सूर्यरथवर्णनम्।
सूत उवाच।
स रथोऽधिष्ठितो देवैर्मासि मासि यथाक्रमम्।
ततो वहत्यथादित्यं बहुभिर्ऋषिभिः सह॥ १२६.१ ॥
गन्धर्वैरप्सरोभिश्च सर्पग्रामणि राक्षसैः।
एते वसन्ति वै सूर्य्ये मासौ द्वौ द्वौ क्रमेण च॥ १२६.२ ॥
धाता यमा पुलस्त्यश्च पुलहश्च प्रजापती।
उरगौ वासुकिश्चैव सङ्गीर्णश्चैव तावुभौ॥ १२६.३ ॥
तुम्बरुर्नारदश्चैव गन्धर्वौ गायताम्बरौ।
कृतस्थल अप्सराश्चैव या च सा पुञ्जिकस्थली॥ १२६.४ ॥
ग्रामण्यौ रथकृत्तस्य रथौजाश्चैव तावुभौ।
रक्षोहेतिः प्रहेतिश्च यातुधानादुभौ स्मृतौ॥ १२६.५ ॥
मधुमाधवयोर्ह्येष गणो वसति भास्करे।
वसन् ग्रीष्मे तु द्वौ मासौ मित्रश्च वरुणश्च वै॥ १२६.६ ॥
ऋषिरत्रिर्वसिष्ठश्च नागौ तक्षकरम्भकौ।
मेनका सहधन्या च हाहा हूहूश्च—गायकौ॥ १२६.७ ॥
रथन्तरश्च ग्रामण्यौ रथकृच्छैव तावुभौ।
पौरुषेयो वधश्चैव यातुधानौ तु तौ स्मृतौ॥ १२६.८ ॥
एते वसन्ति वै सूर्य्ये मासयोः शुचिशुक्रयोः।
ततः सूर्य्ये पुनश्चान्या निवसन्ति स्म देवताः॥ १२६.९ ॥
इन्द्रश्चैव विवस्वांश्च अङ्गिरा भृगुरेव च।
एलापत्रस्तथा सर्पः शङ्खपालश्च पन्नगः॥ १२६.१० ॥
विश्वावसुसुसेनौ च प्रातश्चैव रथश्च हि।
प्रम्लोचेत्यप्सराश्चैव निम्लोचन्ती च ते उभे॥ १२६.११ ॥
यातुधानस्तथा हेतिर्व्याघ्रश्चैव तु तावुभौ।
नभस्य नभसोरेतैर्वसन्तश्च दिवाकरे॥ १२६.१२ ॥
मासौ द्वौ देवताः सूर्य्यो वसन्ति च शरद्रृतौ।
पर्यन्यश्चैव पूषा च भरद्वाजः सगौतमः॥ १२६.१३ ॥
चित्रसेनश्च गन्धर्वस्तथा वा सुरुचिश्च यः।
विश्वाची च घृताची च उभेते पुण्यलक्षणे॥ १२६.१४ ॥
नागश्चैरावतश्चैव विश्रुतश्च धनञ्जयः।
सेनजिच्च सुषेणश्च सेनानी ग्रामणीस्तथा॥ १२६.१५ ॥
चारोवातश्च द्वावेतौ यातुधानावुभौ स्मृतौ।
वसन्त्ये ते च वै सूर्य्ये मासयोश्च त्विषोर्जयोः॥ १२६.१६ ॥
हेमन्तिकौ च द्वौ मासौ निवसन्ति दिवाकरे।
अंशो भगश्च द्वावेतौ कश्यपश्च क्रतुश्च ॥ १२६.१७ ॥
भुजङ्गश्च महापत्यसर्पः कर्कोटकस्तथा।
चित्रसेनश्च गन्धर्वः पूर्णायुश्चैव गायनौ॥ १२६.१८ ॥
अप्सराः पूर्वचित्तिश्च गन्धर्वाह्युर्वशी च या।
तक्षा वारिष्टनेमिश्च सेनानीग्रामणीश्च तौ॥ १२६.१९ ॥
