११३

द्वीपसमुद्रपर्वतानां वर्णनम्।
ऋषय ऊचुः।
कति द्वीपाः समुद्रा वा पर्वता वा कति प्रभो!।
कियन्ति चैव वर्षाणि तेषु नद्यश्च काः स्मृताः॥ ११३.१ ॥

महाभूमिप्रमाणञ्च लोकालोकस्तथैव च।
पर्याप्तिं परिमाणञ्च गतिश्चन्द्रार्कयोस्तथा॥ ११३.२ ॥

एतद्‌ ब्रवीहि नः सर्वं विस्तरेण यथार्थवित्।
त्वदुक्तमेतत् सकलं श्रोतुमिच्छामहे वयम्॥ ११३.३ ॥

सूत उवाच।
द्वीपभेदसहस्राणि सप्तचान्तर्गतानिच।
न शक्यन्ते क्रमेणेह वक्तुं वै सकलं जगत्॥ ११३.४ ॥

सप्तैव तु प्रवक्ष्यामि चन्द्रादित्यग्रहैः सह।
तेषां मनुष्यतर्केण प्रमाणानि प्रचक्षते॥ ११३.५ ॥

अचिन्त्याः खलु ये भावास्तांस्तु तर्केण साधयेत्।
प्रकृतिभ्यः परं यच्च तदचिन्त्यस्य लक्षणम्॥ ११३.६ ॥

सप्तवर्षाणि वक्ष्यामि जम्बूद्वीपं यथाविधम्।
विस्तरं मण्डलं यच्च योजनैस्तं निबोधत॥ ११३.७ ॥

योजनानां सहस्राणि शतं द्वीपस्य विस्तरः।
नानाजनपदाकीर्णं पुरैश्च विवधैः शुभैः॥ ११३.८ ॥

सिद्धचारणसङ्कीर्णं पर्वतैरुपशोभितम्।
सर्वधातुपिनद्धैस्तैः शिलाजालसमुद्गतैः॥ ११३.९ ॥

पर्वतप्रसवाभिश्च नदीभिस्तु समन्ततः।
प्रागायता महापार्श्वाः षडिमे वर्षपर्वताः॥ ११३.१० ॥

अवगाह्य ह्युभयतः समुद्रौ पूर्वपश्चिमौ।
हिमप्रायश्च हिमवान् हेमकूटश्च हेमवान्॥ ११३.११ ॥

चातुर्वर्ण्यस्तु सौवर्णोमेरुश्चोल्वमयः स्मृतः।
चतुर्विंशत्सहस्राणि विस्तीर्णश्च चतुर्दिशम्॥ ११३.१२ ॥

वृत्ताकृतिप्रमाणश्च चतुरस्रः समाहितः।
नानावर्णैः समः पाश्वैः प्रजापतिगुणान्वितः॥ ११३.१३ ॥

नाभिबन्धनसम्भूतो ब्रह्मणो व्यक्तजन्मनः।
पर्वतः श्वेतवर्णस्तु ब्राह्मण्यं तस्य तेन वै॥ ११३.१४ ॥

पीतश्च दक्षिणेनासौ तेन वैश्यत्वमिष्यते।
भृङ्गिपत्रनिभश्चैव पश्चिमेन समन्वितः॥
तेनास्य शूद्रता सिद्धा मेरोर्नामार्थकर्म्मतः॥ ११३.१५ ॥

पार्श्वमुत्तरतस्तस्य रक्तवर्णं स्वभावतः।
तेनास्य क्षत्रभावः स्यादितिवर्णाः प्रकीर्त्तिताः॥ ११३.१६ ॥

नलश्च वैढूर्यमयः श्वेतः पीतो हिरण्मयः।
मयूरबर्हवर्णश्च शातकौम्भः स श्रृङ्गवान्॥ ११३.१७ ॥

एते पर्वतराजानः सिद्धचारणसेविताः।
तेषामन्तरविष्कम्भो नवसाहस्रमुच्यते॥ ११३.१८ ॥

मध्ये त्विलावृतं नाम महामेरोः समन्ततः।
चतुर्विशत्‌सहस्राणि विस्तीर्णो योजनैः समः॥ ११३.१९ ॥

मध्ये तस्य महामेरुर्विधूम इव पावकः।
वेद्यर्द्धं दक्षिणं मेरोरुत्तरार्द्धं तथोत्तरम्॥ ११३.२० ॥

