मद्रेश्वरस्य क्रीडाविहारवर्णनम्।
सूत उवाच।
स त्वाश्रमपदे रम्ये त्यक्ताहारपरिच्छदः।
क्रीडाविहारं गन्धर्वैः पश्यत्यप्सरसां सह॥ १२०.१ ॥
कृत्वा पुष्पोच्चयं भूरि ग्रथयित्वा तथा स्रजाः।
अग्रं निवेद्य देवाय गन्धर्वेभ्यस्तदा ददौ॥ १२०.२ ॥
पुष्पोच्चयप्रसक्तानां क्रीडन्तीनां यथा सुखम्।
चेष्टा नानाविधाकाराः पश्यन्नपि न पश्यति॥ १२०.३ ॥
काचित् पुष्पोच्चये सक्ता लताजालेन वेष्टिता।
सखीजनेन सन्त्यक्ता कान्तेनाभिसमुज्झिता॥ १२०.४ ॥
काचित् कमलगन्धाभा निश्वासपवनाहृतैः।
मधुपैराकुलमुखी कान्तेन परिमोचिता॥ १२०.५ ॥
मकरन्दसमाक्रान्तनयना काचिदङ्गना।
कान्तनिश्वासवातेन नीरजंस्ककृतेक्षणा॥ १२०.६ ॥
काचिदुच्चीय पुष्पाणि ददौ कान्तस्य भामिनी।
कान्तसङ्ग्रथितैः पुष्पै रराज कृतशेखरा॥ १२०.७ ॥
उच्चीयस्वयमुद्ग्रथ्य कान्तेन कृतशेखरा।
कृतकृत्यमिवात्मानं मेने मन्मथवर्धिनी॥ १२०.८ ॥
अस्त्यस्मिनाहने कुञ्जे विशिष्टकुसुमा लता।
काचिदेवं रहो नीता रमणेन रिरंसुना॥ १२०.९ ॥
कान्तसन्नामितलता कुसुमानि विचन्वती।
सर्वाभ्यः काचिदात्मानं मेने सर्वगुणाधिकम्॥ १२०.१० ॥
काश्चित् पश्यन्ति भूपालं नलिनीषु पृथक् पृथक्।
क्रीडमानास्तु गन्धर्वै रममाणामनोरमाः॥ १२०.११ ॥
काचिदाताडयत् कान्तमुदकेन शुचिस्मिता।
ताड्यमानाथ कान्तेन प्रीतिं काचिदुपाययौ॥ १२०.१२ ॥
कान्तञ्च ताडयामास जातखेदा वराङ्ना।
अद्रृश्यत वरारोहा श्वासनृत्यत्पयोधरा॥ १२०.१३ ॥
कान्ताम्बुताडनोद्घृष्टकेशपाशनिबन्धना।
केशाकुलमुखी भाति मधुपैरिव पद्मिनी॥ १२०.१४ ॥
स्वचक्षुः सद्रृशैः पुष्पैः सञ्च्छन्ने नलिनीवने।
छन्ना काचिच्चिरात् प्राप्ता कान्तेनान्विष्य यत्नतः॥ १२०.१५ ॥
स्नाता शीतापदेशेन काचित् प्राहाङ्गना भृशम्।
रमणालिङ्गनं चक्रे मनोऽभिलषितञ्चिरम्॥ १२०.१६ ॥
जलार्द्रवसनं सूक्ष्ममङ्गलीनं शुचिस्मिता।
धारयन्ती जनं चक्रे काचित्तत्र समन्मथम्॥ १२०.१७ ॥
कण्ठमाल्यगुणैः काचित् कान्तेनाकृष्यताम्भसि।
त्रुट्यत्स्रग्दामपतितं रमणं प्राह सच्चिरम्॥ १२०.१८ ॥
काचिद् भग्ना सखीदत्त जानुदेशे नखक्षता।
सम्भ्रान्ता कान्तशरणं मग्ना काचिद्गता चिरम्॥ १२०.१९ ॥
काचित् पृष्ठकृतादित्या केशनिस्तोयकारिणी।
शिलातलगता भर्त्रा द्रष्टा कामार्तचक्षुषा॥ १२०.२० ॥
कृत्तमाल्यं विलुलितं सङ्क्रान्तकुचकुङ्कुमम्।
तरिक्रीडितकान्तेव रराज तत् सरोदकम्॥ १२०.२१ ॥
सुस्नातदेवगन्धर्व देवरामागणेन च।
पूज्यमानञ्च दद्रृषे देवदेवं जनार्दनम्॥ १२०.२२ ॥
क्वचिच्च दद्रृशे राजा लतागृहगताः स्त्रियः।
मण्डयन्तीः स्वगात्राणि कान्तसन्न्यस्तमानसाः॥ १२०.२३ ॥
काचिदादर्शनकरा व्यग्रा दूतीमुखोद्रतम्।
श्रृण्वन्ती कान्तवचनमधिका तु तथा बभौ॥ १२०.२४ ॥
काचित् सत्वरिता दूत्या भूषणानां विपर्ययम्।
