०९३

ग्रहशान्तिवर्णनम्।

सूत उवाच।
वैशम्पायनमासीनमपृच्छच्छौनकः पुरा।
सर्वकामाप्तये नित्यं कथं शान्तिक पौष्टिकम्॥ ९३.१ ॥

वैशम्पायन उवाच।
श्रीकामः शान्तिकामो वा ग्रहयज्ञं समारभेत्।
वृध्यायुः पुष्टिकामो वा तथैवाभिचरन्‌ पुनः॥
येन ब्रह्मन्! विधानेन तन्मे निगदतः श्रृणुः॥ ९३.२ ॥

सर्वशास्त्राण्यनुक्रम्य सङ्क्षिप्य ग्रन्थविस्तरम्।
ग्रहशान्तिं प्रवक्ष्यामि पुराणश्रुतिनोदिताम्॥ ९३.३ ॥

पुण्येऽह्नि विप्रकथिते कृत्वा ब्राह्मणवाचनम्।
ग्रहान्‌ ग्रहादिदेवांश्च स्थाप्य होमं समारभेत्॥ ९३.४ ॥

ग्रहयज्ञस्त्रिधा प्रोक्तः पुराणश्रुतिकोविदैः।
प्रथमोऽयुतहोमः स्याल्लक्षहोमस्ततः परम्॥ ९३.५ ॥

तृतीयः कोटिहोमस्तु सर्वकामफलप्रदः।
अयुतेनाहुतीनाञ्च नवग्रहमखः स्मृतः॥ ९३.६ ॥

तस्य तावद्विधिं वक्ष्ये पुराणश्रुतिभाषितम्।
गर्तस्योत्तरपूर्वेण वितस्तिद्वयविस्तृताम्॥ ९३.७ ॥

वप्रद्वयावृतां वेदिं वितस्त्युच्छ्रयसम्मिताम्।
संस्थापनाय देवानाञ्चतुरस्रामुदङ्मुखाम्॥ ९३.८ ॥

अग्निप्रणयनं कृत्वा तस्यामावाहयेत्सुरान्।
देवतानां ततः स्थाप्य विंशतिर्द्वादशाधिका॥ ९३.९ ॥

सूर्य्यः सोमस्तथा भौमो बुधजीवसितार्कजाः।
राहुः केतुरिति प्रोक्ता ग्रहा लोकहितावहाः॥ ९३.१० ॥

मध्ये तु भास्करं विन्द्याल्लोहितं दक्षिणेन तु।
उत्तरेण गुरुं विन्द्याद्‌बुधं पूर्वोत्तरेण तु॥ ९३.११ ॥

पूर्वेण भार्गवं विन्द्यात् सोमं दक्षिणपूर्वके।
पश्चिमेन शनिं विन्द्याद्राहुं पश्चिमदक्षिणे॥
पश्चिमोत्तरतः केतुं स्थापयेच्छुक्लतण्डुलैः॥ ९३.१२ ॥

भास्करस्येश्वरं विन्द्यादुमाञ्चशशिनस्तथा।
स्कन्दमङ्गारकस्यापि बुधस्य च तथा हरिम्॥ ९३.१३ ॥

ब्रह्माणञ्च गुरोर्विन्द्याच्छक्रस्यापि शचीपतिम्।
शनैश्चरस्य तु यमं राहोः कालं तथैव च॥ ९३.१४ ॥

केतौर्वै चित्रगुप्तञ्च सर्वेषामधिदेवताः।
अग्निरापः क्षिपिर्विष्णुरिन्द्र ऐन्द्रीच देवताः॥ ९३.१५ ॥

प्रजापतिश्च सर्पाश्च ब्रह्मा प्रत्यधिदेवताः।
विनायकं तथा दुर्गां वायुराकाशमेव च।
आवाहयेद्व्याहृतिभिस्तथैवाश्विकुमारकौ॥ ९३.१६ ॥

संस्मरेत् रक्तकादित्यमङ्गारकसमन्वितम्।
सोमशुक्रौ तथा श्वेतौ बुधजीवौ जपिङ्गलौ॥
मन्दराहू तथा कृष्णौ धूम्रं केतुगणं विदुः॥ ९३.१७ ॥

ग्रहवर्णानि देयानि वासांसि कुसुमानि च।
धूपामोदोऽत्र सरभिरुपरिष्टाद्वितानिकम्।
शोभनं स्थापयेत्प्राज्ञः फलपुष्पसमन्वितम्॥ ९३.१८ ॥

