१११

युधिष्ठिर उवाच।
कथं सर्वमिदं प्रोक्तं प्रयागस्य महामुने!
एतन्नः सर्वमाख्याहि यथा हि मम तारयेत्॥ १११.१ ॥

मार्कण्डेय उवाच।
श्रृणु राजन्! प्रयागे तु प्रोक्तं सर्वमिदं जपेत्।
ब्रह्मा विष्णुस्तथेशानो देवताः प्रभुरव्ययः॥ १११.२ ॥

ब्रह्मा सृजति भूतानि स्थावरं जङ्गमञ्च यत्।
तान्येतानि परं लोके विष्णुः सम्वर्द्धते प्रजाः॥ १११.३ ॥

कल्पान्ते तत्समग्रं हि रुद्रः संहरते जगत्।
तदा प्रयागतीर्थञ्च न कदाचिद्विनश्यति॥ १११.४ ॥

ईश्वरः सर्वभूतानां यः पश्यति स पश्यति।
यत्नेनानेन तिष्ठन्ति ते यान्ति परमाङ्गतिम्॥ १११.५ ॥

युधिष्ठिर उवाच।
आख्याहि मे यथातथ्यं यथैषा तिष्ठति श्रुतिः।
केन वा कारणेनैव तिष्ठन्ते लोकसत्तमाः॥ १११.६ ॥

मार्कण्डेय उवाच।
प्रयागे निवसन्ते ते ब्रह्मविष्णुमहेश्वराः।
कारणं तत्प्रवक्ष्यामि श्रृणु तत्त्वं युधिष्ठिर!॥ १११.७ ॥

पञ्चयोजनविस्तीर्णं प्रयागस्य तु मण्डलम्।
तिष्ठन्ति रक्षणा यात्र पापकर्मनिवारणात्॥ १११.८ ॥

उत्तरेण प्रतिष्ठानाच्छद्मना ब्रह्म तिष्ठति।
वेणीमाधवरूपी तु भगवांस्तत्र तिष्ठति॥ १११.९ ॥

माहेश्वरो वटो भूत्वा तिष्ठते परमेश्वरः।
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः॥
रक्षन्ति मण्डलं नित्यं पापकर्मनिवारणात्॥ १११.१० ॥

यस्मिन् जुह्वन् स्वकं पापं नरकञ्च न पश्यति।
एवं ब्रह्मा च विष्णुश्च प्रयागे समहेश्वरः॥ १११.११ ॥

सप्तद्वीपाः समुद्राश्च पर्वताश्च महीतले।
रक्षमाणाश्च तिष्ठन्ति यावदाभूतसम्प्लवम्॥ १११.१२ ॥

येचान्ये बहवः सर्वे तिष्ठन्ति युधिष्ठिर!।
पृथिवी तत्समाश्रित्य निर्मिता दैवतैस्त्रिभिः॥ १११.१३ ॥

प्रजापतेरिन्द्र (दं) क्षेत्रं प्रयागमिति विश्रुतम्।
एतत् पुण्यं पवित्रं वै प्रयागञ्च युधिष्ठिर!॥
स्वराज्यं कुरु राजेन्द्र! भ्रातृभिः सहितोऽनघ॥ १११.१४ ॥