हिमवद्वर्णनम्।
सूत उवाच।
आलोकयन्नदीं पुण्यान्तत्समीपहृतश्रमः।
स गच्छन्नेव दद्रृशे हिमवन्तं महागिरिम्॥ ११७.१ ॥
खमुल्लिखद्भिः बहुभिर्वृतं श्रृङ्गैस्तु पाण्डुरैः।
पक्षिणामपि सञ्चारैर्विना सिद्धगतिं शुभम्॥ ११७.२ ॥
नदीप्रवाहसञ्जातमहाशब्देः समन्ततः।
असंश्रुतान्यशब्दन्तं शीततोयं मनोरमम्॥ ११७.३ ॥
देवदारुवनैर्नीलैः कृताधोवसनं शुभम्।
मेघोत्तरीयकं शैलं दद्रृशे स नराधिपः॥ ११७.४ ॥
श्वेतमेघकृतोष्णीषं चन्द्रार्कमुकुटं क्वचित्।
हिमानुलिप्तसर्वाङ्गं क्वचिद्धातुविमिश्रितम्॥ ११७.५ ॥
चन्दनेनानुलिप्ताङ्गं दत्तपञ्चाङ्गुलं यथा।
शीतप्रदं निदाघेऽपि शिलाविकटसङ्कटम्॥
सालक्तकैरप्सरसां मुद्रितं चरणैः क्वचित्॥ ११७.६ ॥
क्वचित्सम्पृष्टसूर्य्यांशुं क्वचिच्च तमसावृतम्।
दरीमुखैः क्वचिद्भीमैः पिबन्तं सलिलं महत्॥ ११७.७ ॥
क्वचिद्विद्याधरगणैः क्रीडद्भिरुपशोभितम्।
उपगीतं तथा मुख्यैः किन्नराणाङ्गणैः क्वचित्॥ ११७.८ ॥
आपानभूमौ गलितैर्गन्धर्वाप्सरसां क्वचित्।
पुष्पैः सन्तानकादीनां दिव्यैस्तमुपशोभितम्॥ ११७.९ ॥
सुप्तोत्थिताभिः शय्याभिः कुसुमानां तथा क्वचित्।
मृदिताभिः समाकीर्णं गन्धर्वाणां मनोरमम्॥ ११७.१० ॥
निरुद्धपवनैर्देशैर्नीलशाद्वलमण्डितैः।
क्वचिच्च कुसुमैर्युक्तमत्यन्तरुचिरं शुभम्॥ ११७.११ ॥
तपस्विशरणं शैलं कामिनामतिदुर्लभम्।
मृगैर्यथानुचरितन्दन्तिभिन्नमहाद्रुमम्॥ ११७.१२ ॥
यत्र सिंहनिनादेन त्रस्तानां भैरवं रवम्।
द्रृश्यते न च संस्रान्तं गजानामाकुलं कुलम्॥ ११७.१३ ॥
तटाश्च तापसैर्यत्र कुञ्जदेशैरलङ्कृताः।
रत्नैर्यस्यसमुत्पन्नैस्त्रैलोक्यं समलङ्कृतम्॥ ११७.१४ ॥
अहीनशरणं नित्यमहीनजनसेवितम्।
अहीनः पश्यति गिरिमहीनं रत्नसम्पदा॥ ११७.१५ ॥
अल्पेन तपसा यत्र सिद्धिं प्राप्स्यन्ति तापसाः।
यस्य दर्शनमात्रेण सर्वकल्मषनाशनम्॥ ११७.१६ ॥
महाप्रपातसम्पातप्रपातादिगताम्बुभिः।
वायुनीतैः सदा तृप्तिकृतदेशं क्वचित् क्वचित्॥ ११७.१७ ॥
समालब्धजलैः शृङ्गैः क्वचिच्चापि समुच्छ्रितैः।
नित्यर्क ताप विषमैरगम्यैर्मनसा युतम्॥ ११७.१८ ॥
देवदारुमहावृक्षव्रजशाखानिरन्तरैः।
वंशस्तम्बवनाकारैः प्रदेशेरुपशोभितम्॥ ११७.१९ ॥
हिमच्छत्रमहाशृङ्गं प्रपातशतनिर्झरम्।
शब्दलभ्याम्बुविषमं हिमसंरुद्धकन्दरम्॥ ११७.२० ॥
द्रृष्टैव तं चारुनितम्बभूमिं महानुभावः स तु मद्रनाथः।
बभ्राम तत्रैव मुदा समेतस्थानं तदा किञ्चिदथाससाद॥ ११७.२१ ॥