शिवचतुर्दशीव्रतकथनम्।
नारद उवाच।
भगवन्! भूतभव्येश! तथान्यदपि यच्छ्रुतम्।
भुक्तिमुक्तिफलायालं तत्पुनर्वक्तुमर्हसि॥ ९५.१ ॥
एवमुक्तोऽब्रवीच्छम्भुरयं वाङ्मयपारगः।
मत्समस्तपसा ब्रह्मन्! पुराणश्रुतिविस्तरै॥ ९५.२ ॥
धर्मोऽयं वृषरूपेण नन्दी नाम गणाधिपः।
धर्मान् माहेश्वरान् वक्ष्यत्यतः प्रभृति नारद?॥ ९५.३ ॥
मत्स्य उवाच।
श्रृणुष्वावहितो ब्रह्मन्! वक्ष्ये माहेश्वरं व्रतम्।
त्रिषुलोकेषु विख्यातं नाम्ना शिवचतुर्दशी॥ ९५.४ ॥
मार्गंशीर्षं त्रयोदश्यां सितायामेकभेजनः।
प्रार्थयेद्देवदेवेश! त्वामहं शरणं गतः॥ ९५.५ ॥
चतुर्दश्यां निराहारः सम्यगभ्यर्च्य शङ्करम्।
सुवर्णवृषभं दत्त्वा भोक्ष्यामि च परेऽहनिः॥ ९५.६ ॥
एवं नियमकृत्स्तुत्वा प्रातरुत्थाय मानवः।
कृतस्नानजपः पश्चादुमया सह शङ्करम्।
पूजयेत्कमलैः शुभ्रैर्गन्धमाल्यानुलेपनैः॥ ९५.७ ॥
पादौ नमः शिवायेति शिरः सर्वात्मने नमः।
त्रिनेत्रायेति नेत्राणि ललाटं हरये नमः॥ ९५.८ ॥
मुखमिन्दुमुखायेति श्रीकण्ठायेति कन्धराम्।
सद्योजाताय कर्णौतु वामदेवाय वै भुजौ॥ ९५.९ ॥
अघोरहृदयायेति हृदयञ्चाभिपूजयेत्।
स्तनौ तत्पुरुषायेति तथेशानाय चोदरम्॥ ९५.१0 ॥
पार्श्वे चानन्तधर्माय ज्ञानभूताय वै कटिम्।
ऊरू चानन्तवैराग्य सिंहायेत्यभिपूजयेत्॥ ९५.११ ॥
अनन्तैश्वर्य्यनाथाय जानुनी चार्चयेद्बुधः।
प्रधानाय नमो जङ्घे गुल्फौ व्योमात्मने नमः॥ ९५.१२ ॥
व्योमकेशात्मरूपाय केशान् पृष्ठञ्च पूजयेत्।
नमः पुष्ट्यै नमस्तुष्ट्यै पार्वतीञ्चापि पूजयेत्॥ ९५.१३ ॥
ततस्तुवृषभं हैममुदकुम्भसमन्वितम्।
शुक्लमाल्याम्बरधरं पञ्चरत्नसमन्वितम्।
भक्ष्यैर्नानाविधैर्युक्तं ब्राह्मणाय निवेदयेत्॥ ९५.१४ ॥
ततो विप्रान् समाहूय तर्पयेद्भक्तितः शुभान्।
शुक्लमाल्याम्बरधरं पञ्चरत्नसमन्वितम्॥ ९५.१५ ॥
पञ्चदश्यां ततः पूज्य विप्रान् भुञ्जीत वाग्यतः।
तद्वत् कृष्णचतुर्दश्यामेतत् सर्वंसमाचरेत्॥ ९५.१६ ॥
चतुर्दशीषु सर्वासु कुर्य्यात् पूर्ववदर्चनम्।
ये तु मासे विशेषाः स्युस्तान्निबोध क्रमादिह॥ ९५.१७ ॥
मार्गशीर्षादिमासेषु क्रमादेतदुदीरयेत्।
शङ्कराय नमस्तेऽस्तु नमस्ते करवीरक!॥ ९५.१८ ॥
त्र्यम्बकाय नमस्तेऽस्तु महेश्वरमतः परम् ।
नमस्तेऽस्तु महादेव! स्थाणवे च ततः परम्॥ ९५.१९ ॥