वर्षाणि यानि सप्तात्र तेषां वा वर्षपर्वताः।
द्वे द्वे सहस्रे विस्तीर्णा योजनैर्दक्षिणोत्तरम्॥ ११३.२१ ॥

जम्बूद्वीपस्य विस्तारस्तेषामायाम उच्यते।
नीलश्च निषधश्चैव तेषां हीनाश्च ये परे॥ ११३.२२ ॥

श्वेतश्च हेमकूटश्च हिमवान् श्रृङ्गवांश्च यः।
जम्बूद्वीपप्रमाणेन ऋषभः परिकीर्त्यते॥ ११३.२३ ॥
तस्माद्‌द्वादशभागेन हेमकूटोऽपि हीयते।
हिमवान् विंशभागेन तस्मादेव प्रहीयते॥
अष्टाशीतिसहस्राणि हेमकूटो महागिरिः॥ ११३.२४ ॥

अशीतिर्हिमवांश्चैल आयतः पूर्वपश्चिमे!।
द्वीपस्य मण्डलीभावाद्‌ध्रासवृद्धी प्रकीर्त्तिते॥ ११३.२५ ॥

वर्षाणां पर्वतानाञ्च यथाभेदं तथोत्तरम्।
तेषां मध्ये जनपदास्तानि वर्षाणि सप्त वै॥ ११३.२६ ॥

प्रपातविषमेस्तैस्तु पर्वतैरावृतानि तु।
सप्त तानि नदीभेदैरगम्यानि परस्परम्॥ ११३.२७ ॥

वसन्ति तेषु सत्वानि नानाजातीनि सर्वशः।
इमं हैमवतं वर्षं भारतं नाम विश्रुतम्॥ ११३.२८ ॥

हेमकूटं परं तस्मान्नाम्ना किं पुरुषं स्मृतम्।
हेमकूटाच्च निषधं हरिवर्षं तदुच्यते॥ ११३.२९ ॥

हरिवर्षात्परञ्चापि मेरोस्तु तदिलावृतम्।
इलावृतात्परं नीलं रम्यकं नाम विश्रुतम्॥ ११३.३० ॥

रम्यकादपरं श्वेतं विश्रुतं तद्धिरण्यकम्।
हिरण्यकात्परञ्चैव श्रृङ्गशाकं कुरं स्मृतम्॥ ११३.३१ ॥

धनुः संस्थे तु विज्ञेयो देवर्षे! दक्षिणोत्तरे।
दीर्घाणि तस्य चत्वारि मध्यमं तदिलावृतम्॥ ११३.३२ ॥

पूर्वतो निषधस्येदं वेद्यर्द्धं दक्षिणं स्मृतम्।
परन्त्विलावृतं पश्चाद्वेद्यर्द्धन्तु तदुत्तरम्॥ ११३.३३ ॥

तयोर्मध्ये तु विज्ञेयो मेरुर्यत्र त्विलावृतम्।
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु॥ ११३.३४ ॥

उद्‌गायतो महाशैलो माल्यवान् नाम पर्वतः।
द्वात्रिंशता सहस्रेण प्रतीच्यां सागरानुगः॥ ११३.३५ ॥
माल्यवान् वै सहस्रैक आनील निषधायतः।
द्वात्रिंशत्त्वेवमप्युक्तः पर्वतो गन्धमादनः॥ ११३.३६ ॥

परिमण्डलयोर्मध्ये मेरुः कनकपर्वतः।
चातुर्वर्ण्यसमोवर्णश्चतुरस्रः समुच्छ्रिता॥ ११३.३७ ॥

नानावर्णः सपार्श्वेषु पूर्वान्ते श्वेत उच्यते।
पीतन्तु दक्षिणं तस्य भृङ्गिपत्रनिभम्परम्।
उत्तरं तस्य रक्तं वा इति वर्णसमन्वितः॥ ११३.३८ ॥

मेरुस्तु शुशुभे दिव्यो राजवत्स तु वेष्टितः।
आदित्यतरुणाभासो विधूम इव पावकः॥ ११३.३९ ॥

योजनानां सहस्राणि चतुराशीति उच्छ्रितः।
प्रविष्टः षोडशाधस्तादष्टाविंशतिविस्तृतः॥ ११३.४० ॥