गुडौदनं रवेर्दद्यात् सोमाय घृतपायसम्।
अङ्गारकाय संयावं बुधाय क्षीरषष्टिके॥ ९३.१९ ॥

दध्योदनञ्च जीवाय शुक्राय च गुडौदनम्।
शनैश्चराय कृसरामजामांसञ्च राहवे॥
चित्रौदनञ्च केतुभ्यः सर्वैर्भक्ष्यैरथार्चयेत्॥ ९३.२० ॥

प्रागुत्तरेण तस्माच्च दध्यक्षतविभूषितम्।
चूतपल्लवसञ्च्छन्नं फलवस्त्रयुगान्वितम्॥ ९२.२१ ॥

पञ्चरत्नसमायुक्तं पञ्चभङ्गसमन्वितम्।
स्थापयेदव्रणं कुम्भं वरुणं तत्र विन्यसेत्॥ ९२.२२ ॥

गङ्गाद्याः सरितः सर्वाः समुद्राश्च सरांसि च।
गजाश्वरथ्यावल्मीकसङ्गमाद्रतगोकुलात्॥ ९२.२३ ॥

मृदमानीयविप्रेन्द्र! सर्वौषधिजलान्वितम्।
स्नानार्थं विन्यसेत् तत्र यजमानस्य धर्म्मवित्॥ ९३.२४ ॥

सर्वे समुद्राः सरितः सरांसि च नदास्तथा।
आयान्तु यजमानस्य दुरितक्षयकारकाः॥ ९३.२५ ॥

एवमावाहयेदेतानमरान्‌ मुनिसत्तम!।
होमं समारभेत् सर्पिर्यवव्रीहितिलादिना॥९३.२६ ॥

अर्कः पालाशखदिरावपामार्गोऽथपिप्पलः।
औदुम्बरः शमीदूर्वा कुशाश्च समिधः क्रमात्॥ ९३.२७ ॥

एकैकस्याष्टकशतमष्टाविंशतिमेव वा।
होतव्या मधुसर्पिभ्यां दध्ना चैव समन्विताः॥ ९३.२८ ॥

प्रादेशमात्रा अशिफा अशाखा अपलाशिनीः।
समिधः कल्पयेत्प्राज्ञः सर्वकर्म्मसु सर्वदा॥ ९३.२९ ॥

देवानामपि सर्वेषामुपांशु परमार्तवित्।
स्वेन स्वेनैव मन्त्रेण होतव्याः समिधः पृथक्॥ ९३.३० ॥

होतव्यं च घृताभ्युक्तं चरु भक्षादिकं पुनः।
मन्त्रैर्दशाहुतीर्हुत्वा होमं व्याहृतिभिस्ततः॥ ९३.३१ ॥

उदङ्‌मुखाः प्राङ्‌मुखा वा कुर्युर्ब्राह्मणपुङ्गवाः।
मन्त्रवन्तश्च कर्त्तव्या श्चरवः प्रतिदैवतम्॥ ९३.३२ ॥

हुत्वा च तांश्चरून् सम्यक् ततो हामं समाचरेत्।
आकृष्णेति च सूर्य्याय होमः कार्यो द्विजन्मना॥ ९३.३३ ॥

आप्यायस्वेतिसोमाय मन्त्रेण जुहुयात् पुनः।
अग्निर्मूर्द्धादिवो मन्त्र इति भौमाय कीर्तयेत्॥ ९३.३४ ॥

अग्ने! विवस्वदुषस इति सोमसुताय वै।
बृहस्पते! परिदीया रथेनेति गुरोर्मतः॥ ९३.३५ ॥

शुक्रन्ते अन्यदितिच शुक्रस्यापि निगद्यते।
शनैश्चरायेति पुनः शन्नो देवीति होमयेत्॥
कयानश्चित्र आभुव इति राहोरुदाहृतः॥ ९३.३६ ॥

केतुं कृण्वन्नितिब्रूयात् केतूनामपि शान्तये।
आवो राजेति रुद्रस्य बलिहोमं समाचरेत्॥
आपोहिष्ठेत्युमायास्तु स्योनेति स्वामिनस्तथा॥ ९३.३७ ॥

विष्णोरिदं विष्णुरिति तमीशेति स्वयम्भुवः।
इन्द्रमिद्देवतायेति इन्द्राय जुहुयात्ततः॥ ९३.३८ ॥

तथा यमस्यचायं गौरिति होमः प्रकीर्त्तितः।
कालस्य ब्रह्मयज्ञानमिति मन्त्रविदो विदुः॥ ९३.४० ॥

