त्रिपुरे नारदागमनम्।
सूत उवाच।
पूज्यमाने रथे तस्मिन् लोकैर्देवे रथे स्थिते।
प्रमथेषु नदत्सूग्रं प्रवदत्सु च साध्विति॥ १३४.१ ॥
ईश्वरस्वरघोषेण नर्दमाने महावृषे।
जयत्सु विप्रेषु तथा गर्ज्जत्सु तुरगेषु च॥ १३४.२ ॥
रणाङ्गणात् समुत्पत्य देवर्षिर्नारदः प्रभुः।
कान्त्या चन्द्रोपमस्तूर्णं त्रिपुरं पुरमागतः॥ १३४.३ ॥
औत्पातिकन्तु दैत्यानां त्रिपुरे वर्त्तते ध्रुवम्।
नारदश्चात्र भगवान् प्रादुर्भूतस्तपोधनः॥ १३४.४ ॥
आगतं जलदाभासं समेताः सर्वदानवाः।
उत्तस्थुर्नारदं द्रृष्ट्वा अभिवादनवादिनः॥ १३४.५ ॥
तमर्घ्येण च पाद्येन मधुपर्केण चेश्वराः।
नारदं पूजयामासुर्ब्रह्माणमिव वासवः॥ १३४.६ ॥
तेषां स पूजां पूजार्हः प्रतिगृह्य तपोधनः।
नारदः सुखमासीनः काञ्चने परमासने॥ १३४.७ ॥
मयस्तु सुखमासीने नारदे नारदोद्भवे।
यथार्हं दानवैः सार्द्धमासीनो दानवाधिपः॥ १३४.८ ॥
आसीनं नारदं प्रेक्ष्य मयस्त्वथ महासुरः।
अब्रवीद्वचनं तुष्टो हृष्टरोमाननेक्षणः॥ १३४.९ ॥
औत्पातिकं पुरेऽस्माकं यथा नान्यत्र कुत्रचित्।
वर्त्तते वर्तमानज्ञ! वद त्वं हि च नारद!॥ १३४.१० ॥
द्रृश्यन्ते भयदाः स्वप्ना भज्यन्ते च ध्वजाः परम्।
विना च वायुना केतुः पतते च तथा भुवि॥ १३४.११ ॥
अट्टालकाश्च नृत्यन्ते सपताकाः सगोपुराः।
हिंस हिंसेति श्रूयन्ते गिरश्च भयदाः पुरे॥ १३४.१२ ॥
नाहं बिभेमि देवानां सेन्द्राणामपि नारद! ।
मुक्त्वैकवरदं स्थाणुं भक्ताभयकरं हरम्॥ १३४.१३ ॥
भगवन्नास्त्यविदितमुत्पातेषु तवानघ!।
अनागतमतीतञ्च भवान् जानाति तत्त्वतः॥ १३४.१४ ॥
तदेतन्नोभयस्थानमुत्पाताभिनिवेदितम्।
कथयस्व मुनिश्रेष्ठ! प्रपन्नस्य तु नारद!॥ १३४.१५ ॥
इत्युक्त्वा नारदस्तेन मयेनामयवर्जितः।
नारद उवाच।
श्रृणु दानव! तत्त्वेन भवन्त्यौत्पातिका यथा॥ १३४.१६ ॥
धर्मेति धारणे धातुर्माहात्म्ये चैव पठ्यते।
धारणाच्च महत्त्वेन धर्म एव निरुच्यते॥ १३४.१७ ॥
स इष्टप्रापको धर्म आचार्यैरुपदिश्यते।
इतरश्चानिष्टफल आचार्यैर्नोपदिश्यते॥ १३४.१८ ॥
उत्पथान् मार्गमागच्छेत् मार्गाच्चैव विमार्गताम्।
विनाशस्तस्य निर्देश्य इति वेदविदो विदुः॥ १३४.१९ ॥
सस्वधर्म रथारूढ सहैभिर्मत्तदानवैः।
अपकारिषु देवानां कुरुषे त्वं सहायताम्॥ १३४.२० ॥
तदेतान्येवमादीनि उत्पातावेदितानि च।
वैनाशिकानि द्रृश्यन्ते दानवानां तथैव च॥ १३४.२१ ॥
एष रुद्रः समास्थाय महालोकमयं रथम्।
आयाति त्रिपुरं हन्तुं मय! त्वामसुरानपि॥ १३४.२२ ॥
सत्वं महौजसं नित्यं प्रपद्यस्व महेश्वरम्।
यास्यसे सह पुत्रेण दानवैः सह मानद!॥ १३४.२३ ॥
इत्येवमावेद्य भयं दानवोपस्थितं महत्।
दानवानां पुनर्देवो देवेशपदमागतः॥ १३४.२४ ॥
नारदे तु मुनौ याते मयो दानवनायकः।
शूरसम्मतमित्येवं दानवानाह दानवः॥ १३४.२५ ॥
शूराः स्थ जात पुत्राः स्थ कृतकृत्याः स्थ दानवाः।
युध्यध्वं दैवतैः सार्द्धं कर्तव्यं चापिनो भयम्॥ १३४.२६ ॥
जित्वा वयं भविष्यामः सर्वेऽमरसभासदः।
देवांश्च सेन्द्रकान् हत्वा लोकान् भोक्ष्या महेसुराः॥ १३४.२७ ॥
अट्टालकेषु च तथा तिष्ठध्वं शस्त्रपाणयः।
दंशिता युद्धसज्जाश्च तिष्ठध्वं प्रोद्यतायुधाः॥ १३४.२८ ॥
पुराणि त्रीणि चैतानि यथा स्थानेषु दानवाः।
तिष्ठध्वं लङ्घनीयानि भविष्यन्ति पुराणि च॥ १३४.२९ ॥
न भोगतास्तथा शूरा देवता विदिता हि वः।
ताः प्रयत्नेन वार्याश्च विदार्याश्चैव सायकैः॥ १३४.३० ॥
इति दनुतनयान्मयस्तथोक्वा सुरगणवारणवारणे वचांसि।
युवतिजनविषण्ण मानसं तत् त्रिपुरपुरं सहसा विवेश राजा॥ १३४.३१ ॥
अथ रजतविशुद्धभावभावो भवमभिपूज्य दिगम्बरं सुगीर्भिः।
शरणमुपजगाम देवदेवं मदनार्यन्धक यज्ञदेहघातम्॥ १३४.३२ ॥
मयमभयपदैषिणं प्रपन्नं न किल बुबोध तृतीयदीप्तनेत्रः।
तदभिमतमदात्ततः शशाङ्की स च किल निर्भय एव दानवोऽभूत्॥ १३४.३३ ॥