१२१

तस्याश्रमस्योत्तरतस्त्रिपुरारिनिषेवितः।
नानारत्नमयैः श्रृङ्गैः कल्पद्रुमसमन्वितैः॥ १२१.१ ॥

मध्ये हिमवतः पृष्ठे कैलासो नाम पर्वतः।
तस्मिन्निवसति श्रीमान् कुबेरः सह गुह्यकैः॥ १२१.२ ॥

अप्सरोऽनुगतो राजा मोदते ह्यलकाघिपः।
कैलासपादसम्भूतं रम्यं शीतजलं शुभम्॥ १२१.३ ॥

मन्दारपुष्परजसा पूरितं देवसन्निभम्।
तस्मात् प्रवहते दिव्या नदी मन्दाकिनी शुभा॥ १२१.४ ॥

दिव्यञ्च नन्दनं तत्र तस्यास्तीरे महद्वनम्।
प्रागुत्तरेण कैलासाद्दिव्यं सौगन्धिकं गिरिम्॥ १२१.५ ॥

सर्वधातुमयं दिव्यं सुवेलं पर्वतं प्रति।
चन्द्रप्रभो नाम गिरिः स शुभ्रो रत्नसन्निभः॥ १२१.६ ॥

तत्समीपे सरो दिव्यमच्छोदं नाम विश्रुतम्।
तस्मात् प्रभवते दिव्या नदी ह्यच्छोदिका शुभा॥ १२१.७ ॥

तस्यास्तीरे वनं दिव्यं महच्चैत्ररथं शभम्।
तस्मिन् गिरौ निवसति मणिभद्रः सहानुगः॥ १२१.८ ॥

यक्षसेनापतिः क्रूरो गुह्यकेः परिवारितः।
पुण्या मन्दाकिनी नाम नदी ह्यच्छोदिका शुभा॥ १२१.९ ॥

महीमण्डलमध्ये तु प्रविष्टे तु महोदधिम्।
कैलासदक्षिणे प्राच्यां शिवं सर्वौषधिं गिरिम्॥ १२१.१० ॥

मनः शिलामयं दिव्यं सुवेलं पर्वतं प्रति।
लोहितो हेमश्रृङ्गस्तु गिरिः सूर्यप्रभो महान्॥ १२१.११ ॥

तस्य पादे महद्दिव्यं लोहितं सुमहत्सरः।
तस्मात् प्रभवते पुण्यो लौहित्यश्च नदो महान्॥ १२१.१२ ॥

दिव्यारण्यं विशोकञ्च तस्य तीरे महद्वनम्।
तस्मिन् गिरौ निवसति यक्षोमणिधरोवशी॥ १२१.१३ ॥

सौम्यैः सुधार्मिकैश्चैव गुह्यकैः परिवारितः।
कैलासात् पश्चिमोदीच्यां ककुद्मानौषधी गिरिः॥ १२१.१४ ॥

ककुद्मति च रुद्रस्य उत्पत्तिश्च ककुद्मिनः।
तदजनन्त्रैः ककुदं शैलन्त्रिककुदं प्रति॥ १२१.१५ ॥

सर्वधातुमयस्तत्र सुमहान् वैद्युतो गिरिः।
तस्य पादे महद्दिव्यं मानसं सिद्धसेवितम्॥ १२१.१६ ॥

तस्मात् प्रभवते पुण्या सरयूर्लोकपावनी।
तस्यास्तीरे वनं दिव्यं वैभ्राजं नामविश्रुतम्॥ १२१.१७ ॥

कुबेरानुचरस्तस्मिन् प्रहेतितनयो वशी।
ब्रह्मधाता निवसति राक्षसोऽनन्तविक्रमः॥ १२१.१८ ॥

कैलासात् पश्चिमामाशां दिव्यः सर्वौषधिर्गिरिः।
अरुणः पर्वतश्रेष्ठो रुक्मधातुविभूषितः॥ १२१.१९ ॥

भवस्य दयितः श्रीमान्‌ पर्वतो हैमसन्निभः।
शातकौम्भमयैर्दिव्यैः शिलाजालैः समाचितः॥ १२१.२० ॥

शतसङ्ख्यैस्तापनीयैः श्रृङ्गैर्दिवमिवोल्लिखन्।
शृङ्गवान् सुमहादिव्यो दुर्गः शैलोमहाचितः॥ १२१.२१ ॥