चित्रगुप्तस्य चाज्ञातमिति मन्त्रविदो विदुः।
अग्निं दूतं वृणीमहे इति वह्नेरुदाहृतः॥ ९३.४१ ॥

उदुत्तमं वरुणमित्यापां मन्त्रः प्रकीर्तितः।
भूमेः पृथिव्यन्तरिक्षमिति वेदेषु पठ्यते॥ ९३.४२ ॥

सहस्रशीर्षा पुरुष इति विष्णोरुदाहृतः।
इन्द्रायेन्दो मरुत्वत इति शक्रस्य शस्यते॥ ९३.४३ ॥

उत्तापर्णे सुभगे इति देव्याः समाचरेत्।
प्रजापतेः पुनर्होमः प्रजापतिरिति स्मृतः॥ ९३.४४ ॥

नमोऽस्तु सर्पेभ्य इति सर्पाणां मन्त्र उच्यते।
एष ब्रह्माय ऋत्विज्य इति ब्रह्मण्युदाहृतः॥ ९३.४५ ॥

विनायकस्य चानूनमिति मन्त्रो बुधैः स्मृतः।
जातवेदसे सुनवामितिदुर्गामन्त्र उच्यते॥ ९३.४६ ॥

आदिप्रत्नस्य रेतस आकाशस्य उदाहृतः।
प्राणाशिशुर्महीनाञ्च वायोर्मन्त्रः प्रकीर्त्तितः॥ ९३.४७ ॥

एषो उषा अपूर्व्वादित्यश्विनोर्मन्त्र उच्यते।
पूर्णाहुतिस्तु मूर्द्धानं दिव इत्यभिपातयेत्॥ ९३.४८ ॥

अथाभिषेकमन्त्रेण वाद्यमङ्गलगीतकैः।
पूर्णकुम्भेन तेनैव होमान्ते प्रागुदङ्‌मुखम्॥ ९३.४९ ॥

अव्यगावयवैर्ब्रह्मन्! हेमस्रग्दामभूषितैः।
यजमानस्य कर्तव्यं चतुर्भिः स्नपनं द्विजैः॥ ९३.५० ॥

सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः।
वासुदेवो जगन्नाथस्तथा सङ्कर्षणो विभुः
प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते॥ ९३.५१ ॥

आखण्डलोऽग्निर्भगवान् यमो वै नैर्ऋतिस्तथा।
वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः।
ब्रह्मणा सहितः शेषो दिक्‌पालास्त्वामवन्तु ते॥ ९३.५२ ॥

कीर्त्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः।
बुद्धिर्लज्जा वपुः शान्तिस्तुष्टिकान्तिश्च मातरः।
एतास्त्वामभिषिञ्चन्तु धर्म्मपत्न्यः समागताः॥ ९३.५३ ॥

आदित्यश्चन्द्रमाभौमो बुधो जीवः सितोऽर्कजः।
ग्रहास्त्वामभिषिञ्चन्तु राहुः केतुश्च तर्पिताः॥ ९३.५४ ॥

देवदानवगन्धर्वाः यक्षराक्षसपन्नगाः
ऋषयो मुनयो गावो देवमातर एव च॥ ९३.५५ ॥

देवपत्न्यो द्रुमानागा दैत्याश्चाप्सरसाङ्गणाः।
अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च॥ ९३.५६ ॥

औषधानि च रत्नानि कालस्यावयवाश्च ये।
सरितः सागराः शैलास्तीर्थानि जलदानदाः
एते त्वामभिषिञ्चन्तु सर्वकामार्थसिद्धये॥ ९३.५७ ॥

ततः शुक्लाम्बरधरः शुक्लगन्धानुलेपनः।
सर्वौषधैः सर्वगन्धैः स्नापितो द्विजपुङ्गवैः॥ ९३.५८ ॥

यजमानः सपत्नीकः ऋत्विजः सुसमाहितान्।
दक्षिणाभिः प्रयत्नेन पूजयेद्रतविस्मयः॥ ९३.५९ ॥

सूर्य्याय कपिलां धेनुं शङ्खं दद्यात्तथेन्दवे।
रक्तं धुरन्धरं दद्याद्भौमाय च ककुद्मिनम्॥ ९३.६० ॥

बुधाय जातरूपन्तु गुरवे पीतवाससी।
श्वेताश्वान् दैत्यगुरवे कृष्णाङ्गामर्कसूनवे॥ ९३.६१ ॥

