हैमवतीनदीमाहात्म्यवर्णनम्।
सूत उवाच।
स ददर्शनदीं पुण्यां दिव्यां हैमवतीं शुभाम्।
गन्धर्वैश्च समाकीर्णां नित्यं शक्रेणसेविताम्॥ ११६.१ ॥
सुरेभमदसंसिक्तां समन्तात्तु विराजिताम्।
मध्येन शक्रचापाभां तस्मिन्नहनि सर्वदा॥ ११६.२ ॥
तपस्विशरणोपेतां महाब्राह्मणसेविताम्।
ददर्श तपनीयाभां महाराजः पुरूरवाः॥ ११६.३ ॥
सितहंसावलिच्छन्नाङ्काशचामरराजिताम्।
साभिषिक्तामिव सतां पश्यन्प्रीतिं परां ययौ॥ ११६.४ ॥
पुण्यां सुशीतलां हृद्यां मनसः प्रतिवर्द्धिनीम्।
क्षयवृद्धियुतां रम्यां सोममूर्त्तिमिवापराम्॥ ११६.५ ॥
सुशीतशीघ्रपानीयां द्विजसङ्घनिषेविताम्।
सुतां हिमवतः श्रेष्ठां चञ्चद्वीचि विराजिताम्॥ ११६.६ ॥
अमृतस्वादुसलिलान्तापसैरुपशोभिताम्।
स्वर्गारोहणनिः श्रेणीं सर्वकल्मषनाशिनीम्॥ ११६.७ ॥
अग्य्रां समुद्रमहिषीं महर्षिगणसेविताम्।
सर्वलोकस्य चौत्सुक्यकारिणीं सुमनोहराम्॥ ११६.८ ॥
हितां सर्वस्य लोकस्य नाकमार्गं प्रदायिकाम्।
गोकुलाकुलतीरान्तां रम्यां शैवालवर्जिताम्॥ ११६.९ ॥
हंससारससङ्घुष्टां जलजैरुपशोभिताम्।
आवर्तनाभिगम्भीरां द्वीपोरुजघनस्थलीम्॥ ११६.१० ॥
नीलनीरजनेत्राभां उत्फुल्लकमलाननाम्।
हिमाभफेनवसनाञ्चक्रवाकाधरां शुभाम्॥
बलाकापङ्क्तिदशनाञ्चलन्मत्स्यावलिभ्रुवम्॥ ११६.११ ॥
स्वजलोद्भूतमातङ्गरम्यकुम्भपयोधराम्।
हंसनूपुरसङ्घुष्टां मृणालवलयावलीम्॥ ११६.१२ ॥
तस्यां रूपमहोन्मत्ता गन्धर्वानुगताः सदा।
मध्याह्नसमये राजन्! क्रीडन्त्यप्सरसाङ्गणाः॥ ११६.१३ ॥
तामप्सरोविनिर्मुक्तं वहन्तीं कुङ्कुमं शुभम्।
स्वतीरद्रुमसम्भूतनानावर्णसुगन्धिनीम्॥ ११६.१४ ॥
तरङ्गव्रतसङ्क्रान्त सूर्य्यमण्डलदुर्द्रृशम्।
सुरेभजनिताघातविकूलद्वयभूषिताम्॥ ११६.१५ ॥
शक्रेभगण्डसलिलैर्देवस्त्रीकुलचन्दनैः
संयुतं सलिलं तस्याः षट्पदैरुपसेव्यते॥ ११६.१६ ॥
तस्यास्तीरभवा वृक्षाः सुगन्धकुसुमाच्चिताः।
तथापकृष्टसम्भ्रान्तभ्रमरस्तनिताकुलाः॥ ११६.१७ ॥
यस्यास्तीरे रितं यान्ति सदा कामवशा मृगाः।
तपोधनाश्च ऋषयस्तथा देवाः सहाप्सराः॥ ११६.१८ ॥
लभन्ते यत्र पूताङ्गा देवेभ्यः प्रतिमानिताः।
स्त्रियश्च नाकबहुलाः पद्मेन्दुप्रतिमाननः॥ ११६.१९ ॥
या बिभर्ति सदा तोयं देवसङ्घैरपीडितम्।
पुलिन्दैर्नृपसङ्घैश्च व्याघ्रवृन्दैरपीडितम्॥ ११६.२० ॥
सतामरसपानीयां सतारगगनामलाम्।
सतां पश्यन् ययौ राजा सतामीप्सितकामदाम्॥ ११६.२१ ॥
यस्यास्तिररुहैः काशैः पूर्णैश्चन्द्रांशुसन्निभैः।
राजते विविधाकारैः रम्यं तीरं महाद्रुमैः॥
या सदा विविधैर्विप्रैर्देवैश्चापि निषेव्यते॥ ११६.२२ ॥
या च सदा सकलोघविनाशं भक्तजनस्य करोत्यचिरेण।
यानुगता सरितां हिकदम्बैर्यानुगता सततं हि मुनीन्द्रैः॥ ११६.२३ ॥
या हि सुतानिव पाति मनुष्यान् या च युता सततं हिमसन्धैः।
या च युता सततं सुरवृन्दैर्या च जनैः स्वहिताय श्रिता वै॥ ११६.२४ ॥
युक्ता च केसरिगणैः करिवृन्दजुष्टा सन्तानयुक्तसलिलापि सुवर्णयुक्ता।
सूर्य्यांशुतापपरिवृद्धिविवृद्धशीता शीतांशुतुल्ययशसा दद्रृशे नृपेण॥ ११६.२५ ॥