१००

विभूतिद्वादशीव्रतमाहात्म्यवर्णनम्।

नन्दिकेश्वर उवाच।
पुरा रथन्तरे कल्पे राजासीत् पुष्पवाहनः।
नाम्ना लोकेषु विख्यातस्तेजसा सूर्यसन्निभः॥ १००.१ ॥

तपसा तस्य तुष्टेन चतुर्वक्त्रेण नारद!।
कमलं काञ्चनं दत्तं यथा कामगमं मुने॥ १००.२ ॥

लोकैः समस्तैर्नगरवासिभिः सहितो नृपः।
द्वीपानि सुरलोकञ्च यथेष्टं व्यचरत् तदा॥ १००.३ ॥

कल्पादौ सप्तमं द्वीपं तस्य पुष्करवासिनः।
लोके च पूजितं यस्मात् पुष्करद्वीपमुच्यते॥ १००.४ ॥

देवेन ब्रह्मणा दत्तं यानमस्य यतोऽम्बुजम्।
पुष्पवाहनमित्याहुस्तस्मात्तं देवदानवाः॥ १००.५ ॥

नागम्यमस्यास्ति जगत्त्रयेऽपि ब्रह्माम्बुजस्थस्य तपोऽनुभावात्।
पत्नी च तस्याप्रतिमा मुनीन्द्र! नानीसहस्रैरभितोऽभिनन्द्या।
नाम्ना च लावण्यवती बभूव सा पार्वतीवेष्टतमा भवस्य॥ १००.६ ॥

तस्यात्मजा नामयुतम्बभूव धर्मात्मनामग्र्‌यधनुर्धराणाम्।
तदात्मनः सर्वमवेक्ष्य राजा मुहुर्मुर्हुर्विस्मय आससाद।
सोऽभ्यागतं वीक्ष्य मुनिप्रवीरं प्राचेतसं वाक्यमिदं बभाषे॥ १००.७ ॥

राजोवाच।
कस्माद्विभूतिरमलामरमर्त्यपूज्या जाता च सा विजितामरसुन्दरीणाम्।
भार्या ममाल्पतपसा परितोषितेन दत्तं ममाम्बुजगृहञ्च मुनीन्द्र! धात्रा॥ १००.८ ॥

यस्मिन् प्रविष्ठमपि कोटिशतं नृपाणाम् सामात्यकुञ्जररथौघजनावृतानाम्।
नो लक्ष्यते क्व गतमम्बरमध्य इन्दुस्तारागणैरिव गतः परितः स्फुरद्भिः॥ १००.९ ॥

तस्मात् किमन्यजननीजठरोद्भवेन धर्मादिकं कृतमशेषफलाप्तिहेतुः।
भगवन् मयाऽथ तनयैरथवाऽनयापि भद्रं यदेतदखिलं कथय प्रचेतः॥ १००.१० ॥

मुनिरभ्यधादथ भवान्तरितं समीक्ष्य पृथ्वीपतेः प्रसभमद्भुतहेतुवृत्तम्।
जन्मा भवत्तव तु लुब्धकुलेति घोरे जातस्त्वमप्यनुदिनं किल पापकारी॥ १००.११ ॥

वपुरप्यभूत्तव पुनः परुषाङ्गसन्धिदुर्गन्धिसत्वभुजगावरणं समन्तात्।
न च ते सुहृन्नसुतबन्धुजनो न तातस्त्वाद्रृक् स्वसा न जननी च तदाभिशस्ता॥
अभिसङ्गतापरमभीष्टतमा विमुखी महीश! तव योषिदियम्॥ १००.१२ ॥

अभूदनावृष्टिरतीव रौद्रा कदाचिदाहारनिमित्तमस्मिन्।
क्षुत्पीडितेनाथ तथा न किञ्चिदासादितं धान्यफलामिषञ्च॥ १००.१३ ॥

अथामिदृष्टं महदम्बुजाढ्यं सरोवरं पङ्कपरीतरोधः।
पद्मान्यथादाय ततो बहूनि गतः पुरं वै दिशनामधेयम्॥ १००.१४ ॥

तन्मौल्यलाभाय पुरं समस्तं भ्रान्तं त्वया शेषमहस्तदासीत्।
नैता न कश्चित् कमलेषु जातः श्रान्तो भृशं क्षुत्परिपीडितश्च॥ १००.१५ ॥

उपविष्टस्त्वमेकस्मिन् सभार्यो भवनाङ्गणे।
अथ मङ्गंलशब्दश्च त्वया रात्रौ महाञ्छ्रृतः॥ १००.१६ ॥