विद्युत् सूर्य्यश्च तावुग्रौ यातुधानौ तु तौ स्मृतौ।
सहे चैव सहस्ये च वसन्त्ये ते दिवाकरे॥ १२६.२० ॥
ततस्तु शिशिरे चापि मासयोर्निवसन्ति ते।
त्वष्टा विष्णुर्जमदग्निर्विश्वामित्रस्तथैव च॥ १२६.२१ ॥
काद्रवेयौ यथा नागौ कम्बलाश्वतरावुभौ।
गन्धर्वौ धृतराष्ट्रश्च सूर्यवर्चाश्च तावुभौ॥ १२६.२२ ॥
तिलोत्तमाप्सराश्चैव देवी रम्भा मनोरमा।
ग्रामणीर्ऋतजिच्चैव स्त्यजिच्च महाबलः॥ १२६.२३ ॥
ब्रह्मोपेतश्च वै रक्षो यज्ञोपेतस्तथैव च।
इत्येते निवसन्तिस्म द्वौ द्वौ मासौ दिवाकरे॥ १२६.२४ ॥
स्थानाभिमानिनो ह्येते गणा द्वादशसप्तकाः।
सूर्यमापादयन्त्येते तेजसा तेज उत्तमम्॥ १२६.२५ ॥
ग्रथितैस्तु वचोभिश्च स्तुवन्ति ऋषयो रविम्।
गन्धवाप्सरसश्चैव गीतनृत्यैरुपासते॥ १२६.२६ ॥
विद्याग्रामणिनो यक्षाः कुर्वन्त्याभीषु सङ्ग्रहम्।
सर्पाः सर्पन्ति वै सूर्यो यातुधानानुयान्ति च॥ १२६.२७ ॥
वालखिल्या नयन्त्यस्तं परिवार्योदयाद्रविम्।
एतेषामेव देवानां यथावीर्य्यं यथा तपः॥ १२६.२८ ॥
यथायोगं यथाधर्मं यथातत्त्वं यथाबलम्।
तथा तपत्यसौ सूर्य्यस्तेषामिद्वस्तु तेजसा॥ १२६.२९ ॥
भूतानामशुभं सर्वं व्यपोहति स्वतेजसा।
मानवानां शुभैर्ह्येतैर्ह्रियते दुरितन्तु वै॥ १२६.३० ॥
दुरितं शुभचाराणां व्यपोहन्ति क्वचित् क्वचित्।
एते सहैवसूर्येण भ्रमन्ति सानुगा दिवि॥ १२६.३१ ॥
तपन्तश्च जपन्तश्च ह्लादयन्तश्च वै प्रजाः।
गोपायन्तिस्म भूतानि ईहन्ते ह्यनुकम्पया॥ १२६.३२ ॥
स्थानाभिमानिनां ह्येतत् स्थानं मन्वन्तरेषु वै।
अतीतानागातानाञ्च वर्तन्ते साम्प्रतञ्च ये॥ १२६.३३ ॥
एवं वसन्ति वै सूर्य्ये सप्तकास्ते चतुर्दश।
चतुर्दशेषु वर्त्तन्ते गणा मन्वन्तरेषु वै॥ १२६.३४ ॥
ग्रीष्मे हिमे च वर्षासु च मुञ्चमानो
घर्मं हिमञ्च वर्षञ्च निशां दिनञ्च॥ १२६.३५ ॥
गच्छत्यसावनुदिनं परिवृत्य रश्मीन् देवान् पितृंश्च
मनुजाश्च सुतर्पयन्वै॥
शुक्ले च कृष्णे तदहः क्रमेण कालक्षये चैव सुराः पिवन्ति।
मासेन तच्चामृतमस्य मृष्टं सुवृष्टये रश्मिषु रक्षितं तु॥ १२६.३६ ॥
सर्वेऽमृतं तत् पितरः पिबन्ति देवाश्च सौम्याश्च तथैव काव्याः।
सूर्य्येण गोभिर्हविवर्द्धिताभिरद्भिः पुनश्चैव समुच्छ्रिताभिः॥ १२६.३७ ॥
