०८३

धान्यशैलदानविधिवर्णनम्।

नारद उवाच।
भगवन्! श्रोतुमिच्छामि दानमाहात्म्यमुत्तमम्।
यदक्षयं परे लोके देवर्षिगणपूजितम्॥ ८३.१ ॥

उमापतिरुवाच।
मेरोः प्रदानं वक्ष्यामि दशधा मुनिपुङ्गव।
यत्प्रदानान्नरो लोकानाप्नोति सुरपूजितान्॥ ८३.२ ॥

पुराणेषु च वेदेषु यज्ञेष्वायतनेषु च।
न तत्फलमधीतेषु कृतेष्विह यदश्नुते॥ ८३.३ ॥

तस्माद्विधानं वक्ष्यामि पर्वतानामनुक्रमात्।
प्रथमो धान्यशैलः स्याद् द्वितीयो लवणाचलः॥ ८३.४ ॥

गुडाचलस्तृतीयस्तु चतुर्थो हेमपर्वतः।
पञ्चमस्तिलशैलः स्यात् षष्ठः कार्पासपर्वतः॥ ८३.५ ॥

सप्तमो घृतशैलश्च रत्नशैलस्तथाष्टमः।
राजतो नवमस्तद्वद्दशमः शर्कराचलः॥ ८३.६ ॥

वक्ष्ये विधानमेतेषां यथावदनुपूर्वशः।
अयने विषुवे पुण्ये व्यतीपाते दिन क्षये॥ ८३.७ ॥

शुक्लपक्षे तृतीयायामुपरागे शशि क्षये।
विवाहोत्सवयज्ञेषु द्वादश्यामथवा पुनः॥ ८३.८ ॥

शुक्लायां पञ्चदश्यां वा पुण्यर्क्षे वा विधानतः।
धान्यशैलादयो देया यथाशास्त्रं विधानतः॥ ८३.९ ॥

तीर्थेष्वायतने वापि गोष्ठे वा भवनाङ्गणे।
मण्डपं कारयेद्भक्त्या चतुरस्रमुदङ्‌मुखम्॥
प्रागुदक् प्रवणन्तद्वत् प्राङ्कमुखञ्च विधानतः॥ ८३.१० ॥

गोमयेनानुलिप्तायां भूमावास्तीर्य वै कुशान्।
तन्मध्ये पर्वतं कुर्यात् विष्कम्भपर्वतान्वितम्॥ ८३.११ ॥

धान्यद्रोणसहस्रेण भवेद्गिरिरिहोत्तमः।
मध्यमः पञ्चशतिकः कनिष्ठः स्यात्त्रिभिः शतैः॥ ८३.१२ ॥

मेरुर्महाव्रीहिमयस्तु मध्ये सुवर्णवृक्षत्रयसंयुतः स्यात्।
पूर्वेण मुक्ताफलवज्रयुक्तो याम्येन गोमेदकपुष्परागैः॥ ८३.१३ ॥

पश्चाच्च गारुत्मतनीलरत्नैः सौम्येन वैढूर्यसरोजरागैः।
श्रीखण्डखण्डैरभितः प्रवालैर्लतान्वितः शुक्तिशिलातलः स्यात्॥ ८३.१४ ॥

ब्रह्माऽथ विष्णुर्भगवान् पुरारिर्दिवाकरोऽप्यत्र हिरण्मयः स्यात्।
मूर्द्धन्यवस्थानममत्सरेण कार्यं त्वमेकैश्च पुनर्द्विजौघैः॥ ८३.१५ ॥

चत्वारि श्रृङ्गाणि च राजतानि नितम्बभागेष्वपि राजतः स्यात्।
तथेक्षुवंशावृतकन्दरस्तु घृतोदकप्रस्रवणैश्च दिक्षु॥ ८३.१६ ॥

शुक्लाम्बराण्यम्बुधरावली स्यात् पूर्वेण पीतानि च दक्षिणेन।
वासांसि पश्चादथकर्बुराणि रक्तानि चैवोत्तरतो घनाली॥ ८३.१७ ॥

रौप्यान् महेन्द्रप्रमुखांस्तथाष्टौ संस्थाप्य लोकाधिपतीन् क्रमेण।
नानाफलानी च समन्ततः स्यान्मनोरमं माल्यविलेपनञ्च॥ ८३.१८ ॥

वितानकञ्चोपरि पञ्चवर्णमम्लानपुष्पाभरणं सितञ्च॥
इत्थं निवेश्यामरशैलमग्र्यं मेरोस्तु विष्कम्भगिरीन् क्रमेण॥ ८३.१९ ॥

तुरीयभागेन चतुर्दिशञ्च संस्थापयेत् पुष्पविलेपनाढ्यान्।
पूर्वेण मन्दरमनेकफलावलीभिर्युक्तं यवैः कनकभद्रकदम्बचिह्नैः॥ ८३.२० ॥

कामेन काञ्चनमयेन विराजमानमाकारयेत् कुसुमवस्त्रविलेपनाढ्यम्।
क्षीरारुणोदसरसाथ वनेन चैवं रौप्येण शक्तिघटितेन विराजमानम्॥ ८३.२१ ॥

याम्येन गन्धमदनश्च निवेशनीयो गोधूमसञ्चयमयः कलधौतयुक्तः।
हैमेन यज्ञपतिना घृतमानसेन वस्त्रैश्च राजतवनेन च संयुतः स्यात्॥ ८३.२२ ॥

