१०६

युधिष्ठिर उवाच।
यथा यथा प्रयागस्य माहात्म्यं कथ्यते त्वया।
तथा तथा प्रमुच्येऽहं सर्वपापैर्न संशयः॥ १०६.१ ॥

भगवन्! केन विधिना गन्तव्यं धर्म्मनिश्चयैः।
प्रयागे यो विधिः प्रोक्तस्तन्मे ब्रूहि महामुने!॥ १०६.२ ॥

मार्कण्डेय उवाच।
कथयिष्यामि ते राजन्! तीर्थयात्राविदिक्रमम्।
आर्षेण विधिनानेन यथा द्रृष्टं यथाश्रुतम्॥ १०६.३ ॥

प्रयागतीर्थयात्रार्थी यः प्रयाति नरः क्वचित्।
बलीवर्दसमारूढ श्रृणु तस्यापि यत्फलम्॥ १०६.४ ॥

नरके वसते घोरे गवां क्रोष्टा हि दारुणे।
सलिलं न च गृह्णन्ति पितरस्तस्य देहिनः॥ १०६.५ ॥

यस्तु पुत्रांस्तथा बालान् स्नापयेत्पाययेत्तया।
यथात्मना तथा सर्वं दानं विप्रेषु दापयेत्॥ १०६.६ ॥

ऐश्वर्यलोभमोहाद्वा गच्छेद्यानेन यो नरः।
निष्फलं तस्य तत्सर्वं तस्माद्यानं विवर्जयेत्॥ १०६.७ ॥

गङ्गायमुनयोर्मध्ये यस्तु कन्यां प्रयच्छति।
आर्षैणैव विवाहेन यथा विभवसम्भवम्। १०६.८ ॥

न स पश्यति तं घोरं नरकं तेन कर्म्मणा।
उत्तरान् स कुरून् गत्वा मोदते कालमक्षयम्॥
पुत्रान्दारांश्च लभते धार्मिकान् रूपसंयुतान्॥ १०६.९ ॥

तत्र दानं प्रकर्त्तव्यं यथा विभवसम्भवम्।
तेन तीर्थफलञ्चैव वर्धते नात्र संशयः॥
स्वर्गे तिष्ठति राजेन्द्र! यावदाभूतसम्प्लवम्॥ १०६.१० ॥

वटमूलं समासाद्य यस्तु प्राणान् विमुञ्चति।
सर्वलोकानतिक्रम्य रुद्रलोकं स गच्छति॥ १०६.११ ॥

तत्र ते द्वादशादित्यास्तपन्ति रुद्रसंश्रिताः।
निर्दहन्ति जगत्सर्वं वटमूलं न दह्यते॥ १०६.१२ ॥

नष्टचन्द्रार्कभुवनं यदा चैकार्णवं जगत्।
स्थीयते तत्र वै विष्णुर्यजमानः पुनः पुनः॥ १०६.१३ ॥

देवदानवागन्धर्वा ऋषयः सिद्धचारणाः।
सदा सेवन्ति तत्तीर्थं गङ्गायमुनसङ्गमम्॥ १०६.१४ ॥

ततो गच्छेत राजेन्द्र! प्रयागं संस्तुवंश्च यत्।
यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः॥ १०६.१५ ॥

लोकपालाश्च साध्याश्च पितरो लोकसम्मताः।
सनत्कुमारप्रमुखास्तथैव परमर्षयः॥ १०६.१६ ॥

अङ्गिरः प्रमुखाश्चैव तथा ब्रह्मर्षयः परे।
तथा नागाः सुपर्णाश्च सिद्धाश्चक्रधरास्तथा॥ १०६.१७ ॥

सागराः सरितः शैला नागा विद्याधराश्च ये।
हरिश्च भगवानास्ते प्रजापतिपुरः सरः॥ १०६.१८ ॥

गङ्गायमुनमोर्मध्ये पृथिव्या जघनं स्मृतम्।
प्रयागं राजशार्दूल त्रिषु लोकेषु भारत!॥ १०६.१९ ॥

श्रवणात्तस्य तीर्थस्य नामसङ्कीर्त्तनादपि।
मृत्तिकालम्भनाद्वापि नरः पापात् प्रमुच्यते॥ १०६.२० ॥

तत्राभिषेकं यः कुर्यात् सङ्गमे शंसितव्रतः।
तुल्यं फलमवाप्नोति राजसूयाश्वमेधयोः॥ १०६.२१ ॥

न देववचनात्तात! न लोकवचनात्तथा।
मतिरुत्क्रमणीया ते प्रयागगमनम्प्रति॥ १०६.२२ ॥

दशतीर्थसहस्राणि षष्टिकोट्यस्तथापराः।
तेषां सान्निध्यमत्रैव ततस्तु कुरुनन्दन!॥ १०६.२३ ॥

या गतिर्योगयुक्तस्य सत्यस्थस्य मनीषिणः।
स गतिस्त्यजतः प्राणान् गङ्गायमुनसङ्गमे॥ १०६.२४ ॥

न ते जीवन्ति लोकेऽस्मिन् तत्रतत्र युधिष्ठिर।
ये प्रयागं न सम्प्राप्ता स्त्रिषु लोकेषु वञ्चिताः॥ १०६.२५ ॥

एवं द्रृष्ट्वा तु तत्तीर्थं प्रयागं परमम्पदम्।
मुच्यते सर्वपापेभ्यो शशाङ्क इव राहुणा॥ १०६.२६ ॥

कम्बलाश्वतरौ नागौ विपुले यमुनातटे।
तत्र स्नात्वा च पीत्वा च सर्वपापैः प्रमुच्यते॥ १०६.२७ ॥