कुर्वाणा नैव बुबुधे मन्मथाविष्टचेतना॥ १२०.२५ ॥
वायुनुन्नातिसुरिभि कुसुमोत्करमण्डिते।
काञ्चित् पिबन्तीं दद्रृशे मैरेयं नीलशाद्वले॥ १२०.२६ ॥
पाययामास रमणं स्वयं काचिद्वराङ्गना।
काचित् पपौ वरारोहा कान्तपाणिसमर्पितम्॥ १२०.२७ ॥
काचित् स्वनेत्रचपल नीलोत्पलयुतम्पयः।
पीत्वा पप्रच्छ रमणं क्व गतौ तौ ममोत्पलौ॥ १२०.२८ ॥
त्वयैव पीतौ तौ नूनमित्युक्ता रमणेन सा।
तथा विदित्वा मुग्धत्वाद् बभूव व्रीडिता भृशम्॥ १२०.२९ ॥
काचित् कान्तार्पितं सुभ्रुः कान्तपीतावशेषितम्।
सविशेषरसं पानं पपौ मन्मथवर्धनम्॥ १२०.३० ॥
अपानगोष्ठीषु तथा तासां स नरपुङ्गवः।
शुश्राव विविधङ्गीतं तन्त्रीस्वरविमिश्रितम्॥ १२०.३१ ॥
प्रदोषसमये ताश्च देवदेवं जनार्दनम्।
राजन्! सदोपनृत्यन्ति नानावाद्यपुरः सराः॥ १२०.३२ ॥
याममात्रे गते रात्रौ विनिर्गत्य गुहामुखात्।
आवसन् संयुताः कान्तैः परर्धिरचिताङ्गुहाम्॥ १२०.३३ ॥
नानागन्धान्वितलतां नानागन्धसुगन्धिनीम्।
नानाविचित्रशयनां कुसुमोत्करमण्डिताम्॥ १२०.३४ ॥
एवमप्सरसां पश्यन् क्रीडितानि स पर्वते।
तपस्तेपे महाराजन्! केशवार्पितमानसः॥ १२०.३५ ॥
तमूचुर्नृपतिङ्गत्वा गन्धर्वाप्सरसाङ्गणाः।
राजन्! स्वर्गोपमन्देशमिमं प्राप्तोऽस्यरिन्दम!॥ १२०.३६ ॥
वयं हि प्रदास्यामो मनसः काङ्क्षितान्वरान्।
तानादाय गृहङ्गच्छ तिष्ठेह यदि वा पुनः॥ १२०.३७ ॥
राजोवाच।
अमोघदर्शनाः सर्वे भवन्तस्त्वमितौजसः।
वरं वितरताद्यैव प्रसादं मधुसूदनात्॥ १२०.३८ ॥
एवमस्त्वित्यथोक्तस्तैः स तु राजा पुरूरवाः।
तत्रोवास सुखीमासं पूजयानो जनार्दनम्॥ १२०.३९ ॥
प्रिय एव सदैवासीद् गन्धर्वाप्सरसां नृपः।
तुतोष स जनो राज्ञस्तस्या लौल्येन कर्म्मणा॥ १२०.४० ॥
मामस्य मध्ये स नृपः प्रविष्टस्तदाश्रमं रत्नसहस्रचित्रम्।
तोयाशनस्तत्र उवास मासं यावत् सितान्तो नृप! फाल्गुनस्य॥ १२०.४१ ॥
फाल्गुनामलपक्षान्ते राजा स्वप्ने पुरूरवाः।
तस्यैव देवदेवस्य श्रुतवान् गदितं शुभम्॥ १२०.४२ ॥
रात्र्यामस्यां व्यतीतायामत्रिणा त्वं समेष्यसि।
तेन राजन्! समागम्य कृतकृत्यो भविष्यसि॥ १२०.४३ ॥
स्वप्नमेवं स राजर्षिर्द्रृष्ट्वा देवेन्द्रविक्रमः।
प्रत्यूषकाले विधिवत् स्नातः स प्रयतेन्द्रियः॥ १२०.४४ ॥
कृतकृत्यो यथाकामं पूजयित्वा जनार्दनम्।
ददर्शात्रिं मुनिं राजा प्रत्यक्षं तपसां निधिम्॥ १२०.४५ ॥
स्वप्नन्तु देवदेवस्य न्यवेदयत धार्मिकः।
ततः श्रुश्राव वचनं देवतानां समीरितम्॥ १२०.४६ ॥
एवमेतन्महीपाल! नात्र कार्य्या विचारणा।
एवं प्रसादं सम्प्राप्य देवदेवाज्जनार्दनात्॥ १२०.४७ ॥
कृतदेवार्चनो राजा तथा हुतहुताशनः।
सर्वान् कामानवाप्तोऽसौ वरदानेन केशवात्॥ १२०.४८ ॥
इति श्रीमात्स्ये महापुराणे भुवनकोश ऐलाश्रमवर्णनं नाम विंशत्यधिकशततमोऽध्यायः 120