घृताचलदानवर्णनम्।
अतः परं प्रवक्ष्यामि घृताचलमनुत्तमम्।
तेजोऽमृतमयं दिव्यं महापातकनाशनम्॥ ८९.१ ॥
विशत्या घृतकुम्भानामुत्तमः स्याद्घृताचलः।
दशभिर्मध्यमः प्रोक्तः पञ्चभिस्त्वधमः स्मृतः॥ ८९.२ ॥
अल्पवित्तोऽपि यः कुर्य्याद् द्वाभ्यामिह विधानतः।
विष्कम्भपर्वतास्तद्वच्चतुर्भागेन कल्पयेत्॥ ८९.३ ॥
शालितण्डुलपात्राणि कुम्भोपरि निवेशयेत्।
कारयेत्संहतानुच्चान् यथाशोभं विधानतः॥ ८९.४ ॥
वेष्टयेच्छुक्लवासोभिरिक्षुदण्डफलादिकैः।
धान्यपर्वतवच्छेषं विधानमिह पठ्यते॥ ८९.5 ॥
अधिवासनपूर्वञ्च तद्वद्धोमसुरार्चनम्।
प्रभातायां तु शर्वर्य्यां गुरवे तन्निवेदयेत्।
विष्कम्भपर्वतांस्तद्वत् ऋत्विग्भ्यः शान्तमानसः॥ ८९.६ ॥
संयोगाद्घृतमुत्पन्नं यस्मादमृततेजसोः।
तस्मद्घृतार्चिर्विश्वात्मा प्रीयतामत्र शङ्करः॥ ८९.7 ॥
यस्मात्तेजोमयं ब्रह्म घृते तद्विद्ध्यवस्थितम्।
धृतपर्वतरूपेण तस्मात्त्वं पाहिनोऽनिशम्॥ ८९.८ ॥
अनेन विधिना दद्याद्घृताचलमनुत्तमम्।
महापातकयुक्तोऽपि लोकमाप्नोति शाङ्करम्॥ ८९.९ ॥
हंससारसयुक्तेन किङ्किणीजालमालिना।
विमानेनाप्सरोभिश्च सिद्धविद्याधरैर्वृतः॥
विहरेत् पितृभिः सार्द्धं यावदाभूतसम्प्लवम्॥ ८९.१० ॥