लवणाचलदानवर्णनम्।
ईश्वर उवाच।
अथातः सम्प्रवक्ष्यामि लवणाचलमुत्तमम्।
यत्प्रदानान्नरोलोकानाप्नोति शिवसंयुतान्॥ ८४.१ ॥
उत्तमः षोडशद्रोणैः कर्त्तव्यो लवणाचलः।
मध्यमः स्यात्तदर्द्धेन चतुर्भिरधमः स्मृतः॥ ८४.१ ॥
वित्तहीनो यथाशक्त्या द्रोणादूद्र्ध्वन्तु कारयेत्।
चतुर्थांशेन विष्कम्भ पर्वतान् कारयेत् पृथक्॥ ८४.३ ॥
विधानं पूर्ववत्कुर्य्याद् ब्रह्मादीनाञ्च सर्वदा।
तद्वद् हेममयान् सर्व्वान् लोकपालान्निवेशयेत्॥ ८४.४ ॥
सरांसि कामदेवादींस्तद्वदत्रापि कारयेत्।
कुर्य्याज्जागरणञ्चापि दानमन्त्रान्निबोधत॥ ८४.५ ॥
सौभाग्यसरसम्भूतो यतोऽयं लवणो रसः।
तद्दानकर्तृकत्वेन त्वं मां पाहि नगोत्तम॥ ८४.६ ॥
यस्मादन्नरसाः सर्वे नोत्कटालवणं विना।
प्रियञ्चशिवयोर्नित्यं तस्माच्छान्तिं प्रयच्छ मे॥ ८४.७ ॥
विष्णुदेहसमुद्भूतं यस्मादारोग्यवर्द्धनम्।
तस्मात्पर्वतरूपेण पाहि संसारसागरात्॥ ८४.८ ॥
अनेन विधिना यस्तु दद्याल्लवणपर्वतम्।
उमालोके वसेत्कल्पं ततो याति परां गतिम्॥ ८४.९ ॥