०८१

विशोकद्वादशीव्रतकथनम्।

मनुरुवाच।
किमभीष्टवियोगशोकसङ्घादलमुद्धर्तुमुपोषणं व्रतं वा।
विभवोद्भवकारि भूतलेऽस्मिन् भवभीतेरपि सूदनञ्च पुंसः॥ ८१.१ ॥

मत्स्य उवाच।
परिपृष्टमिदं जगत् प्रियन्ते विबुधानामपि दुर्लभं महत्त्वात्।
तव भक्तिमतस्तथापि वक्ष्ये व्रतमिन्द्रासुरमानवेषु गुह्यम्। ८१.२ ॥

पुण्यमाश्वयुजे मासि विशोकद्वादशीव्रतम्।
दशम्यां लघुभुग्विद्वानारभेन्नियमेन तु॥ ८१.३ ॥

उदङ्‌मुखः प्राङ्‌मुखो वा दन्तधावनपूर्वकम्।
एकादश्यां निराहारः समभ्यर्च्य तु पूर्वकम्
श्रियं वाऽभ्यर्च्य विधिवद्भोक्ष्यामि त्वपरेऽहनि॥ ८१.४॥

एवं नियमकृत्सुप्ता प्रातरुत्थाय मानवः।
स्नानं सर्वौषधैः कुर्यात्पञ्चगव्यजलेन तु॥
शुक्लमाल्याम्बरधरः पूजयेच्छ्रीशमुत्पलैः॥ ८१.५ ॥

विशोकाय नमः पादौ जङ्घे च वरदाय वै।
श्रीशाय जानुनी तद्वदूरू च जलशायिने॥ ८१.६ ॥

कन्दर्पाय नमो गुह्यं माधवाय नमः कटिम्।
दामोदरायेत्युदरम्पार्श्वे च विपुलाय वै॥ ८१.७ ॥

नाभिञ्च पद्मनाभाय हृदयं मन्मथाय वै।
श्रीधराय विभोर्वक्षः करौ मधुजिते नमः॥ ८१.८ ॥

चक्रिणे वामबाहुञ्च दक्षिणङ्गदिने नमः।
वैकुण्ठाय नमः कण्ठमास्यां यज्ञमुखाय वै॥ ८१.९ ॥

नासामशोकनिधये वासुदेवाय चाक्षिणी।
ललाटं वामनायेति हरयेति पुनर्भ्रुवौ॥ ८१.१० ॥

अलकान् माधवायेति किरीटं विश्वरूपिणे।
नमः सर्वात्मने तद्वच्छिर इत्यभिपूजयेत्॥ ८१.११ ॥

एवं सम्पूज्य गोविन्दं फलमाल्यानुलेपनैः।
ततस्तु मण्डलं कृत्वा स्तण्डिलं कारयेन्मृदा॥ ८१.१२ ॥

चतुरस्रं समन्ताच्च रत्निमात्रमुदक्‌प्लवम्।
श्लक्ष्णं हृद्यं च परितो विप्रत्रयसमावृतम्॥ ८१.१३ ॥

अङ्गुलेनोच्छृता विप्रास्तद्विस्तारस्तु द्वयङ्गुलः।
स्थण्डिलस्योपरिष्टाच्च भित्तिरष्टाङ्गुला भवेत्॥ ८१.१४ ॥

नदीवालुकया शूर्पे लक्ष्म्याः प्रतिकृतिं न्यसेत्।
स्थण्डिकले शूर्पमारोप्य लक्ष्मीमित्यर्चयेद्‌ बुधः॥ ८१.१५ ॥

नमो देव्यै नमः शान्त्यै नमो लक्ष्म्यै नमः श्रियै।
नमः पुष्ट्‌यै नमस्तुष्ट्यै वृष्ट्‌यै हृष्टयै नमो नमः॥ ८१.१६ ॥
विशोका दुःखनाशाय विशोका वरदास्तु मे।
विशोका चास्तु सम्पत्यै विशोका सर्वसिद्धये॥ ८१.१७ ॥

ततः शुक्लाम्बरैः शूर्पं वेष्ट्य सम्पूजयेत् फलैः।
वस्त्रैर्नानाविधैस्तद्वत् सुवर्णकमलेन च॥ ८१.१८ ॥

रजनीषु च सर्वासु पिबेद्दर्भोदकं बुधः।
ततस्तु गीतनृत्यादि कारयेत् सकलान्निशाम्॥ ८१.१९ ॥

यामत्रये व्यतीते तु सुप्त्वाप्युत्थाय मानवः।
अभिगम्य च विप्राणां मिथुनानि तदार्चयेत्॥ ८१.२० ॥

शक्तितस्त्रीणिचैकं वा वस्त्रमाल्यानुलेपनैः।
शयनस्थानि पूज्यानि नमोऽस्तु जलशायिने॥ ८१.२१ ॥

ततस्तु गीतवाद्येन रात्रिजागरणे कृते।
प्रभाते च ततः स्नानं कृत्वा दाम्पत्यमर्चयेत्॥ ८१.२२ ॥

भोजनञ्च यथाशक्त्या वित्तशाठ्यविवर्जितः।
भुक्त्वा श्रुत्वा पुराणानि तद्दिनञ्चातिवाहयेत्॥ ८१.२३ ॥

अनेन विधिना सर्वं मासि मासि समाचरेत्।
व्रतान्ते शयनं दद्याद्‌ गुडधेनुसमन्वितम्॥
सोपधानकविश्रामं सास्तरावरणं शुभम्॥ ८१.२४ ॥

यथा न लक्ष्मीर्देवेश! त्वां परित्यज्य गच्छति।
तथा सुरूपतारोग्यमशोकश्चास्तु मे सदा॥ ८१.२५ ॥

यथा देवेन रहिता न लक्ष्मीर्जायते क्वचित्।
तथा विशोकिता मेऽस्तु भक्तिरग्र्या च केशवे॥ ८१.२६ ॥

मन्त्रेणानेन शयनं गुडधेनुसमन्वितम्।
शूर्पञ्च लक्ष्म्या सहितं दातव्यं भूतिमिच्छता॥ ८१.२७ ॥

उत्पलं करवीरञ्च बाणमम्लानकुङ्कुमम्।
केतकी सिन्दुवारञ्च मल्लिका गन्दपाटका॥
कदम्बं कुब्जकं जातिः शस्तान्येतानि सर्वदा॥ ८१.२८ ॥