तिलपर्वतदानवर्णनम्।
अतः परं प्रवक्ष्यामि तिलशैलं विधानतः।
यत् प्रदानान्नरो याति विष्णुलोकं सनातनम्॥ ८७.१ ॥
उत्तमो दशभिर्द्रोणैर्मध्यमः पञ्चभिः स्मृतः।
त्रिभिः कनिष्ठो विप्रेन्द्र! तिलशैलः प्रकीर्तितः॥ ८७.२ ॥
पूर्ववच्चापरान् सर्वान् विष्कम्भानभितो गिरीन्।
दानमन्त्रान् प्रवक्ष्यामि यथावन्मुनिपुङ्गव॥ ८७.३ ॥
यस्मान् मधुवधे विष्णोर्देहस्वेदसमुद्भवाः।
तिलाः कुशाश्च माषाश्च तस्माच्छन्नो भवत्विह॥ ८७.४ ॥
हव्ये कव्ये च यस्माच्च तिला एवाभिरक्षणम्।
भवादुद्धर शैलेन्द्र! तिलाचल! नमोस्तु ते॥ ८७.५ ॥
इत्यामान्त्र्य च यो दद्यात् तिलाचलमनुत्तमम्।
स वैष्णवं पदं याति पुनरावृत्तिदुर्लभम्॥ ८७.६ ॥
दीर्घायुष्यं समाप्नोति पुत्रपौत्रैश्च मोदते।
पितृभिर्देवगन्धर्वैः पूज्यमानो दिवं व्रजेत्॥ ८७.७ ॥