आयसं राहवे दद्यात् केतुभ्यश्छागमुत्तमम्।
सुर्वणेन समा कार्य्या यजमानेन दक्षिणा॥ ९३.६२ ॥

सर्वेषामथवा गावो दातव्या हेमभूषिताः।
सुवर्णमथवादद्याद्‌गुरुर्वा येन तुष्यति॥
समन्त्रेणैव दातव्याः सर्वाः सर्वत्र दक्षिणाः॥ ९३.६३ ॥

पुण्यस्त्वं शङ्खपुण्यानां मङ्गलानाञ्च मङ्गलम्।
विष्णुना विधृतश्चासि ततः शान्तिं प्रयच्छ मे॥ ९३.६४ ॥

धर्म्मस्त्वं वृषरूपेण जगदानन्दकारक!।
अष्टमूर्त्तेरधिष्ठानमतः शान्तिं प्रयच्छ मे॥ ९३.६५ ॥

हिरण्यगर्भगर्भस्त्वं हेमवीजं विभावसोः।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे॥ ९३.६६ ॥

पीतवस्त्रयुगं यस्माद्वासुदेवस्य वल्लभम्।
प्रदानात्तस्य मे विष्णो! ह्यतः शान्तिं प्रयच्छ मे॥ ९३.६७ ॥

विष्णुस्त्वमश्वरूपेण यस्मादमृतसम्भवः।
चन्द्रार्कवाहनो नित्यमतः शान्तिं प्रयच्छ मे॥ ९३.६८ ॥

यस्मात्त्वं पृथिवी सर्वा धेनुः केशवसन्निभा।
सर्वपापहरा नित्यमतः शान्तिं प्रयच्छ मे॥ ९३.६९ ॥

यस्मादायासकर्माणि तवाधीनानि सर्वदा।
लाङ्गलाद्यायुधादीनि तस्माच्छान्तिं प्रयच्छ मे॥ ९३.७० ॥

यस्मात्त्वं सर्वयज्ञानामङ्गत्वेन व्यवस्थितः।
यानं विभावसोर्नित्यमतः शान्तिं प्रयच्छ मे॥ ९३.७१ ॥

गवामङगेषु तिष्ठन्ति भुवनानि चतुर्दश।
यस्मात्तस्माच्छ्रियै मे स्यादिहलोके परत्र च॥ ९३.७२ ॥

यस्मादशून्यं शयनं केशवस्य च सर्वदा।
शय्या ममाप्यशून्यास्तु दत्ता जन्मनि जन्मनि॥ ९३.७३ ॥

यथा रत्नेषु सर्वेषु सर्वे देवाः प्रतिष्ठिताः।
तथा रत्नानि यच्छन्तु रत्नदानेन मे सुराः॥ ९३.७४ ॥

यथा भूमिप्रदानस्य कलान्नार्हन्ति षोडशीम्।
दानान्यन्यानि मे शान्तिर्भूमिदानाद्भवत्विह॥ ९३.७५ ॥

एवं सम्पूजयेद्भक्त्या वित्तशाठ्येन वर्जितः।
रक्तकाञ्चनवस्त्रौघैर्धूपमाल्यानुलेपनैः॥ ९३.७६ ॥

अनेन विधिना यस्तु ग्रहपूजां समाचरेत्।
सर्वान्कामानवाप्नोति प्रेत्य स्वर्गे महीयते॥ ९३.७७ ॥

यस्तु पीडाकरो नित्यमल्पवित्तस्य वा ग्रहः।
तञ्च यत्नेन सम्पूज्य शेषानप्यर्चयेद् बुधः॥ ९३.७८ ॥

ग्रहा गावो नरेन्द्राश्च ब्राह्मणाश्च विशेषतः।
पूजिताः पूजयन्त्येते निर्दहन्त्यवमानिताः॥ ९३.७९ ॥

यथा बाणप्रहाराणां कवचम्भवति वारणम्।
तद्वद्दैवोपघातानां शान्तिर्भवति वारणम्॥ ९३.८० ॥

तस्मान्नदक्षिणाहीनं कर्त्तव्यं भूतिमिच्छता।
सम्पूर्णया दक्षिणया यस्माद् एकोऽपि तुष्यति॥ ९३.८१ ॥

सदैवायुतहोमोऽयं नवग्रहमखे स्थितः ।
विवाहोत्सवयज्ञेषु प्रतिष्ठादिषु कर्म्मसु॥ ९३.८२ ॥

निर्विघ्नार्थं मुनिश्रेष्ठ! तथोद्वेगाद्भुतेषु च।
कथितोऽयुतहोमोऽयं लक्षहोममतः श्रृणु॥ ९३.८३ ॥

