११९

हिमवत्प्रदेशवर्णनम्।
सूत उवाच।
तत्र यौ तौ महाश्रृङ्गौ महावर्णौ महाहिमौ।
तृतीयन्तु तयोर्मध्ये श्रृङ्गमत्यन्तमुच्छ्रितम्॥ ११९.१ ॥

नित्यातप्तशिलाजालं सदाभ्रपरिवर्जितम्।
तस्याधस्ताद्‌वृक्षगणो दिशा भागे च पश्चिमे॥ ११९.२ ॥

जातीलतापरिक्षिप्तं विवरं चारुदर्शनम्।
द्रृष्टैव कौतुकाविष्टस्तं विवेश महीपतिः॥ ११९.३ ॥

तमसा चातिनिबिडं नल्वमात्रं सुसङ्कटम्।
नल्वमात्रमतिक्रम्य स्वप्रभाभरणोज्ज्वलम्॥ ११९.४ ।.

तमुच्छ्रितमथात्यन्तं गम्भीरं परिवर्तुलम्।
न तत्र सूर्य्यस्तपति न विराजति चन्द्रमाः॥ ११९.५ ॥

तथापि दिवसाकारं प्रकाशं तदहर्निशम्।
क्रोशाधिकपरीमाणं सरसाच विराजितम्॥ ११९.६ ॥

समन्तात्सरसस्तस्य शैललग्ना तु वेदिका।
सौवर्णे राजतैर्वृक्षैर्विद्रुमैरुपशोभितम्॥ ११९.७ ॥

नानामाणिक्यकुसुमैः सुप्रभाभरणोज्ज्वलैः।
तस्मिन् सरसि पद्मानि पद्मरागच्छदानि तु॥ ११९.८ ॥

वज्रकेसरजालानि सुगन्धीनि तथा युतम्।
पत्रैर्मरकतैर्नीलर्वैढूर्य्यस्य महीपते॥ ११९.९ ॥

कर्णिकाश्च तथा तेषां जातरूपस्य पार्थिव।
तस्मिन् सरसि या भूमिर्न सा वज्रसमाकुला॥ ११९.१० ॥

नानारत्नैरुपचिता जलजानां समाश्रया।
कपर्दिकानां शुक्तीनां शङ्कानाञ्च महीपते!॥ ११९.११ ॥

मकराणाञ्च मत्स्यानां चण्डानां कच्छपैः सह।
तत्र मरकतखण्डानि वज्राणाञ्च सहस्रशः॥ ११९.१२ ॥

पद्मरागेन्द्रनीलानि महानीलानि पार्थिव।
पुष्परागाणि सर्वाणि तथा कर्कोटकानि च॥ ११९.१३ ॥

तुत्थकस्य तु खण्डानि तथाशेषस्य भागशः।
राजावर्तस्य मुख्यस्य रुचिराक्षस्य चाप्यथ॥ ११९.१४ ॥

सूर्य्येन्दुकान्तयश्चैव नीलो वर्णान्तिमश्च यः।
ज्योतीरसस्य रम्यस्य स्यमन्तस्य च भागशः॥ ११९.१५ ॥

सुरोरगवलक्षाणां स्फटिकस्य तथैव च।
गोमेदपित्तकानाञ्च धूलीमरकतस्य च॥ ११९.१६ ॥

वैढूर्यसौगन्धिकयस्तथा राजमणेर्नृप।
वज्रस्यैव च मुख्यस्य तथा ब्रह्ममणेरपि॥ ११९.१७ ॥

मुक्ताफलानि मुक्तानान्ताराविग्रहधारिणाम्॥ ११९.१८ ॥

सुखोष्णञ्चैव तत्तोयं स्नानाच्छीतविनाशनम्।
वैढूर्यस्य शिलामध्ये सरसस्तस्य शोभना॥ ११९.१९ ॥

प्रमाणेन तथा सा च द्वे च राजन्! धनुः शते।
चतुरस्रा तथा रम्या तपसा निर्मिताऽत्रिणा॥ ११९.२० ॥

बिलद्वारसमो देशो यत्र तत्र हिरण्मयः।
प्रदेशः स तु राजेन्द्र! द्वीपे तस्मिन् मनोहरे॥ ११९.२१ ॥

तथा पुष्करिणी रम्या तस्मिन् राजन्! शिलातले।
सुशीतामलपानीया जलजैश्च विराजिता॥ ११९.२२ ॥

आकाशप्रतिमा राजन्! चतुरस्रा मनोहरा।
तस्यास्तदुदकं स्वादु लघुशीतं सुगन्धिकम्॥ ११९.२३ ॥