तस्मिन् गिरौ निवसति गिरिशो धूम्रलोचनः।
तस्य पादात् प्रभवति शैलोदं नाम तत्सरः॥ १२१.२२ ॥

तस्मात् प्रभवते पुण्या नदीशैलोदकाशुभा।
सा चक्षुसी तयोर्मध्ये प्रविष्टा पश्चिमो दधिम्॥ १२१.२३ ॥

अस्त्युत्तरेण कैलासाच्छिवः सर्वौषधो गिरिः।
गौरन्तु पर्वतश्रेष्ठं हरितालमयं प्रति॥ १२१.२४ ॥

हिरण्यशृङ्गः सुमहान् दिव्यौषधिमयो गिरिः।
तस्य पादे महद्दिव्यं सरः काञ्चनबालुकम्॥ १२१.२५ ॥

रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः।
गङ्गार्थे स तु राजर्षिरुवास बहुलाः समाः॥ १२१.२६ ॥

दिवं यास्यन्तु मे पूर्वे गङ्गातोयाप्लुतास्थिकाः।
तत्र त्रिपथगा देवी प्रथमं तु प्रतिष्ठिता॥ १२१.२७ ॥

सोमपादात् प्रसूता सा सप्तधा प्रविभज्यते।
यूपामणिमयास्तत्र विमानाश्च हिरण्मयाः॥ १२१.२८ ॥

तत्रेष्ट्वा क्रतुभिः सिद्धः शक्रः सुरगणैः सह।
दिव्यच्छायापथस्तत्र नक्षत्राणान्तु मण्डलम्॥ १२१.२९ ॥

द्रृश्यते भासुरा रात्रौ देवी त्रिपथगा तु सा।
अन्तरिक्षं दिवं चैव भावयित्वा भुवं गता॥ १२१.३० ॥

भवोत्तमाङ्गे पतिता संरुद्धा योगमायया।
तस्या ये बिन्दवः केचित्‌ क्रुद्धायाः पतिपा भुवि॥ १२१.३१ ॥

ज्ञात्वा तस्या ह्यभिप्रायं क्रूरं देव्याश्चिकीर्षितम्।
भित्वा विशामि पातालं श्रोतसा गृह्य शङ्करम्॥ १२१.३३ ॥

अथावलेपनं ज्ञात्वा तस्याः क्रुद्धन्तु शङ्करः।
तिरोभावयितुं बुद्धिरासीदङ्गेषु तां नदीम्॥ १२१.३४ ॥

एतस्मिन्नेव काले तु द्रृष्ट्वा राजानमग्रतः।
धमनीसन्ततं क्षीणां क्षुधा व्याकुलितेन्द्रियम्॥ १२१.३५ ॥

अनेन तोषितश्चाहं नद्यर्थे पूर्वमेव तु।
बुध्वास्य वरदानन्तु ततः कोपं न यच्छत॥ १२१.३६ ॥

ब्रह्मणो वचनं श्रुत्वा यदुक्तं धारयन्नदीम्।
ततो विसर्जयामास संरुद्धां स्वेन तेजसा॥ १२१.३७ ॥

नदी भगीरथस्यार्थे तपसोग्रेण तोषितः।
ततो विसर्जयामास सप्तस्रोतांसि गङ्गया॥ १२१.३८ ॥

त्रीणि प्राचीमभिमुखं प्रतीचीन्त्रीण्यथैव तु।
स्रोतांसि त्रिपथायास्तु प्रत्यपद्यन्त सप्तधा॥ १२१.३९ ॥

नलिनी ह्लादिनी चैव पावनी चैव प्राच्यगा।
सीता चक्षुश्च सिन्धुश्च तिस्रस्ता वै प्रतीच्यगाः॥ १२१.४० ॥

सप्तमी त्वनुगा तासां दक्षिणेन भगीरथम्।
तस्मात् भागीरथी सा वै प्रविष्टा दक्षिणो दधिम्॥ १२१.४१ ॥

सप्त चैताः प्लावयन्ति वर्षन्तु हिमसाह्वयम्।
प्रसूताः सप्त नद्यस्तु शुभा बिन्दुसरोद्भवाः॥ १२१.४२ ॥

