रौप्याचलदानवर्णनम्।
अतः परं प्रवक्ष्यामि रौप्याचलमनुत्तमम्।
यत्प्रदानान्नरो याति सोमलोकमनुत्तमम्॥ ९१.१ ॥
दशभिः पलसाहस्रैरुत्तमो रजताचलः।
पञ्चभिर्मध्यमः प्रोक्तस्तदर्द्धेनाधमः स्मृतः॥ ९१.२ ॥
अशक्तो विंशतेरूर्द्ध्वं कारयेच्छक्तितस्तदा।
विष्कम्भपर्वतास्तद्वत्तुरीयांशेन कल्पयेत्॥ ९१.३ ॥
पूर्ववद्राजतान् कुर्वन् मन्दरादीन् विधानतः।
कलधौतमयांस्तद्वल्लोकेशानर्चयेद् बुधः॥ ९१.४ ॥
ब्रह्मविष्ण्वर्कवान् कार्यो नितम्बोऽत्र हिरण्मयः।
राजतं स्याद्यदन्येषां सर्वं तदिह काञ्चनम्॥ ९१.५ ॥
शेषन्तु पूर्ववत् कुर्यात् होमजागरणादिकम्।
दद्यात्ततः प्रभाते तु गुरवे रौप्यपर्वतम्॥ ९१.६ ॥
विष्कम्भशैलानृत्विग्भ्यः पूज्य वस्त्रविभूषणैः।
इमं मन्त्रं पठन् दद्याद्दर्भपाणिर्विमत्सरः॥ ९१.७ ॥
पितॄणां वल्लभो यस्माद् हरीन्द्राणां शिवस्य च।
पाहि राजत! तस्मात् त्वं शोकसंसारसागरात्॥ ९१.८ ॥
इत्थं निवेद्य यो दद्याद्रजताचलमुत्तमम्।
गवामयुतदानस्य फलं प्राप्नोति मानवः॥ ९१.९ ॥
सोमलोकेसगन्धर्वैः किन्नराप्सरसाङ्गणैः।
पूज्यमानो वसेद्विद्वान् यावदाभूतसम्प्लवम्॥ ९१.१० ॥