सर्वकामाप्तये यस्माल्लक्षहोमं विदुर्बुधाः।
पितॄणां वल्लभं साक्षाद्भुक्तिमुक्तिफलप्रदम्॥ ९३.८४ ॥

ग्रहताराबलं लब्ध्वा कृत्वा ब्राह्मणवाचनम्।
गृहस्योत्तरपूर्वेण मण्डपं कारयेद् बुधः॥ ९३.८५ ॥

रुद्रायतनभूमौ वा चतुरस्रमुद्ङ्‌मुखम्।
दशहस्तमथाष्टौ वा हस्तान्कुर्याद्विधानतः॥ ९३.८६ ॥

प्रागुदक् प्लवनाम्भूमिं कारयेद्यत्नतो बुधः।
प्रागुत्तरं समासाद्य प्रदेशं मण्डपस्य तु॥ ९३.८७ ॥

शोभनं कारयेत्कुण्डं यथावल्लक्षणान्वितम्।
चतुरस्रं समन्तात्तु योनिवक्त्रं समेखलम्॥ ९४.८८ ॥

चतुरङ्गुलविस्तारा मेखला तद्वदुच्छ्रिता।
प्रागुदक्‌प्लवना कार्या सर्वतः समवस्थिता॥ ९३.८९ ॥

शान्त्यर्थं सर्वलोकानां नवग्रहमखः स्मृतः।
मानहीनाधिकं कुण्डमनेकभयदभ्भवेत्॥
यस्मात्तस्मात् सुसम्पूर्णं शान्तिकुण्डं विधीयते॥ ९३.९० ॥

अस्माद्दशगुणः प्रोक्तो लक्षहोमः स्वयम्भुवा।
आहुतीभिः प्रयत्नेन दक्षिणाभिस्तथैव च॥ ९३.९१ ॥

द्विहस्तविस्तृतं तद्वच्चतुर्हस्तायतं पुनः।
लक्षहोमे भवेत्कुण्डं योनिवक्त्रन्त्रिमेखलम् ॥ ९३.९२ ॥

तस्य चोत्तरपूर्वेण वितस्तित्रयसंस्थितम्।
प्रागुदक् प्रवणन्तच्च चतुरस्रं समन्ततः॥ ९३.९३ ॥

विष्कम्भार्द्धोच्छ्रितं प्रोक्तं स्थण्डिलं विश्वकर्म्मणा।
संस्थापनाय देवानां वप्रत्रयसमावृतम्॥ ९३.९४ ॥

द्व्यङ्गुलोह्यच्छ्रितो विप्रः प्रथमः स उदाहृतः।
अङ्गुलोच्छ्रयसंयुक्तं वप्रद्वयमथोपरिः॥ ९३.९५ ॥

त्र्यङ्गुलस्य च विस्तारः सर्वेषां कथ्यते बुधैः।
दशाङ्गुलोच्छ्रिता भित्तिः स्थण्डिले स्यात्तथोपरि।
तस्मिन्नावाहयेद्देवान् पूर्ववत् पुष्पतण्डलैः॥ ९४.९६ ॥

आदित्याभिमुखाः सर्वाः साधिप्रत्यधिदेवताः।
स्थापनीया मुनिश्रेष्ठ! नोत्तरेणपराङ्मुखाः॥ ९४.९७ ॥

गरुत्मानधिकस्तत्र सम्पूज्यः श्रियमिच्छता।
सामध्वनिशरीरत्वं वाहनं परमेष्ठिनः॥ ९४.९८ ॥

अस्माद्दशगुणः प्रोक्तो लक्षहोमः स्वयम्भुवा।
आहुतीभिः प्रयत्नेन दक्षिणाभिस्तथैव च॥ ९३.९९ ॥

गरुत्मानधिकस्तत्र सम्पूज्यः श्रियमिच्छता।
सामध्वनिशरीरत्वं वाहनं परमेष्ठिनः॥
विषपापहरो नित्यमतः शान्तिं प्रयच्छ मे॥ ९३.१०० ॥

पूर्ववत्कुम्भमामन्त्र्य तद्वद्धोमं समाचरेत्।
सहस्राणां शतं हुत्वा समित्सङ्ख्याधिकं पुनः।
घृतकुम्भवसोर्धारां पातयेदनलोपरि॥ ९३.१०१ ॥