तत्र गत्वा च संस्थानं महादेवस्य धीमतः।
नरस्तारयते सर्वान् दशपूर्वान् दशापरान्॥ १०७.२८ ॥

कृत्वाभिषेकन्तु नरः सोऽश्वमेधफलं लभेत्।
स्वर्गलोकमवाप्नोति यावदाभूतसम्प्लवम्॥ १०६.२९ ॥

पूर्वपार्श्वे तु गङ्गाया स्त्रिषु लोकेषु भारत।
कूपञ्चैव तु सामुद्रं प्रतिष्ठानञ्च विश्रुतम्॥ १०६.३० ॥

ब्रह्मचारी जितक्रोधस्त्रिरात्रं यदि तिष्ठति।
सर्वपापविशुद्धात्मा सोऽश्वमेधफलं लभेत्॥ १०६.३१ ॥

उत्तरेण प्रतिष्ठानात् भागीरथ्यास्तु पूर्वतः।
हंसप्रपतनं नाम तीर्थं त्रैलोक्यविश्रुतम्॥ १०६.३२ ॥

अश्वमेधफलं तस्मिन् स्नानमात्रेण भारत।
यावच्चन्द्रश्च सूर्यश्च तावत् स्वर्गे महीयते॥ १०६.३३ ॥

उर्वशीरमणे पुण्ये विपुले हंसपाण्डुरे।
परित्यजति यः प्राणान् श्रृणु तस्यापि यत् फलम्॥ १०६.३४ ॥

षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च।
सेव्यते पितृभिः सार्द्धं स्वर्गलोके नराधिप!॥ १०६.३५ ॥

उर्वशीन्तु सदा पश्येत् स्वर्गलोके नरोत्तम!।
पूज्यते सततं पुत्र! ऋषिगन्दर्वकिन्नरै॥ १०६.३६ ॥

ततः स्वर्गात् परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः।
उर्वशीसद्रृशीनान्तु कन्यानां लभते शतम्॥ १०६.३७ ॥

मध्ये नारीसहस्राणां बहूनाञ्च पतिर्भवेत्।
दशग्रामसहस्राणां भोक्ता भवति भूमिपः॥ १०६.३८ ॥

काञ्चीनूपुरशब्देन सुप्ताऽसौ प्रतिबुद्ध्यते।
भुक्त्वातु विपुलान् भोगान् तत्तीर्थं भजते पुनः॥ १०६.३९ ॥

शुक्लाम्बरधरो नित्यं नियतः संयतेन्द्रियः।
एकं कालन्तु भुञ्जानो मासं भूमिपतिर्भवेत्॥ १०६.४० ॥

सुवर्णालङ्कृतानान्तु नारीणां लभते शतम्।
पृथिव्यामासमुद्रायां महाभूमिपतिर्भवेत्॥ १०६.४१ ॥

धनधान्यसमायुक्तो दाता भवति नित्यशः।
भुक्त्वातु विपुलान् भोगान् तत्तीर्थं लभते पुनः॥ १०६.४२ ॥

अथ सन्ध्यावटे रम्ये ब्रह्मचारी जितेन्द्रियः।
उपवासी शुचिः सन्ध्यां ब्रह्मलोकमवाप्नुयात्॥ १०६.४३ ॥

कोटितीर्थं समासाद्य यस्तु प्राणान् परित्यजेत्।
कोटिवर्षसहस्राणां स्वर्गलोके महीयते॥ १०६.४४ ॥

ततः स्वर्गात् परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः।
सुवर्णमणिमुक्ताढ्य कुले जायेत रूपवान्॥ १०६.४५ ॥

ततो भोगवतीं गत्वा वासुकेरुत्तरेण तु।
दशाश्वमेधिकं नाम तीर्थं तत्रापरं भवेत्॥ १०६.४६ ॥

कृताभिषेकस्तु नरः सोऽश्वमेधफलं लभेत्।
धनाढ्यो रूपवान् दक्षो दाता भवति धार्मिकः॥ १०६.४७ ॥

चतुर्वेदेषु यत् पुण्यं यत् पुण्यं सत्यवादिषु।
अहिंसायान्तु यो धर्मो गमनादेव तत् फलम्॥ १०६.४८ ॥

कुरुक्षेत्रसमा गङ्गा यत्र यत्रावगाह्यते।
कुरुक्षेत्राद्दशगुणा यत्र विन्ध्येन सङ्गता॥ १०६.४९ ॥

यत्र गङ्गा महाभागा बहुतीर्था तपोधना।
सिद्धक्षेत्रं हि तज्ज्ञेयं नात्र कार्य्या विचारणा॥ १०६.५० ॥

क्षितौ तारयते मर्त्यान्नागांस्तारयतेऽप्यधः।
दिवि तारयते देवांस्तेन त्रिपथगा स्मृता॥ १०६.५१ ॥

यावदस्थीनि गङ्गायां तिष्ठन्ति हि शरीरिणः।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते॥ १०६.५२ ॥

तीर्थानान्तु परं तीर्थं नदीनां तु महानदी।
मोक्षदा सर्वभूतानां महापातकिनामपि॥ १०६.५३ ॥

सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा।
गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे॥
तव स्नात्वा दिवं यान्ति ये मृतास्ते पुनर्भवाः॥ १०६.५४ ॥

सर्वेषामेव भूतानां पापोपहतचेतसाम्।
गतिमन्विष्यमाणानां नास्ति गङ्गासमागतिः॥ १०६.५५ ॥

पवित्राणां पवित्रञ्च मङ्गलानाञ्च मङ्गलम्।
महेश्वरशिरोभ्रष्टा सर्वपापहरा शुभा॥ १०६.५६ ॥