पश्चात् तिलाचलमनेकसुगन्धिपुष्प–सौवर्णपिप्पलहिरण्मयहंसयुक्तम्।
आकारयेन्द्रजतपुष्पवनेन तद्वद्वस्त्रान्वितं दधिसितोदसरस्तथाग्रे॥ ८३.२३ ॥

संस्थाप्य तं विपुलशैलमथोत्तरेण शैलं सुपार्श्वमपि माषमयं सुवस्त्रम्।
पुष्पैश्च हेमवटपादपशेखरन्तमाकारयेत् कनकधेनुविराजमानम्॥ ८३.२४ ॥

माक्षीकभद्रसरसाथ वनेन तद्वद्रौप्येण भास्वरवता च युतं निधाय।
होमश्चतुर्भिरथ वेदपुराणविद्भिर्दान्तैरनिन्द्यचरिताकृतिभिर्द्विजेन्द्रैः॥८३.२५॥

पूर्वेण हस्तमितमत्र विधाय कुण्डंि कार्यस्तिलैर्यववृतेन समित्‌कुशैश्च
रात्रौ च जागरमनुद्धतगीततुर्यैरावाहनञ्च कथयामि शिलोच्चयानाम्॥ ८३.२६ ॥

त्वं सर्वदेवगणधामनिधे! विरुद्धमस्मद्‌गृहेष्वमरपर्वत! नाशयाशु।
क्षेमं विधत्स्व कुरु शान्तिमनुत्तमान्नः सम्पूजितः परमभक्तिमता मया हि॥ ८३.२७ ॥

त्वमेव भगवानीशो ब्रह्म विष्णुर्दिवाकरः।
मूर्तामूर्तात्परं बीजम्मतः पहि सनातन!॥ ८३.२८ ॥

यस्मात्त्वलोकापालानां विश्वमूर्तेश्च मन्दिरम्।
रुद्रादित्यवसूनाञ्च तस्माच्छान्तिं प्रयच्छमे॥ ८३.२९ ॥

यस्मादशून्यममरैर्नारीभिश्च शिवेन च।
तस्मात् मामुद्धराशेषदुःखसंसारसागरात्॥ ८३.३० ॥

एवमभ्यर्च्य तं मेरुं मन्दरञ्चाभिपूजयेत्।
यस्माच्चैत्ररथेन त्वं भद्राश्वेन च वर्षतः॥ ८३.३१ ॥

शोभसे मन्दर! क्षिप्रमतस्तुष्टिकरो भव।
यस्माच्चूडामणिर्जम्बू द्वीपे त्वं गन्धमादन!॥ ८३.३२ ॥

गन्धर्ववनशोभावानतः कीर्तिर्दृढास्तु मे।
यस्मात्त्वं केतुमालेन वैभ्राजेन वनेन च॥ ८३.३३ ॥

हिरण्मयाश्वत्थशिरास्तस्मात् पुष्टिर्ध्रुवास्तु मे।
उत्तरैः कुरुभिर्यस्मात्‌ सावित्रेण वनेन च॥
सुपार्श्व! राजसे नित्यमतः श्रीरक्षयास्तु मे॥ ९३.३४ ॥

एवमामन्त्र्य तान् सर्वान् प्रभाते विमले पुनः।
स्नात्वाऽथ गुरवे दद्यान्मध्यमं पर्वतोत्तमम्। ९३.३५ ॥

विष्कम्भपर्वतान्‌ दद्याद्रृत्विग्भ्यः क्रमशो मुने।
गाश्च दद्याच्चतुर्विशदथवा दश नारद॥ ८३.३६ ॥

नव सप्त तथाष्टौ वा पञ्च दद्यादशक्तिमान्।
एकापि गुरवे देया कपिला च पयस्विनी॥ ८३.३७ ॥

पर्वतानामशेषाणामेष एव विधिः स्मृतः।
तएव पूजने मन्त्रास्तएवोपस्करा मताः॥ ८३.३८ ॥

ग्रहाणां लोकपालानां ब्रह्मादीनाञ्च सर्वदा।
स्वमन्त्रेणैव सर्वेषु होमः शैलेषु पठ्यते॥ ८३.३९ ॥

उपवासी भवेन्नित्यमशक्ते नक्तमिष्यते।
विधान सर्वशैलानां क्रमशः श्रृणु नारद॥ ८३.४० ॥

दानकाले च ये मन्त्राः पर्वतेषु च यत्फलम्॥ ८३.४१ ॥

अन्नं ब्रह्म यतः प्रोक्तमन्ने प्राणाः प्रतिष्ठिताः।
अन्नाद्भवन्ति भूतानि जगदन्नेन वर्त्तते॥ ८३.४२ ॥

अन्नमेव ततो लक्ष्मीरन्नमेव जनार्दनः।
धान्यपर्वतरूपेण पाहि तस्मान्नगोत्तम॥ ८३.४२ ॥

अनेन विधिना यस्तु दद्याद्धान्यमयं गिरिम्।
मन्वन्तरशतं साग्रं देवलोके महीयते॥ ८३.४३ ॥

अप्सरोगणगन्धर्वैराकीर्णेन विराजता।
विमानेन दिवः पृष्ठमायाति स्म निषेवितः॥
धर्म्मक्षये राजराज्यमाप्नोतीह न संशयः॥ ८३.४४ ॥