देवेभ्यो महादेवस्य वरदानम्।
सूत उवाच।
ब्रह्माद्यैस्तूयमानस्तु देर्वैर्देवो महेश्वरः।
प्रजापतिमुवाचेदं देवानां क्व भयं महत्॥ १३३.१॥
भो! देवः! स्वागतं वोऽस्तु ब्रूत यद्वो मनोगतम्।
तावदेव प्रयच्छामि नास्त्यदेयं मया हि वः॥ १३३.२ ॥
युष्माकं नितरां शं वै कर्ताऽहं विबुधर्षभाः।
चरामि महदत्युग्रं यच्चापि परमं तपः॥ १३२.३ ॥
विद्विष्टा वो मम द्विष्टाः कष्टाः कष्टपराक्रमाः।
तेषामभावः सम्पाद्यो युस्माकं भव एव च॥ १३३.४ ॥
एवमुक्तास्तु देवेन प्रेम्णा सब्रह्मकाः सुराः।
रुद्रमाहुर्महाभागं भागार्हाः सर्व एव ते॥ १३३.५ ॥
भगवंस्तैस्तपस्तप्तं रौद्रं रौद्रपराक्रमैः।
असुरैर्वध्यमानाः स्म वयं त्वां शरणं गताः॥ १३३.६ ॥
मयो नाम दितेः पुत्रस्त्रिनेत्रकलहप्रियः।
त्रिपुरं येन तद्दुर्गं कृतं पाण्डुरगोपुरम्॥ १३३.७ ॥
तदाश्रित्य पुरं दुर्गं दानवा वरनिर्भयाः।
बाधन्तेऽस्मान् महादेव प्रेष्यमस्वामिनं यथा॥ १३३.८ ॥
उद्यानानि च भग्नानि नन्दनादीनि यानि च।
वराश्चाप्सरसः सर्वा रम्भाद्या दनुजैर्हृताः॥ १३३.९ ॥
इन्द्रस्य बाह्याश्च गजाः कुमुदाञ्जनवामनाः।
ऐरावताद्यापहृता देवतानां महेश्वर!॥ १३३.१० ॥
ये चेन्द्ररथमुख्याश्च हरयोऽपहृतासुरैः।
जाताश्च दानवानान्ते रथयोग्यास्तुरङ्गमाः॥ १३३.११ ॥
ये रथा ये गजाश्चैव याः स्त्रियो वसु यच्च न।
तन्नो व्यपहृतं दैत्यैः संशयो जीविते पुनः॥ १३३.१२ ॥
त्रिनेत्र एव मुक्तस्तु देवैः शक्रपुरोगमैः।
उवाच देवान् देवेशो वरदो वृषवाहनः॥ १३३.१३ ॥
व्यपगच्छतु वो देवा महद्दानवजम्भयम्।
तदहं त्रिपुरन्धक्ष्ये क्रियतां यद्ब्रवीमि तत्॥ १३३.१४ ॥
यदीच्छथ मया दग्धुं तत्पुरं सह दानवम्।
रथमौपयिकं मह्यं सज्जयध्वं किलास्यते॥ १३३.१५ ॥
दिग्वाससा तथोक्तास्ते सपितामहकाः सुराः।
तथेत्युक्त्वा महादेवञ्चक्रुस्ते रथमुत्तमम्॥ १३३.१६ ॥
धरां कूवरकौ तु द्वौ रुद्रपार्श्वचरावुभौ।
अधिष्ठानं शिरो मेरोरक्षो मन्दर एव च॥ १३३.१७ ॥
चक्रुश्चन्द्रञ्च सूर्य्यञ्च चक्रे काञ्चनराजते।
कृष्णपक्षं शुक्लपक्षं पक्षद्वयमपीश्वराः॥ १३३.१८ ॥
रथनेमिद्वयं चक्रुर्देवा ब्रह्मपुरः सराः।
आदिद्वयं पक्षयन्त्रं यन्त्रमेताश्च देवताः॥ १३३.१९ ॥
कम्बलाश्वतराभ्याञ्च नागाभ्यां समवेष्टितम्।
भार्गवश्चाङ्गिराश्चैव बुधोऽङ्गारक एव च॥ १३३.२० ॥
शनैश्चरस्तथा चात्र सर्वे ते देवसत्तमाः।
वरूथं गगनं चक्रुश्चारुरूपं रथस्य ते॥ १३३.२१ ॥
कृतं द्विजिह्वनयनं त्रिवेणुं शातकौम्भिकम्।
मणिमुक्तेन्द्रनीलैश्च वृतं हृष्टमुखैः सुरैः॥ १३३.२२ ॥
गङ्गा सिन्धुः शतद्रुश्च चन्द्रभागा सरस्वती।
वितस्ता च विपाशा च यमुना गण्डकी तथा॥ १३३.२३ ॥
सरस्वती देविका च तथा च सरयूरपि।