औदुम्बरीं तथार्द्राञ्च ऋज्वीं कोटरवर्जिताम्।
बाहुमात्रां स्नुचं कृत्वा ततस्तम्भद्वयोपरि
घृतधारान्तया सम्यगग्नेरुपरि पातयेत्॥ ९३.१०२ ॥

श्रावयेत् सूक्तमाग्नेयं वैष्णवं रोद्रमैन्दवम्।
महावैश्वानरं साम ज्येष्ठसाम च वाचयेत्॥ ९३.१०३ ॥

स्नानञ्च यजमानस्य पूर्ववत् स्वस्तिवाचनम्।
दातव्या यजमानेन पूर्ववद्दक्षिणाः पृथक्॥ ९३.१०४ ॥

कामक्रोधविहीनेन ऋत्विग्भ्यः शान्तचेतसा।
नवग्रहमखे विप्राश्चत्वारो वेदवेदिनः॥ ९३.१०५ ॥

अथवा ऋत्विजौ शान्तौ द्वावेव श्रुतिकोविदौ।
कार्यावयुतहोमे तु न प्रसज्जेत विस्तरे॥ ९३.१०६ ॥

तद्वच्च दश चाष्टौ च लक्षहोमे तु ऋत्विजः।
कर्त्तव्याः शक्तितस्तद्वच्चतुरो वा विमत्सरः॥ ९३.१०७ ॥

नवग्रहमखात् सर्वं लक्षहोमे दशोत्तरम्।
भक्ष्यान् दद्यान्मुनिश्रेष्ठ! भूषणान्यपिशक्तितः॥ ९३.१०८ ॥

शयनानि सवस्त्राणि हेमानिकटकानिच।
कर्णाङ्गलिपवित्राणि कण्ठसूत्राणिशक्तिमान्॥ ९३.१०९ ॥

न कुर्याद्दक्षिणाहीनं वित्तशाठ्येन मानवः।
अददन् लोभतो मोहात्कुलक्षयमवाप्नुते॥ ९३.११० ॥

अन्नदानं यथाशक्त्या कर्त्तव्यं भूतिमिच्छता।
अन्नहीनः कृतो यस्माद्दुर्भिक्षफलदोभवेत्॥ ९३.१११ ॥

अन्नहीनो दहेद्राष्ट्रं मन्त्रहीनस्तु ऋत्वजः।
यष्टारं दक्षिणाहीनं नास्ति यज्ञसमो रिपुः॥ ९३.११२ ॥

नवाप्यल्पधनः कुर्याल्लक्षहोमं नरः क्वचित्।
यस्मात्पीडाकरोनित्यं यज्ञे भवति विग्रहः॥ ९३.११३ ॥

तमेव पूजयेद्भक्त्या द्वौ वा त्रीन्‌वा यथाविधि।
एकमप्यर्चयेद्भक्त्या ब्राह्मणं वेदपारगम्॥
दक्षिणाभिः प्रयत्नेन न बहूनल्पवित्तवान्॥ ९३.११४ ॥

पूज्यते शिवलोके च वस्वादित्यमरुद्गणैः।
यावत्कल्पशतान्यष्टावथ मोक्षमवाप्नुयात्॥ ९३.११५ ॥

सकामोयस्त्विमं कुर्याल्लक्षहोमं यथाविधि।
स तं काममवाप्नोति पदमानन्त्यमश्नुते॥ ९३.११६ ॥

पुत्रार्थीं लभते पुत्रान्‌धनार्थीलभतेधनम्।
भार्यार्थी शोभनाम्भार्य्यां कुमारीचशुभम्पतिम्॥ ९३.११७ ॥

भ्रष्टराज्यस्तथा राज्यंश्रीकामः श्रियमाप्नुयात्।
यं यं प्रार्थयतेकामं सवैभवतिपुष्कलः।
निष्कामः कुरुते यस्तु स परं ब्रह्म गच्छति॥ ९३.११८ ॥

अस्माच्छतगुणः प्रोक्तः कोटिहोमः स्वयम्भुवा।
आहुतीभिः प्रयत्नेनदक्षिणाभिः फलेनच॥९३.११९ ॥

पूर्ववद् ग्रहदेवानामावाहनविसर्जने।
होममन्त्रास्त एवोक्ताः स्नाने दाने तथैव च॥
कुण्डमण्डपवेदीनां विशेषोऽयं निबोध मे॥ ९३.१२० ॥

कोटिहोमे चतुर्हस्तं चतुरस्रन्तु सर्वतः।
योनिवक्त्रद्वयोपेतं तदप्याहुस्त्रिमेखलम्॥ ९३.१२१ ॥

