिवीरं पुरं हि दैत्येन्द्र बलेन युक्तः।
विश्राममूर्जस्करमप्यवाप्य पुनः करिष्यामि रणं प्रपन्नैः॥ १३५.८१ ॥

वयं हि शस्त्रक्षतवीक्षिताङ्गा विशीर्णशस्त्रध्वजवर्मवाहाः।
जयैषिणस्ते जयकाशिनश्च गणेश्वरा लोकवराधिपाश्च॥ १३५.८२ ॥

मयस्य श्रुत्वा दिवि तारकाख्यो वचोभिकाङ्क्षन् क्षतजोपमाक्षः।
विवेश तूर्णं त्रिपुरन्दितेः सुतैः सुतैरदित्या युधि वृद्धहर्षैः॥ १३५.८३ ॥

ततः सशङ्खानकभेरिभीमं ससिंहनादं हरसैन्यमाबभौ॥
मयानुगन्धोरगभीरगह्वरं यथा हिमाद्रेर्गजसिंहनादितम्॥ १३५.८४ ॥