तान्देशान् प्लावयन्ति स्म म्लेच्छप्रायांश्च सर्वशः।
सशैलान् कुकुरान् रौध्रान् बर्बरान् यवनान् खसान्॥ १२१.४३ ॥

पुलिकांश्च कुलत्थांश्च अङ्गलोक्यान्वरांश्च यान्।
कृत्वा द्विधा हिमवन्तं प्रविष्टा दक्षिणो दधिम्॥ १२१.४४ ॥

अथ वीरमरूंश्चैव कालिकांश्चैवशूलिकान्।
तुषारान् बर्बरानङ्गान्यगृह्णात् परदान्‌ शकान्॥ १२१.४५ ॥

एतान् जनपदांश्चक्षः प्लावयित्वोदधिङ्गता।
दरदोर्जगुण्डांश्चैव गान्धारानौरसान्‌ कुहून्॥ १२१.४६ ॥

शिवपौरानिन्द्रमरून् वसतीन् समतेजसम्।
सैन्धवानुर्वसान् वर्वान् कुपश्रान् भीमरोमकान्॥ १२१.४७ ॥

शुनामुखांश्चोर्दमरून् सिन्धुरेतान्निषेवते।
गन्धर्वान् किन्नरान्यक्षान् रक्षोविद्याधरोरगान्॥ १२१.४८ ॥

कलापग्रामकांश्चैव तथा किम्पुरुषान्नरान्।
किरातांश्च पुलिन्दांश्च कुरून् वै भारतानपि॥ १२१.४९ ॥

पाञ्चालान् कौशिकान् मत्स्यान् मागधाङ्गांस्तथैव च।
ब्रह्मोत्तराश्च वङ्गांश्च ताम्रलिप्तांस्तथैव च॥ १२१.५० ॥

एतान् जनपदानार्यान् गङ्गा भावयते शुभा।
ततः प्रतिहता विन्ध्ये प्रविष्टा दक्षिणो दधिम्॥ १२१.५१ ॥

ततस्तु ह्लादिनी पुण्या प्राचीनाभिमुखा ययौ।
प्लावयन्त्युपकांश्चैव निषादानपि सर्वशः॥ १२१.५२ ॥

धीवरानृषिकांश्चैव तथा नीलमुखानपि।
केकरानेककर्णाश्च किरातानपि चैव हि॥ १२१.५३ ॥

कालिन्दगतिकांश्चैव कुशिकान्‌ स्वर्गभौमकान्।
सामण्डले समुद्रस्य तीरे भूत्वा तु सर्वशः॥ १२१.५४ ॥

ततस्तु नलिनी चापि प्राचीमेव दिशं ययौ।
कुपथान् प्लावयन्ती सा इन्द्रद्युम्नसरांस्यपि॥ १२१.५५ ॥

तथा खरपथान् देशान् वेत्रशङ्कुपथानपि।
मध्येनोज्जानकमरून् कुथप्रावरणान् ययौ॥ १२१.५६ ॥

इन्द्रद्वीपसमीपे तु प्रविष्टा लवणोदधिम्।
ततस्तु पावनी प्रायात् प्राचीमाशाञ्जवेन तु॥ १२१.५७ ॥

तोमरान्प्लावयन्ती च हंसमार्गान्‌ समूहकान्।
पूर्वान्देशांश्च सेवन्ती भित्वा सा बहुधा गिरिम्॥
कर्णप्रावरणान् प्राप्य गता साश्वमुखानपि॥ १२१.५८ ॥

सिक्त्वा पर्वतमेरुं सा गत्वा विद्याधरानपि।
शैमिमण्डलकोष्ठन्तु सा प्रविष्टा महत्सरः॥ १२१.५९ ॥

तासां नद्युपनद्योऽन्याः शतशोऽथ सहस्रशः।
उपगच्छन्ति ता नद्यो यतो वर्षति वासवः॥ १२१.६० ॥

तीरे वंशौकसारायाः सुरभिर्नाम तद्वनम्।
हिरण्यश्रृङ्गो वसति विद्वान् कौबरको वशी॥ १२१.६१ ॥

यज्ञादपेतः सुमहानमितौजाः सुविक्रमः।
तत्रागस्त्यैः परिवृता विद्वद्भिर्ब्रह्मराक्षसैः॥ १२१.६२ ॥