द्वयङ्गुलाभ्युच्छ्रिताकार्याप्रथमामेखलाबुधैः।
त्र्यङ्गुलाभ्युच्छ्रितातद्वद्‌द्वितीयापरिकीर्त्तिता॥ ९३.१२२ ॥

उच्छ्रायविस्तराभ्यां च तृतीया चतुरङ्गुला।
द्व्‌यङ्गुलश्चेति विस्तारः पूर्वयोरेव शस्यते॥ ९३.१२३ ॥

वितस्तिमात्रां योनिः स्यात्षट्‌सप्ताङ्गुलविस्तृता ।
ता कूर्मपृष्टोन्नता मध्ये पार्श्वयोश्चाङ्गुलोच्छ्रिता॥ ९३.१२४ ॥

गजोष्ठसद्रृशी तद्वदायताच्छिद्रसंयुता।
एतत् सर्वेषु कुण्डेषु योनिलक्षणमुच्यते॥ ९३.१२५ ॥

मेखलोपरि सर्वत्र अश्वत्थदलसन्निभम्।
वेदी च कोटिहोमे स्याद्वितस्तीनां चतुष्टयम्॥ ९३.१२६ ॥

चतुरस्ना समन्ताच्च त्रिभिर्वप्रैस्तुसंयुता।
वप्रप्रमाणं पूर्वोक्तं वेदीनाञ्च तथोच्छ्रयः॥ ९३.१२७ ॥

तथा षोडशहस्तः स्यान्मण्डपश्च चतुर्मुखः।
पूर्वद्वारे च संस्थाप्य बह्वृचंवेदपारगम्॥ ९३.१२८ ॥

यजुर्विदं तथा याम्ये पश्चिमे सामवेदिनम्।
अथर्ववेदिनं तद्वदुत्तरे स्थापयेद् बुधः॥ ९३.१२९ ॥

अष्टौ तु होमकाः कार्या वेदवेदाङ्गवेदिनः।
एवं द्वादश विप्राः स्युर्वस्त्रमाल्यानुलेपनैः॥
पूर्ववत् पूजयेद्भक्त्या वस्त्राभरणभूषणैः॥ ९३.१३० ॥

रात्रिसूक्तं च रौद्रञ्च पावमानं सुमङ्गलम्।
पर्वतो बह्वृचः शान्तिं पठन्नास्तेह्युदङ्‌मुखः॥ ९३.१३१ ॥

शान्तं शाक्रञ्च सौम्यञ्च कौष्माण्डं शान्तिमेव च।
पाठयेद्दक्षिणद्वारियजुर्वेदिनमुत्तमम्॥ ९३.१३२ ॥

सुपर्णमथ वैराजमाग्नेयं रुद्रसंहिताम्।
ज्येष्ठसाम तथा शान्तिं छन्दोगः पश्चिमे जपेत्॥ ९३.१३३ ॥

शाग्तिं सूक्तञ्च सौरञ्च तथाशाकुनकं शुभम्।
पौष्टिकञ्च महाराज्यमुत्तरेणाप्यथर्ववित्॥ ९३.१३४ ॥

पञ्चभिः सप्तभिर्वापिहोमः कार्योऽत्रपूर्ववत्।
स्नाने दाने च मन्त्राः स्युस्तएवमुनिसत्तम!॥ ९३.१३५ ॥

वसोर्धाराविधानञ्च लक्षहोमे विशिष्यते।
अनेन विधिना यस्तु कोटिहोमं समाचरेत्॥
सर्वान् कामानवाप्नोति ततो विष्णुपदं व्रजेत्॥ ९३.१३६ ॥

यः पठेच्छृणुयाद्वापि ग्रहयज्ञत्रयं नरः।
सर्वपापविशुद्धात्मा पदमिन्द्रस्य गच्छति॥ ९३.१३७ ॥

अश्वमेधसहस्राणि दशचाष्टौच धर्म्मवित्।
कृत्वा यत्फलमाप्नोति कोटिहोमात्तदश्नुते॥ ९३.१३८ ॥

ब्रह्महत्यासहस्राणि भ्रूणहत्यार्बुदानि च।
कोटिहोमेन नश्यन्ति यथावच्छिवभाषितम्॥ ९३.१३९ ॥

वश्यकर्माभिचारादि तथैवोच्चाटनादिकम्।
नवग्रहमखं कृत्वा ततः काम्यं समाचरेत्॥ ९३.१४० ॥