वृष्ट्याभिवृष्टाभिरथौषधीभिर्मत्या अथान्नेन क्षुधं जयन्ति।
तृप्तिश्चाप्यमृतेनार्द्धमासं सुराणां मासे स्वाहाभिः स्वधया पितॄणाम्॥
अनेन जीवन्त्यनिशं मनुष्याः सूर्य्यः श्रितन्तद्वि बिभर्ति गोभिः॥ १२६.३८ ॥
इत्येष एकचक्रेण सूर्य्यस्तूर्णं प्रसर्पति।
तत्र तैरक्रमैरश्वैः सर्पतेऽसौ दिनक्षये॥ १२६.३९ ॥
हरिर्हरिद्भिर्ह्रियते तुरङ्गमैः पिबत्यथापो हरिभिः सहस्रधा।
पुनः प्रमुञ्चत्यथ ताश्च यो हरिः समुह्यमानो हरिभिस्तुरङ्गमैः॥ १२६.४० ॥
अहोरात्रं रथेनासावेकचक्रेण वै भ्रमन्।
सप्तद्वीपसमुद्रांस्तु सप्तभिः सप्तभिर्द्रुतम्॥ १२६.४१ ॥
च्छन्दोरूपैश्च तैरश्वैर्यतश्चक्रं ततः स्थितिः।
कामरूपैः सकृद्युक्तैः कामगैस्तैर्मनोजवैः॥ १२६.४२ ॥
हिरतैरव्यथैः पिङ्गैरीश्वरैर्ब्रह्मवादिभिः।
वाह्यतोऽनन्तरञ्चैव मण्डलं दिवसः क्रमात्॥ १२६.४३ ॥
कल्पादौ सम्प्रयुक्ताश्च वहन्त्याभूतसम्प्लवम्।
आवृतो वालखिल्यैश्च भ्रमते रात्र्यहानि तु॥ १२६.४४ ॥
ग्रथितैः स्ववचोभिश्च स्तूयमानो महर्षिभिः।
सेव्यते गीतनृत्यैश्च गन्धर्वाप्सरसाङ्गणैः॥ १२६.४५ ॥
तपङ्गैः पतगैरश्वैर्भ्राम्यमाणो दिवस्पतिः।
वीथ्याश्रयाणि चरति नक्षत्राणि तथा रशी॥ १२६.४६ ॥
ह्रासवृद्धी तथैवास्य रश्मयः सूर्यवत् स्मृताः।
त्रिचक्रोभयतोऽश्वश्च विज्ञेयः शशिनो रथः॥ १२६.४७ ॥
अपाङ्गर्भसमुत्पन्नो रथः साश्वः ससारथिः।
सहारैस्तै स्त्रिभिश्चक्रैर्युक्तः शुक्तैर्हयोत्तमैः॥ १२६.४८ ॥
दशभिस्तुरगैर्दिव्यैरसङ्गैस्तन्मनोजवैः।
सकृद्युक्ते रथे तस्मिन् वहन्तस्त्वायुगक्षयम्॥ १२६.४९ ॥
सङ्ग्रहीता रथे तस्मिन् श्वेतश्चक्षुः श्रवाश्च वै।
अश्वास्तमेकवर्णास्ते वहन्ते शङ्कवर्चसः॥ १२६.५० ॥
अजश्च त्रिपथश्चैव वृषो वाजी नरो हयः।
अंशुमान् सप्तधातुश्च हंसो व्योम मृगस्तथा॥ १२६.५१ ॥
इत्येते नामभिश्चैव दश चन्द्रमसो हयाः।
एवं चन्द्रमसं देवं वहन्ति स्मायुगक्षयम्॥ १२६.५२ ॥
देवैः परिवृतः सोमः पितृभिः सह गच्छति।
सोमस्य शुक्लपक्षादौ भाष्करे परतः स्थिते॥ १२६.५३ ॥
आपूर्यते परो भागाः सोमस्य तु अहः क्रमात्।
ततः पीतक्षयं सोमं युगपद् व्यापयन् रविः॥ १२६.५४ ॥
पीतं पञ्चदशाहञ्च रश्मिनैकेन भास्करः।