नमः पशुपते नाथ! नमस्ते शम्भवे पुनः।
नमस्ते परमानन्द! नमः सोमार्द्धधारिणे॥ ९५.२0 ॥
नमो भीमाय इत्येवं त्वामहं शरणं गतः।
गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम्॥ ९५.२१ ॥
पञ्चगव्यं ततो बिल्वं कर्पूरञ्चागुरुं यवाः।
तिलाः कृष्णाश्च विधिवत्प्राशनं क्रमशः स्मृतम्॥
प्रतिमासं चतुर्दश्योरेकैकं प्राशनं स्मृतम्॥ ९५.२२ ॥
मन्दारमालतीभिश्च तथा धत्तूरकैरपि।
सिन्दुवारैरशोकैश्च मल्लिकाभिश्च पाटलैः॥ ९५.२३ ॥
अर्कपुष्पैः कदम्बैश्च शतपत्र्या तथोत्पलैः।
एकैकेन चतुर्दश्योरर्चयेत्पार्वतीपतिम्॥ ९५.२४ ॥
पुनश्च कार्तिके मासे प्राप्ते सन्तर्पयेद्द्विजान्।
अन्नैर्नानाविधैर्भक्ष्यैर्वस्त्रमाल्यविभूषणैः॥ ९५.२५ ॥
कृत्वा नीलवृषोत्सर्गं श्रुत्युक्तविधिना नरः।
उमामहेश्वरं हैमं वृषभञ्च गवा सह॥ ९५.२६ ॥
मुक्ताफलाष्टकयुतं सितनेत्रपटावृतम्।
सर्वोपस्करसंयुक्तां शय्यां दद्यात् सकुम्भकाम्॥ ९५.२७ ॥
ताम्रपात्रोपरि पुनः शालितण्डुलसंयुतम्।
स्थाप्य विप्राय शान्ताय वेदव्रतपराय च॥ ९५.२८ ॥
ज्येष्ठसामविदे देयं न वकव्रतिने क्वचित्।
गुणज्ञे श्रोत्रिये दद्यादाचार्ये तत्त्ववेदिनि॥ ९५.२९ ॥
अव्यङ्गाङ्गाय सौम्याय सदाकल्याणकारिणे।
सपत्नीकाय सम्पूज्य वस्त्रमाल्यविभूषणैः॥ ९५.३0 ॥
गुरौ सति गुरोर्देयं तदभावे द्विजातये।
न वित्तशाठ्यं कुर्वीत कुर्वन् दोषात्पतत्यधः॥ ९५.३१ ॥
अनेन विधिना यस्तु कुर्याच्छिवचतुर्दशीम्।
सोऽश्वमेधसहस्रस्य फलं प्राप्नोति मानवः॥ ९५.३२ ॥
ब्रह्महत्यादिकं किञ्चिद्यदत्रामुत्र वा कृतम्।
पितृभिर्भ्रातृभिर्वापि तत्सर्वां नाशमाप्नुयात्॥ ९५.३३ ॥
दीर्घायुरारोग्यकुलान्नवृद्धिरत्राक्षयामुत्र चतुर्भुजत्वम्।
गणाधिपत्यं दिवि कल्पकोटिशतान्युषित्वा पदमेति शम्भोः॥ ९५.३४ ॥
न बृहस्पतिरप्यनन्तमस्याः फलमिन्द्रो न पितामहोऽपि वक्तुम्॥
न च सिद्धगणोऽप्यलं न चाहं यदि जिह्वायुतकोटयोऽपि वक्त्रे॥ ९५.३५ ॥
भवत्यमरवल्लभः पठति यः स्मरेद्वासदा।
श्रृणोत्यपि विमत्सरः सकलपापनिर्मोचनम्।
इमां शिव चतुर्दशी ममरकामिनी कोटयः।
स्तुवन्ति तमनिन्दितं किमुसमाचरेद्यः सदा॥ ९५.३६ ॥
या वाथ नारी कुरुतेति भक्त्या भर्तारमापृच्छ्य सुतान् गुरून् वा।
सापि प्रसादात्परमेश्वरस्य परम्पदं याति पिनाकपाणेः॥ ९५.३७ ॥