०९६

फलत्यागमाहात्म्यकथनम्।

नन्दिकेश्वर उवाच।
फलत्यागस्य माहात्म्यं यद्भवेच्छृणु नारद!।
यदक्षयं परं लोके सर्वकामफलप्रदम्॥ ९६.१ ॥

मार्गशीर्षे शुभे मासि तृतीयायां मुने! व्रतम् ।
द्वादश्यामथवाष्टम्यां चतुर्दश्यामथापि वा
आरभेच्छुक्लपक्षस्य कृत्वा ब्राह्मणवाचनम्॥ ९६.२ ॥

अन्येष्वपि हि मासेषु पुण्येषु मुनिसत्तम!।
सदक्षिणम्पायसेन भोजयेच्छक्तितो द्विजान्॥ ९६.३ ॥

अष्टादशानां धान्यानामवद्यं फलमूलकैः।
वर्जयेदब्दमेकन्तु ऋते औषधकारणम्।
सवृषं काञ्चनं रुद्रं धर्म्मराजञ्च कारयेत्॥ ९६.४ ॥

कूष्माण्डं मातुलिङ्गञ्च वार्ताकम्पनसं तथा।
आम्राम्रातकपित्थानि कलिङ्गमथवालुकम्॥ ९६.५ ॥

श्रीफलाश्वत्थबदरञ्जम्वीरं कदलीफलम्।
काश्मरन्दाडिमं शक्त्या कालधौतानि षोडश!॥ ९६.६ ॥

मूलकामलकं जम्बू तिन्तिडीकरमर्दकम्।
कङ्कोलैलाकतुण्डीरकरीर कुटजं शमी॥ ९६.७ ॥

औदुम्बरं नालिकेरं द्राक्षाथ बृहतीद्वयम्।
रौप्यानिकारयेच्छक्त्या फलानीमानि षोडश॥ ९६.८ ॥

ताम्रं तालफलं कुर्य्यादगस्तिफलमेव च।
पिण्डारकाश्मर्य्यफलं तथा सूरणकन्दकम्॥ ९६.९ ॥

रक्तालुकाकन्दकञ्च कनकाह्वञ्च चिर्भिटम्।
चित्रवल्लीफलं तद्वत्कूटशाल्मलिजम्फलम्॥ ९६.१० ॥

आम्रनिष्पावमधुकबटमुद्गपटोलकम्।
ताम्राणि षोडशैतानि कारयेच्छक्तितो नरः॥ ९६.११ ॥

उदकुम्भद्वयं कुर्य्याद्धान्योपरि सवस्त्रकम्।
ततश्च कारयेच्छय्या यथोपरि सुवाससी॥ ९६.१२ ॥

भक्ष्यपात्रत्रयोपेतं यमरुद्रवृषान्वितम्।
धेन्वा सहैव शान्ताय विप्रायाथ कुटुम्बिने॥
सपत्नीकाय सम्पूज्य पुण्येऽह्नि विनिवेदयेत्॥ ९६.१३ ॥

यथा फलेषु सर्वेषु वसन्त्यमरकोटयः।
तथा सर्वफलत्याग व्रताद्भक्तिः शिवेऽस्तु मे॥ ९६.१४ ॥

यथा शिवञ्च धर्म्मश्च सदानन्तफलप्रदौ।
तद्युक्तफलदानेन तौ स्यातां मे वरप्रदौ॥ ९६.१५ ॥

यथा भेदं न पश्यामि शिवविष्ण्वर्कपद्मजान्।
तथा ममास्तु विश्वात्मशङ्करः शङ्करः सदा॥ ९६.१६ ॥

इति दत्त्वा च तत्सर्वमलङ्कृत्य च भूषणैः।
शक्तिश्चेच्छयनं दद्यात्सर्वोपस्करसंयुतम्॥ ९६.१७ ॥

अशक्तस्तु फलान्येव यथोक्तानि विधानतः।
तथोदकुम्भसंयुक्तौ शिवधर्मौ च काञ्चनौ॥ ९६.१८ ॥

विप्राय दत्त्वा भुञ्चीत वाग्यतस्तैलवर्जितम्।
अन्यान्यपि यथा शक्त्या भोजयेच्छक्तितो द्विजान्॥ ९६.१९ ॥

एतद्भागवतानान्तु सौरवैष्णवयोगिनाम्।
शुभं सर्वफलत्यागव्रतं वेदविदो विदुः॥ ९६.२० ॥

नारीभिश्च यथाशक्त्या कर्त्तव्यं द्विजपुङ्गव!।
एतस्मान्नापरं किञ्चिदिहलोके परत्र च॥
व्रतमस्ति मुनिश्रेष्ठ! यदनन्तफलप्रदम्॥ ९६.२१ ॥

सौवर्णरौप्यताम्रेषु यावन्तः परमाणवः।
भवन्ति चूर्ण्यमानेषु फलेषु मुनिसत्तम!॥
तावद्‌युगसहस्राणि रुद्रलोके महीयते॥ ९६.२२ ॥

एतत्समस्त कलुषापहरं जनानामाजीवनाय मनुजेषु च सर्वदा स्यात्।
जन्मान्तरेष्वपि न पुत्रवियोगदुःखमाप्नोति धाम च पुरन्दरलोकजुष्टम्॥ ९६.२४ ॥

यो वा श्रृणोति पुरुषोऽल्पधनः पठेद्वा देवालयेषु भुवनेषु च धार्मिकाणाम्।
पापैर्वियुक्तवपुरत्र पुरं पुरारेरानन्दकृत्पदमुपैति मुनीन्द्र!सोऽपि॥ ९६.२५ ॥