आपूरयन् ददौ तेन भागं भागमहः क्रमात्॥ १२६.५५ ॥
सुषुम्नाप्यायमानस्य शुक्ले वर्द्धन्ति वै कलाः।
तस्माद्ध्रसन्ति वै कृष्णे शुक्ले ह्याप्याययन्ति च॥ १२६.५६ ॥
इत्येवं सूर्य्यवीर्येण चन्द्रस्याप्यायते तनुः।
पूर्णमास्यां प्रद्रृश्येत शुक्लः सम्पूर्णमण्डलः॥ १२६.५७ ॥
एवमाप्यायते सोमः शुक्लपक्षेष्वहः क्रमात्।
ततो द्वितीया प्रभृति बहुलस्य चतुर्दशी॥ १२६.५८ ॥
अपां सारमयस्येन्दो रसमात्रात्मकस्य च।
पिबन्त्यम्बुमयं देवा मधुसौम्यं तथामृतम्॥ १२६.५९ ॥
सम्भृतन्त्वर्द्धमासेन अमृतं सूर्य्यतेजसा।
भक्षार्थमागतं सोमं पौर्णमास्यामुपासते॥ १२६.६० ॥
एकरात्रं सुराः सार्द्धं पितृभिर्ऋषिभिश्च वै।
सोमस्य कृष्णपक्षादौ भास्कराभिमुखस्य वै॥ १२६.६१ ॥
प्रक्षीयते परे ह्यात्मा पीयमानकलाक्रमात्।
त्रयश्च त्रिंशता सार्द्धं त्रयस्त्रिंशच्छतानि तु॥ १२६.६२ ॥
त्रयस्त्रिंशत् सहस्राणि देवाः सोमं पिबन्ति वै।
इत्येवं पीयमानस्य कृष्णे वर्द्धन्ति ताः कलाः॥ १२६.६३ ॥
क्षीयन्ते च ततः शुक्लाः कृष्णा ह्याप्याययन्ति च।
एवं दिनक्रमात् पीते देवैश्चापि निशाकरे॥ १२६.६४ ॥
पीत्वार्द्धमासं गच्छन्ति अमावास्यां सुराश्च ते।
पितरश्चोपतिष्ठन्ति अमावास्यां निशाकरम्॥ १२६.६५ ॥
ततः पञ्चदशे भागे किञ्चिच्छेषे निशाकरे।
ततोऽपराह्णे पितरो यदन्यदिवसे पुनः॥ १२६.६६ ॥
पिबन्ति द्विकलं कालं शिष्टास्तास्तु कलास्तु याः।
विनिस्सृष्टं त्वमावास्यां गभिस्तिब्यस्तदामृतम्॥ १२६.६७ ॥
अर्द्धमाससमाप्तौ तु पीत्वा गच्छन्ति तेऽमृतम्।
सौम्या बर्हिषदश्चैव अग्निष्वात्ताश्च ये स्मृताः॥ १२६.६८ ॥
काव्याश्चैव तु ये प्रोक्ताः पितरः सर्व एव ते।
सम्वत्सराश्च ये काव्या पश्चाद्वा वै द्विजाः स्मृताः॥ १२६.६९ ॥
सौम्याः सुतपसौ ज्ञेया सौम्या बर्हिषदस्तथा।
अग्निष्वात्तास्त्रयश्चैव पितृसर्गस्थिता द्विजाः॥ १२६.७० ॥
पितृभिः पीयमानायां पञ्चदश्यान्तु वै कलाम्।
यावच्च क्षीयते तस्माद् भागः पञ्चदशस्तु सः॥ १२६.७१ ॥
अमावास्यां तथा तस्य अन्तरा पूर्यते परः।
वृद्धिक्षयौ वै पक्षादौ षोडश्यां शशिनः स्मृतौ।
एवं सूर्य्यनिमित्ते ते क्षयवृद्वी निशाकरे॥ १२६.७२ ॥