नवग्रहस्वरूपवर्णनम्।
शिव उवाच।
पद्मासनः पद्मकरः पद्मगर्भसमद्युति।
सप्ताश्वः सप्तरज्जुश्च द्विभुजः स्यात् सदा रविः॥ ९४.१ ॥
श्वेतः श्वेताम्वरधरः श्वेताश्वः श्वेतवाहनः।
गदापाणिर्द्विबाहुश्च कर्तव्यो वरदः शशी॥ ९४.२ ॥
रक्तमाल्याम्बरधरः शक्तिशूलगदाधरः।
चतुर्भुजः श्वेतरोमा वरदः स्याद्वरासुतः॥ ९४.३॥
पीतमाल्याम्बधरः कर्णिकारसमद्युतिः।
खङ्गचर्म्मगदापाणिः सिंहस्थो वरदो बुधः॥ ९४.३ ॥
देवदैत्यगुरू तद्वत्पीतश्वेतो चतुर्भुजौ।
दण्डिनौ वरदौ कार्यौ साक्षसूत्रकमण्डलू॥ ९४.५ ॥
इन्द्रनीलद्युतिः शूली वरदो गृध्रवाहनः।
बाणबाणासनधरः कर्तव्योऽर्कसुतस्तथा॥९४.६ ॥
नीलसिंहासनस्थश्च राहुरत्र प्रशस्यते।
ध्रूम्रा द्विबाहवः सर्वे गदिनो विकृताननाः॥
गृध्रासनगता नित्यं केतवः स्युर्वरप्रदाः॥ ९४.७ ॥
सर्वे किरीटिनः कार्य्या ग्रहलोकहितावहाः।
ह्यङ्गुलेनोच्छ्रिताः सर्वे शतमष्टोत्तरं सदा॥ ९४.८ ॥