०९०

अतः परं प्रवक्ष्यामि रत्नाचलमनुत्तमम्।
मुक्ताफलसहस्रेण पर्वतः स्यादनुत्तमः॥ ९0.१ ॥

मध्यमः पञ्चशतकस्त्रिशतेनाधमः स्मृतः।
चतुर्थांशेन विष्कम्भपर्वताः स्युः समन्ततः॥ ९0.२ ॥

पूर्वेण वज्रगोमेदैर्दक्षिणेनेन्द्रनीलकैः।
पद्मरागयुतः कार्य्यो विद्वद्भिर्गन्दमादनः॥ ९0.३ ॥

वैढूर्य्यविद्रुमैः पश्चात्सम्मिश्रोविमलाचलः।
पद्मरागैः ससौवर्णैरुत्तरेण च विन्यसेत्॥ ९0.४ ॥

धान्यपर्वतवत्सर्वमत्रापि परिकल्पयेत्।
तद्वदावाहनं कुर्य्याद्‌वृक्षान्‌ देवांश्च काञ्चनान्॥ ९0.५ ॥

पूजयेत्पुष्पगन्धाद्यैः प्रभाते च विमत्सरः।
पूर्ववद्‌गुरुऋत्विग्भ्य इमान् मन्त्रानुदीरयेत्॥ ९0.६ ॥

यदा देवगणाः सर्वे सर्वरत्नेष्ववस्थिताः।
त्वञ्च रत्नमयो नित्यं नमस्तेऽस्तु सदाचल॥ ९0.७ ॥

यस्माद्रत्नप्रदानेन तुष्टिं प्रकुरुते हरिः।
सदा रत्नप्रदानेन तस्मान्नः पाहि पर्वत॥ ९0.८ ॥

अनेन विधिना यस्तु दद्याद्रत्नमयं गिरिम्।
स याति विष्णुसालोक्यममरेश्वरपूजितः॥ ९0.९ ॥

यावत्कल्पशतं साग्रं वसेच्चेह नराधिप। ‘
रूपारोग्यगुणोपेतः सप्तद्वीपाधिपो भवेत्॥ ९0.१0 ॥

ब्रह्महत्यादिकं किञ्चिद्यदत्रामुत्र वा कृतम्।
तत्सर्वं नाशमायाति गिरिर्वज्रहतो यथा॥ ९0.११ ॥