एताः सरिद्वराः सर्वा वेणुसञ्ज्ञाः कृता रथे॥ १३३.२४ ॥
धृतराष्ट्रश्च ये नागास्ते च वेश्यात्मकाः कृताः।
वासुके कुलजा ये च ये च रैवतवंशजाः॥ १३३.२५ ॥
ते सर्पा दर्पसम्पूर्णाश्चापतूणेष्वनूनगाः।
अवतस्थुः शरा भूत्वा नानाजातिशुभाननाः॥ १३३.२६ ॥
सुरसा सरमा कद्रुर्विनता शुचिरेव च।
तृषा बुभुक्षा सर्वोग्रा मृत्युः सर्वशमस्तथा॥ १३३.२७ ॥
ब्रह्मवध्या च गोवध्या बालवध्याः प्रजाभयाः।
गदा भूत्वा शक्तयश्च तदा देवरथेऽभ्ययुः॥ १३३.२८ ॥
युगं कृतयुगञ्चात्र चातुर्होत्रप्रयोजकाः।
चतुर्वर्णाः सलीलाश्च बभूवुः स्वर्णकुण्डलाः॥ १३३.२९ ॥
तद्युगं युगसङ्काशं रथशीर्षे प्रतिष्ठितम्।
धृतराष्ट्रेण नागेन बद्धं बलवता महत्॥ १३३.३० ॥
ऋग्वेदः सामवेदश्च यजुर्वेदस्तथापरः।
वेदाश्चत्वार एवैते चत्वारस्तुरगा भवन्॥ १३३.३१ ॥
अन्नदानपुरोगाणि यानि दानानि कानिचित्।
तान्यासन्वाजिनां तेषां भूषणानि सहस्रशः ॥ १३३.३२ ॥
पद्मद्वयं तक्षकश्च कर्कोटकधनञ्जयौ।
नागा बभूवुरेवैते हयानां बालबन्धनाः॥ १३३.३३ ॥
ओङ्कारप्रभवास्ता वा मन्त्रयज्ञक्रतुक्रियाः।
उपद्रवाः प्रतीकाराः पशुबन्धेष्टयस्तथा॥ १३३.३४ ॥
यज्ञोपवाहान्येतानि तस्मिन् लोकरथे शुभे।
मणिमुक्ताप्रवालैस्तु भूषितानि सहस्रशः॥ १३३.३५ ॥
प्रतोदोङ्कार एवासीत्तदग्रञ्च वषट्कृतम्।
सिनीवाली कुहूराका तथा चानुमती शुभा॥ १३३.३६ ॥
योक्त्राण्यासंस्तुरङ्गाणामपसर्पणविग्रहाः॥ १३३.३७ ॥
कृष्णान्यथ च पीतानि श्वेतमाञ्जिष्ठकानि च।
अवदाताः पताकास्तु बभूवुः पवनेरिताः॥ १३३.३८ ॥
ऋतुभिश्च कृतः षड्भिर्धनुः सम्वत्सरोऽभवत्।
अजराज्याभवच्चापि साम्बका धनुषो द्रृढा ॥ १३३.३९ ॥
कालो हि भगवान् रुद्रः तं च सम्वतसरं विदुः।
तस्मादुमाकालरात्रिर्दनुषोज्या जराभवत्॥ १३३.४० ॥
सगर्भं त्रिपुरं येन दग्धवान् स त्रिलोचनः।
स इषुर्विष्णुसोमाग्नित्रिदैवतमयोऽभवत्॥ १३३.४१ ॥
आननं ह्यग्निरभवच्छल्यं सोमस्तमोनुदः।
तेजसः समवायोऽथ चेषोस्तेजो रथाङ्गधृत्॥ १३३.४२ ॥
तस्मिंश्च वीर्य्यवृद्ध्यर्थं वासुकिर्नागपार्थिवः।
तेजः सम्वसनार्थं वै मुमोचातिविषो विषम्॥ १३३.४३ ॥
कृत्वा देवा रथञ्चापि दिव्यं दिव्यप्रभावतः।
लोकाधिपतिमभ्येत्य इदं वचनमब्रुवन्॥ १३३.४४ ॥
संस्कृतोऽयं रथोऽस्माभिस्तव दानवशत्रुजित्।
इदमापत्परित्राणं देवान् सेन्द्रपुरोगमान्॥ १३३.४५ ॥
तं मेरुशिखराकारं त्रेलोक्यरथमुत्तमम्।
प्रशस्य देवान् साध्विति रथं पश्यति शङ्करः॥ १३३.४६ ॥
मुहुर्द्रृष्ट्वा रथं साधु साध्वित्युक्त्वा मुहुर्मुहुः।
उवाच सेन्द्रानमरानमराधिपतिः स्वयम्॥ १३३.४७ ॥
याद्रृशोऽयं रथः क्लृप्तो युष्माभिर्ममसत्तमाः।
ईद्रृशो रथसम्पत्त्या यन्ता शीघ्रं विधीयताम्॥ १३३.४८ ॥