विस्तराद्‌द्विगुणश्चास्य परीणाहः समन्ततः।
स पर्वतो महादिव्यो दिव्यौषधिसमन्वितः॥ ११३.४१ ॥

भुवनैरावृतः सर्वैर्जातरूपपरिष्कृतैः।
तत्र देवगणाश्चैव गन्धर्वासुरराक्षसाः॥
शैलराजे प्रमोदन्ते सर्वतोऽप्सरसाङ्गणैः॥ ११३.४२ ॥

स तु मेरुः परिवृतो भुवनैर्भूतभावनैः।
यस्येमे चतुरो देशा नानापार्श्वेषु संस्थिताः॥ ११३.४३ ॥

भद्राश्वं भारतञ्चैव केतुमालञ्च पश्चिमे।
उत्तराश्चैव कुरवः कृतपुण्यप्रतिश्रयाः॥ ११३.४४ ॥

विष्कम्भपर्वतास्तद्वन्मन्दरो गन्धमादनः।
विपुलश्च सुपार्श्वश्च सर्वरत्नविभूषितः॥ ११३.४५ ॥

अरुणोदं मानसञ्च सितोदं भद्रसञ्ज्ञितम्।
तेषामुपरि चत्वारि सरांसि च वनानि च॥ ११३.४६ ॥

तथा भद्रकदम्बस्तु पर्वते गन्धमादने।
जम्बूवृक्षस्तथाश्वत्थो विपुलोऽथ वटः परम्॥ ११३.४७ ॥

गन्धमादनपार्श्वे तु पश्चिमेऽमरगण्डिकः।
द्वात्रिंशति सहस्राणि योजनैः सर्वतः समः॥ ११३.४८ ॥

तत्र ते शुभकर्माणः केतुमालाः परिश्रुताः।
तत्र कालानलाः सर्वे महासत्वा महाबलाः॥ ११३.४९ ॥

स्त्रियश्चोत्पलवर्णाभाः सुन्दर्यः प्रियदर्शनाः।
तत्र दिव्यो महावृक्षः पनसः पत्रभासुरः॥ ११३.५० ॥

तस्य पीत्वा फलरसं सञ्जीवन्ति समायुतम्।
तस्य माल्यवतः पार्श्वे पूर्वे पूर्वातुगण्डिका
द्वात्रिंशच्च सहस्राणि तत्राणि शतमुच्यते॥ ११३.५१ ॥

भद्रश्च तत्र विज्ञेयो नित्यं मुदितमानसः।
भद्रमालवनं तत्र कालाम्रश्च महाद्रुमः॥ ११३.५२ ॥

तत्र ते पुरुषाः श्वेता महासत्वा महाबलाः।
स्त्रियः कुमुदवर्णाभाः सुन्दर्यः प्रियदर्शनाः॥ ११३.५३ ॥

चन्द्रप्रभाश्चन्द्रवर्णाः पूर्णचन्द्रनिभाननाः।
चन्द्रशीतलगात्राश्च स्त्रियोह्युत्पलगन्धिकाः॥ ११३.३४ ॥

दशवर्षसहस्राणि आयुस्तेषामनामयम्।
कालाम्रस्य रसं पीत्वा ते सर्वे स्थिरयौवनाः॥ ११३.५५ ॥

सूत उवाच।
इत्युक्तवान् ऋषीन् ब्रह्मा वर्षाणि च निसर्गतः।
पूर्वं ममानुग्रहकृद्‌भूयः किं वर्णयामि वः॥ ११३.५६ ॥

एकाहाज्जायते युग्मं समञ्चैव विवर्द्धते।
समं रूपं च शीलञ्च समञ्चैव म्रियन्ति वै॥ ११३.५७ ॥

ऋषय ऊचुः।
पूर्वापरौ समाख्यातौ यौ देशौ तौ त्वया मुने!।
उत्तराणाञ्च वर्षाणां पर्वतानाञ्च सर्वशः॥ ११३.५८ ॥

आख्याहिनो यथातथ्यं ये च पर्वतवासिनः।
एवमुक्तस्तु ऋषिभिस्तेभ्यस्त्वाख्यातवान् पुनः॥ ११३.५९ ॥