सभार्यस्तत्र गतवान् यत्रासौमङ्गलध्वनिः।
तत्र मण्डपमध्यस्था विष्णोरर्चावलोकिता॥ १००.१७ ॥

वेश्यानङ्गवती नाम विभूतिद्वादशीव्रतम्।
समाप्तौ माघमासस्य लवणाचलमुत्तमम्॥ १००.१८ ॥

निवेदयन्ति गुरवे शय्यां चोपस्करान्विताम्।
अलङ्कृत्यहृषीकेशं सौवर्णामरपादपम्॥ १००.१९ ॥

तान्तु द्रृष्ट्वा ततस्ताभ्यामिदं च परिकीर्ततम्।
किमेभिः कमलैः कार्यं वरं विष्णुरलङ्‌कृतः॥ १००.२० ॥

इति भक्तिस्तदा जाता दम्पत्योस्तु नराधिप!।
तत्प्रसङ्गात् समभ्यर्च्य केशवं लवणाचलम्।
शय्या च पुष्पप्रकरैः पूजिता भूश्च सर्वतः॥ १००.२१ ॥

अथानङ्गवती तुष्टा तयोर्धनशतत्रयम्।
दातुं त्वामाददे साथ कलधौतशतत्रयम्॥ १००.२२ ॥

न गृहीतं ततस्ताभ्यां बहुसत्वावलम्बनात्।
अनङ्गवत्या च पुनस्तयोरन्नं चतुर्विधम्॥
आनीय व्याहृतञ्चात्र बुज्यतामिति भूपते!॥ १००.२३ ॥

ताभ्यान्तु तदपि त्यक्तं भोक्ष्या वो वै वरानने!
प्रसङ्गादुपवासेन तवाद्य सुखमावयोः॥ १००.२४ ॥

जन्म प्रभृति पापिष्ठौ कुकर्माणौ द्रृढव्रते!
तत्प्रसङ्गात् तयोर्मध्ये धर्मलेशस्तु तेऽनघ!॥ १००.२५ ॥

इति जागरणं ताभ्यां तत्प्रसङ्गाधनुष्ठितम्।
प्रभाते च तया दत्ता शय्या सलवणाचला॥ १००.२६ ॥

ग्रामाश्च गुरवे भक्त्या विप्रेषु द्वादशैव तु।
वस्त्रालङ्कारसंयुक्ता गावश्च करकान्विताः॥ १००.२७ ॥

भोजनञ्च सुहृन्मित्रदीनान्धकुपणैः समम्।
तच्च लुब्धकदाम्पत्यं पूजयित्वा विसर्जितम्॥ १००.२८ ॥

स भवान् लुब्धको जातः सपत्नीको नृपेश्वरः।
पुष्करप्रकरात् तस्मात् केशवस्य च पूजनात्॥ १००.२९ ॥

विनष्टाशेषपापस्य तव पुष्करमन्दिरम्।
तस्य सत्वस्य माहात्म्यादल्पेन तपसा नृप!॥ १००.३० ॥

यथाकामगमं जातं लोकनाथश्चतुर्मुखः।
सन्तुष्टस्तव राजेन्द्र!ब्रह्मरूपी जनार्दनः॥ १००.३१ ॥

साप्यनङ्गवती वेश्या कामदेवस्य साम्प्रतम्।
पत्नीसपत्नीसञ्जाता रत्याः प्रीतिरितिश्रुताः॥
लोकेष्वानन्दजननी सकलामरपूजिता॥ १००.३२ ॥

तस्मादुत्सृज्य राजेन्द्र! पुष्करं तन्महीतले।
गङ्गातटं समाश्रित्य विभूतिद्वादशीव्रतम्॥
कुरु राजेन्द्र! निर्वाणमवश्यं समवाप्स्यसि॥ १००.३३ ॥

नन्दिकेश्वर उवाच।
इत्युक्त्वा स मुनिर्ब्रह्मन्! तत्रैवान्तरधीयत।
राजा यतोक्तञ्च पुनरकरोत् पुष्पवाहनः॥ १००.३४ ॥

इदमाचरतो ब्रह्मन्नखण्डव्रतमाचरेत्।
यथा कथञ्चित्कमलैर्द्वादशद्वादशीर्मुने॥ १००.३५ ॥

कर्तव्याः शक्तितो देया विप्रेभ्यो दक्षिणाऽनघ!।
न वित्तशाठ्यं कर्वीत भक्त्या तुष्यति केशव॥ १००.३६ ॥

इति कलुषविदारणं जनानामपि पठति श्रृणोति चाथ भक्त्या।
मतिमपि च ददाति देवलोके वसति स कोटिशतानि वत्सराणाम्॥ १००.३७ ॥