१०२

नन्दिकेश्वर उवाच।
नैर्मल्यं भावशुद्धिश्च विना स्नानं न विद्यते।
तस्मान्मनोविशुद्ध्यर्थं स्नानमादौ विधीयते॥ १०२.१ ॥

अनुद्धृतैरुद्धृतैर्वा जलैः स्नानं समाचरेत्।
तीर्थञ्च कल्पयेद् विद्वान्मूलमन्त्रेण मन्त्रवित्
नमो नारायणायेति मूलमन्त्र उदाहृतः॥ १०२.२ ॥

दर्भपाणिस्तु विधिना आचान्तः प्रयतः शुचिः।
चतुर्हस्तसमायुक्तं चतुरस्रं समन्ततः॥
प्रकल्प्यावाहयेद्गङ्गामेभिर्मन्त्रैर्विचक्षणः॥ १०२.३ ॥

विष्णोः पादप्रसूतासि वैष्णवी विष्णुदेवता।
त्राहि नस्त्वेनसस्तस्मादाजन्ममरणान्तिकात्॥ १०२.४ ॥

तिस्रः कोट्योऽर्द्धकोटी च तीर्थानां वायुरब्रवीत्।
दिवि भूम्यन्तरिक्षे च तानि ते सन्तु जाह्नवि॥ १०२.५ ॥

नन्दिनीत्येव ते नाम देवेषु नलिनीति च।
दक्षा पृथ्वी च विहगा विश्वकायाऽमृता शिवा॥ १०२.६ ॥

विद्याधरी सुप्रशान्ता तथा विश्वप्रसादिनी।
क्षेमा च जाह्नवी चैव शान्ता शान्तिप्रदायिनी॥ १०२.७ ॥

एतानि पुण्यनामानि स्नानकाले प्रकीर्तयेत्।
भवेत्सन्निहिता तत्र गङ्गा त्रिपथगामिनी॥ १०२.८ ॥

सप्तवाराभिजप्तेन करसम्पुटयोजितः।
मूद्र्ध्नि कुर्य्याज्जलं भूयस्त्रिचतुः पञ्चसप्तकम्॥
स्नानं कुर्यान्मुदा तद्वदामन्त्र्य तु विधानतः॥ १०२.९ ॥

अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे।
मृत्तिके! हर मे पापं यन्मया दुष्कृतं कृतम्॥ १०२.१० ॥

उद्धृतासि वराहेण कृष्णेन शतबाहुना।
नमस्ते सर्वलोकानां प्रभवारणि सुव्रते!॥ १०२.११ ॥

एवं स्नात्वा ततः पश्चादाचम्य च विधानतः।
उत्थाय वाससी शुक्ले शुद्धे तु परिधाय वै।
ततस्तु तर्पणं कुर्य्यात्त्रैलोक्याप्यायनाय वै॥ १०२.१२ ॥

देवा यक्षास्तथानागा गन्धर्वाप्सरसः सुराः।
क्रूराः सर्पाः सुपर्णाश्च तरवो जम्बुकाः खगाः॥ १०२.१३ ॥

वाय्वाधारा जलाधारास्तथैवाकाशगामिनः।
निराधाराश्च ये जीवा ये तु धर्म्मरतास्तथा॥ १०२.१४ ॥

तेषामाप्यायनायैतद्दीयते सलिलं मया।
कृतोपवीती देवेभ्यो निवीती च भवेत्ततः॥ १०२.१५ ॥

मनुष्यांस्तर्पयेद्भक्त्या ब्रह्मपुत्रानृषींस्तथा।
सनकश्च सनन्दश्च तृतीयश्च सनातनः॥ १०२.१६ ॥

कपिलश्चासुरिश्चैव वोढुः पञ्चशिखस्तथा।
सर्वे ते तृप्तिमायान्तु मद्दत्तेनाम्बुना सदा॥ १०२.१७ ॥

मरीचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुम्।
प्रचेतसं वशिष्ठञ्च भृगुन्नारदमेव च।
देवब्रह्मऋषीन् सर्वांस्तर्पयेदक्षतोदकैः॥ १०२.१८ ॥

अपसव्यं ततः कृत्वा सव्यं जान्वाच्य भूतले।
अग्निष्वात्तास्तथा सौम्या हविष्मन्तस्तथोष्मपाः॥ १०२.१९ ॥

सुकालिनो बर्हिषदस्तथान्ये वाज्यपाः पुनः।
सन्तर्प्य पितरो भक्त्या सतिलोदकचन्दनैः॥ १०२.२० ॥

यमाय धर्मराजाय मृत्यवे चान्तकाय च।
वैवस्वताय कालाय सर्वभूतक्षयाय च॥ १०२.२१ ॥

औदुम्बराय दध्नाय नीलाय परमेष्ठिने।
वृकोदराय चित्राय चित्रगुप्ताय वै नमः॥
दर्भपाणिस्तु विधिना पितॄन् सन्तर्पयेद् बुधः॥ १०२.२२ ॥

पित्रादीन्नामगोत्रेण तथा मातामहानपि।
सन्तर्प्य विधिना भक्त्या इमं मन्त्रमुदीरयेत्॥ १०२.२३ ॥

ये बान्धवाः बान्धवेया येऽन्यजन्मनि बान्धवाः।
ते तृप्तिमखिला यान्तु यश्चास्मत्तोऽभिवाञ्छति॥ १०२.२४ ॥

ततश्चाचम्य विधिवदालिखेत्पद्ममग्रतः।
अक्षताभिः सपुष्पाभिः सजलारुणचन्दनम्।
अर्घ्यं दद्यात्प्रयत्नेन सूर्य्यनामानि कीर्तयेत्॥ १०२.२५ ॥

नमस्ते विष्णुरूपाय नमो विष्णुमुखाय वै।
सहस्ररश्मये नित्यं नमस्ते सर्वतेजसे॥ १०२.२६ ॥

नमस्ते शिव! सर्वेश! नमस्ते सर्ववत्सल।
जगत्स्वामिन्नमस्तेऽस्तु दिव्यचन्दनभूषित॥ १०२.२७ ॥

पद्मासन! नमस्तेऽस्तु कुण्डलाङ्गदभूषित।
नमस्ते सर्वलोकेश! जगत्सर्वं विबोधसे॥ १०२.२८ ॥

सुकृतं दुष्कृतं चैव सर्वं पश्यसि सर्वग।
सत्यदेव! नमस्तेऽस्तु प्रसीद मम भास्कर॥ १०२.२९ ॥

दिवाकर! नमस्तेऽस्तु प्रभाकर! नमोऽस्तुते।
एवं सूर्य्यं नमस्कृत्य त्रिः कृत्वाथ प्रदक्षिणम्॥
द्विजङ्गां काञ्चनं स्पृष्ट्वा ततो विष्णुगृहं व्रजेत्॥ १०२.३० ॥