अन्यथा फलदं पुंसां न काम्यं जायते क्वचित्।
तस्मादयुतहोमस्य विधानं पूर्वमाचरेत्॥ ९३.१४१ ॥

वृत्त वोच्चाटने कुण्डं तथा च वशकर्म्मणि।
त्रिमेखलञ्चैकवक्त्रमरत्निर्विस्तरेण तु॥ ९३.१४२ ॥

पलाशसमिधः शस्ता मधुगोरोचनान्विताः।
चन्दनागुरुणा तद्वत् कुङ्कुमेनाभिषिञ्चिताः॥ ९३.१४३ ॥

होमयेन्मधुसर्पिभ्यां बिल्वानि कमलानि च।
सहस्राणि दशैवोक्तं सर्वदैव स्वयम्भुवा॥ ९३.१४४ ॥

वश्यकर्मणि बिल्वानां पद्मानां चैव धर्मवित्।
सुमित्रियान आप औषधय इतिहोमयेत्॥ ९३.१४५ ॥

न चात्र स्थापनङ्कार्यं नचकुम्भाभिषेचनम्।
स्नानं सर्वौषधैः कृत्वाशुक्लपुष्पाम्बरोगृही॥ ९३.१४६ ॥

कण्ठसूत्रैः सकनकैः विप्रान् समभिपूजयेत्।
सूक्ष्मवस्त्राणि देयानि शुक्लागावः सकाञ्चनाः॥ ९३.१४७ ॥

अवश्मनि वशीकुर्यान् सर्वशत्रुबलान्यपि।
अमित्राण्यपिमित्राणिहोमोऽयं पापनाशनः॥ ९३.१४८ ॥

विद्वेषणेऽभिचारे च त्रिकोणं कुण्डमिष्यते।
द्विमेखलं कोणमुखं हस्तमात्रञ्च सर्वशः॥ ९३.१४९ ॥

होमङ्कुर्युस्ततोविप्रा रक्तमाल्यानुलेपनाः।
निवीतलोहितोष्णीषा लोहिताम्बरधारिणः॥ ९३.१५० ॥

नववायसरक्ताढ्यपात्रत्रयसमन्विताः।
समिधो वामहस्तेन श्येनास्थिबलसंयुताः।
होतव्या मुक्तकेशैस्तु ध्यायद्भिरशिवं रिपौ॥ ९३.१५१ ॥

दुर्भित्रियास्तस्मैसन्तु तथा हुम्फडितीतिच।
श्येनाभिचारमन्त्रेणक्षुरं समभिमन्त्र्य च॥ ९३.१५२ ॥

प्रतिरूपं रिपोः कृत्वा क्षूरेण परिकर्तयेत्।
रिपुरूपस्य शकलान्यथैवाग्नौ विनिक्षिपेत्॥ ९३.१५३ ॥

ग्रहयज्ञविधानान्ते सदैवाभिचरन् पुनः।
विद्वेषणं तथा कुर्वन्नेतदेव समाचरेत्॥ ९३.१५४ ॥

इहैव फलदं पुंसामेतन्नामुत्र शोभनम्।
तस्माच्छान्तिकमेवात्र कर्त्तव्यं भूतिमिच्छता॥ ९३.१५५ ॥

ग्रहयज्ञत्रयं कुर्य्याद्यस्त्वकाम्येनमानवः।
सविष्णोः पदमाप्नोति पुनरावृत्तिदुर्लभम्॥ ९३.१५६ ॥

य इदं श्रृणुयान्नित्यं श्रावयेद्वापि मानवः।
न तस्य ग्रहपीडा स्यान्नच बन्धुजनक्षयः॥ ९३.१५७ ॥

ग्रहयज्ञत्रयं गेहे लिखितं तत्र तिष्ठति।
न पीडा तत्र बालानां न रोगो न च बन्धनम्॥ ९३.१५८ ॥

अशेषयज्ञफलदं निः शेषाघविनाशनम्।
कोटिहोमं विदुः प्राज्ञा भुक्तिमुक्तिफलप्रदम्॥ ९३.१५९ ॥

अश्वमेधफलं प्राहुर्लक्षहोमं सुरोत्तमाः।
द्वादशाहमखस्तद्वन्नवग्रहमखः स्मृतः॥ ९३.१६० ॥

इति कथितमिदानीमुत्सवानन्दहेतोः सकलकलुषहारी देवयज्ञाभिषेकः।
परिपठति य इत्थं यः श्रृणोति प्रसङ्गादभिभवति स शत्रूनायुरारोग्ययुक्तः॥ ९३.१६१ ॥