सूत उवाच।
श्रृणुध्वं यानि वर्षाणि पूर्वोक्तानि च वै मया।
दक्षिणेन तु नीलस्य निषधस्योत्तरेणतु॥ ११३.६० ॥

वर्षं रमणकं नाम जायन्ते यत्र वै प्रजाः।
रतिप्रधाना विमला जायन्ते यत्र मानवाः॥
शुक्लाभिजनसम्पन्नाः सर्वे ते प्रियदर्शनाः॥ ११३.६१ ॥

तत्रापि च महावृक्षो न्यग्रोधो रोहिणो महान्।
तस्यापि ते फलरसं पिबन्तो वर्तयन्ति हि॥ ११३.६२ ॥

दशवर्षसहस्राणि दशवर्षशतानि च।
जीवन्ति ते महाभागाः सदा हृष्टा नरोत्तमाः॥ ११३.६३ ॥

उत्तरेण तु श्वेतस्य पार्श्वे श्रृङ्गस्य दक्षिणे।
वर्षं हिरण्वतं नाम यत्र हैरण्वती नदी॥ ११३.६४ ॥

महाबला महासत्वा नित्यं मुदितमानसाः।
शुक्लाभिजनसम्पन्नाः सर्वे च प्रियदर्शनाः॥ ११३.६५ ॥

एकादशसहस्राणि वर्षाणां ते नरोत्तमाः।
आयुः प्रमाणां जीवन्ति शतानि दशपञ्च च॥ ११३.६६ ॥

तस्मिन् वर्षे महावृक्षौ लिकुचः पत्रसंश्रयः।
तस्य पीत्वा फलरसं तत्र जीवन्ति मानवाः॥ ११३.६७ ॥

श्रृङ्गसाह्वस्य श्रृह्गाणि त्रीणि तानि महान्ति वै।
एकं मणियुतं तत्र एकन्तु कनकान्वितम्॥
सर्वरत्नमयं चैकं भुवनैरुपशोभितम्॥ ११३.६८ ॥

उत्तरे चास्य श्रृङ्गस्य समुद्रान्ते च दक्षिणे।
कुरवस्तत्रतद्वर्षं पुण्यं सिद्धनिषेवितम्॥ ११३.६९ ॥

तत्र वृक्षा मधुफला दिव्यामृतमयापगाः।
वस्त्राणि ते प्रसूयन्ते फलैश्चाभरणानि च॥ ११३.७० ॥

सर्वकामप्रदातारः केचिद् वृक्षा मनोरमाः।
अपरे क्षीरिणो नाम वृक्षास्तत्र मनोरमाः॥
ये रक्षन्ति सदा क्षीरं षट्‌पञ्चामृतोपमम्॥ ११३.७१ ॥

सर्वा मणिमयी भूमिः सूक्ष्मा काञ्चनबालुका।
सर्वत्र सुखसंस्पर्शा निःशब्दाः पवनाः शुभाः॥ ११३.७२ ॥

देवलोकच्युतास्तत्र जायन्ते मानवाः शुभाः।
शुक्लाभिजनसम्पन्नाः सर्वे ते स्थिरयौवनाः॥ ११३.७३ ॥

मिथुनानि प्रजायन्ते स्त्रियश्चाप्सरसोपमाः।
तेषान्ते क्षीरिणां क्षीरं पिबन्ति ह्यमृतोपमम्॥ ११३.७४ ॥

एकाहाज्जायते युग्मं समञ्चैव विवर्द्धते।
समं रूपं च शीलञ्च समञ्चैव म्रियन्ति वै॥ ११३.७५ ॥

एकैकमनुरक्ताश्च चक्रवाकमिव ध्रुवम्।
अनामया ह्यशोकाश्च नित्यं मुदितमानसाः॥ ११३.७६ ॥

दशवर्षसहस्राणि दशवर्षशतानि च।
जीवन्ति च महासत्वा न चान्या स्त्री प्रवर्त्तते॥ ११३.७७ ॥

सूत उवाच।
एवमेव निसर्गो वै वर्षाणां भारते युगे।
द्रृष्टः परमधर्मज्ञाः किम्भूयः कथयामि वः॥ ११३.७८ ॥

आख्यातास्त्वेवमृषयः सूतपुत्रेण धीमता।
उत्तरश्रवणे भूयः पप्रच्छ्रुः सूतनन्दनम्॥ ११३.७९ ॥