कार्पासपर्वतदानवर्णनम्॥
कार्पासपर्वतस्तद्वद्विंशद्भारैरिहोत्तमः।
दशभिर्मध्यमः प्रोक्तः पञ्चभिस्त्वधमः स्मृतः॥
भारेणाल्पधनो दद्याद्वित्तशाठ्यविवर्जितः॥ ८८.१ ॥
धान्यपर्वतवत् सर्वमासाद्य मुनिपुङ्गव।
प्रभातायान्तु शर्वर्यां दद्यादिदमुदीरयेत्॥ ८८.२ ॥
त्वमेवावरणं यस्माल्लोकानामिह सर्वदा।
कार्पासाद्रे! नमस्तुभ्यमघौघध्वंसनो भव॥ ८८.३ ॥
इति कार्पासशैलेन्द्रं यो दद्याच्छर्व सन्निधौ।
रुद्रलोके वसेत् कल्पं ततो राजा भवेदिह॥ ८८.४ ॥