न क्षिणोति यथा कण्ठं कुक्षिन्नापूरयत्यपि।
तृप्तिं विधत्ते परमां शरीरे च महत् सुखम्॥ ११९.२४ ॥

मध्ये तु तस्याः प्रासादं निर्मितं तपसात्रिणा।
रुक्मसेतुप्रवेशान्तं सर्वरत्नमयं शुभम्॥ ११९.२५ ॥

इन्द्रनीलमहास्तम्भं मरकतासक्तवेदिकम्।
वज्रांशुजालैः स्फुरितं रम्यं द्रृष्टिमनोरमम्॥ ११९.२६ ॥

प्रासादे तत्र भगवान् देवदेवो जनार्दनः।
भोगिभोगावलीसुप्तः सर्वालङ्कारभूषितः॥ ११९.२७ ॥

जान्वाचकुञ्चितस्त्वेको देवदेवस्य चक्रिणः।
फणीन्द्रसन्निविष्टोऽङ्‌घ्रिर्द्वितीयश्च तथानघ॥ ११९.२८ ॥

लक्ष्म्युत्सङ्गगतोऽङ्घ्रिस्तु शेषभोगप्रशायिनः।
फणीन्द्रभोगसन्यस्तबाहुः केयूरभूषणः॥ ११९.२९ ॥

अङ्गुलीपृष्ठविन्यस्तदेवशीर्षधरम्भुजम्।
एकं वै देवदेवस्य द्वितीयन्तु प्रसारितम्॥ ११९.३० ॥

समाकुञ्चितजानुस्थमणिबन्धेन शोभितम्।
किञ्चिदाकुञ्चितं चैव नाभिदेशकरस्थितम्॥ ११९.३१ ॥

तृतीयन्तु भुजं तस्य चतुर्थन्तु तथा श्रृणु।
आत्तसन्तानकुसुमं घ्राणदेशानुसर्पिणम्॥ ११९.३२ ॥

लक्ष्म्या सवाह्यमानाङ्‌घ्रिः पद्मपत्रनिभेः करैः।
सन्तानमालामुकुटं हारकेयूरभूषितम्॥ ११९.३३ ॥

भूषितञ्च तथा देवमङ्गदैरङ्गुलीयकैः।
फणीन्द्रफणविन्यस्तचारुरत्नशिरोज्ज्वलम्॥ ११९.३४ ॥

अज्ञातवस्तुचरितं प्रतिष्ठितमथात्रिणा।
सिद्धानुपूज्यं सततं सन्तानकुसुमार्चितम्॥ ११९.३५ ॥

दिव्यगन्धानुलिप्ताङ्गं दिव्यधूपेन धूपितम्।
सुरसैः सुफलैर्हृद्यैः सिद्धेरुपहृतैः सदा॥ ११९.३६ ॥

शोभितोत्तमपार्श्वन्तं देवमुत्पलशीर्षकम्।
ततः सन्मुखमुद्वीक्ष्य ववन्दे स नराधिपः॥ ११९.३७ ॥

जानुभ्यां शिरसा चैव गत्वा भूमिं यथाविधिः।
नाम्नां सहस्रेण तदा तुष्टाव मधुसूदनम्॥ ११९.३८ ॥

प्रदक्षिणमथो चक्रे स तूत्थाय पुनः पुनः।
रम्यमायतनं द्रृष्ट्वा तत्रोवासाश्रमे पुनः॥ ११९.३९ ॥

जलाद्‌बहिर्गुहां काञ्चिदाश्रित्य सुमनोहराम्।
तपश्चकार तत्रैव पूजयन्‌ मधुसूदनम्॥ ११९.४० ॥

नानाविधैस्तथा पुष्पैः फलमूलैः सगोरसैः।
नित्यं त्रिषवणस्नायी वह्निपूजापरायणः॥ ११९.४१ ॥

देववापीजलैः कुर्वन् सततं प्राणधारणम्।
सर्वाहारपरित्यागं कृत्वा तु मनुजेश्वरः॥ ११९.४२ ॥

अनास्तृतगुहाशायी कालं नयति पार्थिवः।
त्यक्ताहारक्रियश्चैव केवलं तोयतो नृपः॥ ११९.४३ ॥

न तस्य ग्लानिमायाति शरीरञ्च तदद्‌भुतम्।
एवं स राजा तपसि प्रसक्तः सम्पूजयन् देववरं सदैव॥
तत्राश्रमे कालमुवास कञ्चित् स्वर्गोपमे दुःखमविन्दमानः॥ ११९.४४ ॥