इत्युक्त्वा देवदेवेन देवाविद्धा इवेषुभिः।
अवापुर्महतीं चिन्तां कथं कार्यमिति ब्रुवन्॥ १३३.४९ ॥
महादेवस्य देवोऽन्यः को नाम सद्रशौ भवेत्।
मुक्त्वा चक्रायुधं देवं सोपास्य इषुमाश्रितः॥ १३३.५० ॥
धुरि युक्ता इवोक्षाणो घटन्त इव पर्वतैः।
निःश्वसन्तः सुराः सर्वे कथमेतदिति ब्रुवन्॥ १३३.५१ ॥
देवोऽद्रृश्यत देवांस्तु लोकनाथस्य धूर्गतान्।
अहं सारथिरित्युक्त्वा जग्राहाश्वांस्ततोऽग्रजः॥ १३३.५२ ॥
ततो देवैः सगन्धर्वैः सिंहनादो महान् कृतः।
प्रतोदहस्तं सम्प्रेक्ष्य ब्रह्माणं सूततां गतम्॥ १३३.५३ ॥
भगवानपि विश्वेशो रथस्थे वै पितामहे।
सद्रृशः सूत इत्युक्त्वा चारुरोह रथं हरः॥ १३३.५४ ॥
आरोहति रथं देवे ह्यश्वा हरभरातुराः।
जानुभिः पतिता भूमौ रजोग्रासश्च ग्रासितः॥ १३३.५५ ॥
देवो द्रृष्ट्वाथ वेदांस्तानभीरुग्रहयान् भयात्।
उज्जहार पितॄनार्तान् सुपुत्र इव दुःखितान्॥ १३३.५६ ॥
ततः सिंहरवो भूयो बभूव रथभैरवः।
जयशब्दश्च देवानां सम्बभूवार्णवोपमः॥ १३३.५७ ॥
तदोङ्कारमयं गृह्य प्रतोदं वरदः प्रभुः।
स्वयम्भूः प्रययौ वाहाननुमन्त्र्य यथाजवम्॥ १३३.५८ ॥
ग्रसमाना इवाकाशं मुष्णन्त इव मेदिनीम्।
मुखेभ्यः ससृजुः श्वासानुच्छ्वसन्त इवोरगाः॥ १३३.५९ ॥
स्वयम्भुवा चोद्यमानाश्चोदितेन कपर्दिना।
व्रजन्ति तेऽश्वा जवनाः क्षयकाल इवानिलाः॥ १३३.६० ॥
ध्वजोच्छ्रयविनिर्माणे ध्वजयष्टिमनुत्तमाम्।
आक्रम्य नन्दीवृषभं तस्थौ तस्मिञ्शिवेच्छया॥ १३३.६१ ॥
भार्गवाङ्गिरसौ देवौ दण्डहस्तौ रविप्रभौ।
रथचक्रे तु रक्षेते रुद्रस्य प्रियकाङिक्षणौ॥ १३३.६२ ॥
शेषश्च भगवान्नागः अनन्तोऽन्तकरोऽपिणाम्।
शरहस्तो रथम्पाति शयनं ब्रह्मणस्तदा॥ १३३.६३ ॥
यमस्तूर्णसमास्थाय महिषञ्चातिदारुणम्।
द्रविणाधिपतिर्व्यालं सुराणामधिपो द्विपम्॥ १३३.६४ ॥
अरक्षत मयूरं निकूजन्तं किन्नरं यथा।
गुह आस्थाय वरदो युगोपमरथं पितुः॥ १३३.६५ ॥
नन्दीश्वरश्च भगवान् शूलमादाय दीप्तिमान्।
पृष्ठतश्चापि पार्श्वाभ्यां लोकस्य क्षयकृद्यथा॥ १३३.६६ ॥
प्रमथाश्चाग्निवर्णाभाः साग्निज्वाला इवाचलाः।
अनुजग्मू रथं शार्वं नक्रा इव महार्णवम्॥ १३३.६७ ॥
भृगुर्भरद्वाजवसिष्ठगौतमाः क्रतुः पुलस्त्यः पुलहस्तपोधनाः।
मरीचिरत्रिर्भगवानथाङ्गिराः पराशरागस्त्यमुखा महर्षयः॥ १३३.६८ ॥
हरमजितमजं प्रतुष्टुवुर्वचनविषैर्विचित्रभूषणैः।
रथस्त्रिपुरे सकाञ्चनाचलो व्रजतिसपक्ष इवाद्रिरम्बरे॥ १३३.६९ ॥
करिगिरिरविमेघसन्निभाः सजलपयोदनिनादनादिनः।
प्रमथगणाः परिवार्य्य देवगुप्तं रथममरापि ययुः स्म दर्पयुक्ताः॥ १३३.७० ॥
मकरतिमितिमिङ्गिलावृतः प्रलय इवातिसमुद्धतोऽर्णवः।
व्रजति रथवरोऽति भास्वरो ह्यशनिनिपातपयोद-निःस्वनः॥ १३३.७१ ॥