कुबेरानुचरा ह्येते चत्वारस्तत्समाश्रिताः।
एवमेव तु विज्ञेया सिद्धिः पर्वतवासिनाम्॥ १२१.६३ ॥

परस्परेण द्विगुणा धर्म्मतः कामतोऽर्थतः।
हेमकूटस्य पृष्ठे तु सर्पाणां तत्सरः स्मृतम्॥ १२१.६४ ॥

सरस्वती प्रभवति तस्माज्योतिष्मती तु या।
अवगाढे ह्युभयतः समुद्रौ पूर्वपश्चिमौ॥ १२१.६५ ॥

सरो विष्णुपदं नाम निषधे पर्वतोत्तमे।
यस्मादग्रे प्रभवति गन्धर्वानुकुले च ते॥ १२१.६६ ॥

मेरोः पार्श्वात् प्रभवति ह्रदश्चन्द्रप्रभो महान्।
जम्बूश्चैव नदी पुण्या यस्यां जाम्बूनदं स्मृतम्॥ १२१.६७ ॥

पयोदस्तु ह्रदो नीलः स शुभः पुण्डरीकवान्।
पुण्डरीकात् पयोदाच्च तस्माद् वै सम्प्रसूयताम्॥ १२१.६८ ॥

सरसस्तुसरस्त्वेतत् स्मृतमुत्तरमानसम्।
मृग्याच मृगकान्ता च तस्माद्‌ द्वेसम्प्रसूयताम्॥ १२१.६९ ॥

ह्रदाः कुरुषु विख्याताः पद्ममीनकुलाकुलाः।
नाम्ना ते वैजया नाम द्वादशो दधिसन्निभाः॥ १२१.७० ॥

तेभ्यः शान्तीच मध्वीच द्वेनद्यौ सम्प्रसूयताम्।
किम्पुरुषाद्यानि यान्यष्टौ तेषु देवो न वर्षति॥ १२१.७१ ॥

उद्भिदान्युदकान्यत्र प्रवहन्ति सरिद्वराः॥
बलाहकश्च ऋषभो चक्रो मैनाक एव च॥ १२१.७२ ॥

विनिविष्टाः प्रतिदिशं निमग्ना लवणाम्बुधिम्। १२१.७३ ॥

चन्द्रकान्तस्तथा द्रोणः सुमहांश्च शिलोच्चयः।
उद्गायता उदीच्यान्तु अवगाढा महोमधिम्॥ १२१.७४ ॥

चक्रो बधिरकश्चैव तथा नारदपर्वतः।
प्रतीचीमायतास्ते वै प्रतिष्ठास्ते महोदधिम्॥ १२१.७५ ॥

जीमूतो द्रावणश्चैव मैनाकश्चन्द्रपर्वतः।
आयतास्ते महाशैलाः समुद्रं दक्षिणम्प्रति॥ १२१.७६ ॥

चक्रमैनाकयोर्मध्ये दिवि सन्दक्षिणापथे॥
तत्र संवर्तको नामसोऽग्निः पिबति तज्जलम्।
अग्निः समुद्रवासस्तु और्वोऽसौवडवामुखः॥ १२१.७७ ॥

इत्येते पर्वताविष्टाश्चत्वारो लवणो दधिम्।
छिद्यमानेषु पक्षेषु पुरा इन्द्रस्य वै भयात्॥ १२१.७८ ॥

तेषान्तु द्रृश्यते चन्द्रे शुक्ले कृष्णे समाप्लुतिः॥ १२१.७९ ॥

ते भारतस्य वर्षस्य भेदा ये न प्रकीर्त्तिताः
इहोदितस्य द्रृश्यन्ते अन्ये त्वन्यत्र चोदिताः।
उत्तरोत्तरमेतेषां वर्षमुद्रिच्यते गुणैः॥ १२१.८० ॥

आरोग्यायुः प्रमाणाभ्यां धर्म्मतः कामतोऽर्थकः।
समन्तितानि भूतानि तेषु वर्षेषु भागशः॥ १२१.८१ ॥

वसन्ति नानाजातीनि तेषु सर्वेषु तानि वै।
इत्येतद्धारयद्विश्वं पृथ्वी जगदिदं स्थिताः॥ १२१.८२ ॥